कर्तृत्वाधिकरणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कर्तृत्वाधिकरणम्
रामानुजाचार्यस्य चित्रम्
रामानुजाचार्यस्य चित्रम्

तात्पर्यचन्द्रिकोक्तदिशा कर्तृत्वाधिकरणविमर्शः अत्र चिकीर्षितः । प्रथमतः अद्वैतसिध्दान्तानुरोधेन अधिकरणरचनक्रमः प्रदर्श्यते । अद्वैतनयानुरोधेन सप्तसूत्राणि –कर्ता शास्त्रार्थवत्वात् (२.३.४.३३.) विहारोपदेशात् ३४, उपादानात् ३५, व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ३६, उपलब्धिवदनियमः ३७, शक्तिविपर्ययात् ३८, समाध्यभावाच्च ३९, यथा न तक्षोभयथा ४० ।

जीवस्य कर्तृत्व एव ‘जुहुयाद्’ ‘दद्यात्’ इत्यादिशास्त्रमर्थवद्भवतीति अङ्गीकार्यमेव कर्तृत्वम् । शास्त्रफलं प्रयोक्तरि (अनुष्ठातरि) तल्लक्षणत्वात् (प्रयोक्तृफलसाधनतालक्षणत्वात् ) इति जैमिन्युक्तेश्च । विहारोपदेशात्, ‘प्राणान् गृहीत्वा’ इति करणानामुपादानप्रतीतेश्च जीव एव कर्ता । जीवस्य कर्तृत्व्ं हि ‘विज्ञानं यज्ञं तनुत’ इति प्रसिध्दम् , न चात्र बुध्दिर्निर्दिष्टा । अन्यथा विज्ञानेनेति निर्देशविपर्ययः स्यात् । न च इष्टानुपलब्ध्यनिष्टोपलब्धिदर्शनात् न जीवः स्वतन्त्रः । तस्मान्न कर्तेति शड्क्यम् । करणादीनि कर्ता उपयुञ्जन्नेव कर्म करोति । क्वचिदिष्टमभिप्रेप्सुरदृष्टवशात्तत्साधनविभ्रमेणानिष्टोपायं व्यापारयन्ननिष्टं लभते । न चैतावता स्वतन्त्र्याभावेऽपि कर्तृत्वं नास्तीत्यापन्नम् ।

यदि बुध्दिः कर्त्री तर्हि करणशक्तिर्हीयेत कर्तृशक्तिश्चापद्येत् । बुध्देः कर्तृशक्तौ तस्य एव अहंप्रत्ययविष्यत्वमभ्युपेयं स्यात् । किञ्च ‘आत्मा वारे द्र्ष्टव्यः’ इत्यादौ य आत्मप्रतिपत्तिप्रयोजनः समाधिरुपदिष्टः वेदान्तेषु स च आत्मनोऽकर्तृत्वे अनुपपन्न एव भवति । यथा च तक्षोभयथा ४० (अधिकरण ५ )

अभ्युपगतमात्मनः कर्तृत्वम् । न चैतत् स्वाभाविकम् । तथात्वे चानिर्मोक्षप्रसङ्गः । ‘ध्यायतीव’ ‘लेलायतीव’ ‘नान्योतोऽस्ति द्र्ष्टा’ इत्यादौ श्रुतिर्निर्विशेषचैतन्यावस्थानमेव मुक्तिमभिदधति । यथा तक्षा वात्स्यादिकरणहस्तः कर्ता दुःखी च भवति, तद्विहीनश्चाकर्ता सुखी च भवति गृहे, तद्वत् जागरितस्वप्नयोरविद्योपस्थापितद्वैतसंपृक्त आत्मा कर्ता दुःखी च भवति । तद्विहीनश्च सम्प्रसादोऽकर्ता सुखी च भवति । एवमेव मुक्तावपि विद्योदयेनाकर्ता सुखी तिष्ठति तस्मान्न कर्तृत्वं स्वाभाविकम् । परात्तु तच्छ्रतेः ४१ (अधिकरण ६)

ईश्वरस्य कारयितृत्वे तस्य वैषम्यादि प्रसज्यत इति जीव एव कर्तेति प्राप्ते निराचकार भगवान् पाराशरः ‘परात्तु तच्छ्र्तेः’ इति । ‘एष ह्येव साधु कर्म कारयति’ इति श्रुत्या ईश्वरस्य कारयितृत्वमविद्यावस्थायामभ्युपेयमेवेति ।

न चैवमीश्वरस्य वैषम्यादीत्याह –कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैय्यर्थ्यादिभ्य इति ४२ ।
अनादिकर्मप्रयत्नाद्यपेक्ष एवेश्वरः फलं ददातीति न तस्य वैषम्यादि ।

रामानुजसिध्दान्तानुरोधेन कर्तृधिकरणम् (अधिकरण ५)[सम्पादयतु]

रामानुजीये तु कर्तृधिकरणं सूत्रषट्कोपेतम् । ते हि उपादानाद्विहारोपदेशात् इति मिलित्वैकं सूत्रमामनन्ति । ततः परायत्ताधिकरणम् (६ अधिकरण) तत्र शाङ्कराणामिव द्वौ सूत्रौ विद्येते । अयमधिकरणसारः विशिष्टाद्वैतनये- आत्मनो ह्यकर्तृत्वं गुणानां च कर्तृत्वमाध्यात्मशास्त्रे श्रूयते – ‘ न जायते म्रियते’ इति ‘प्रकृतेः क्रियमाणानि’ ‘नान्यं गुणेभ्यः कर्तारं’------------- इति च । अतः पुरुषस्य केवलं भोक्तृत्वमेव न कर्तृत्वमिति । तत्र प्र्तिविहितं-कर्ता शास्त्रार्थ वत्वात् इति । आत्मैव कर्ता न् गुणाः । ‘यजेत् स्वर्गकाम’ इत्यादिशास्त्राणि भोक्तारमेव कर्तारं प्रतिपादयन्ति । अत एव शास्त्रास्यार्थवत्वम् । न चाचेतनस्य प्रधानस्य विधिनिषेधादिकमर्थवत् भवति । तदुक्तं जैमिनीये- ‘शास्त्रफलं प्रयोक्तरि’ इति । आत्मनः कर्तृत्वनिषेधवचनानि तु केवलस्यात्मनः कर्तृत्वं निराकुर्वतः इति न विरोधगन्धः ।

उपलब्धिवदनियमः ३६[सम्पादयतु]

आत्मनोऽकर्त्रृत्वे दोष उच्यते । प्रकृतेः कर्तृत्वे तस्याः सर्वपुरुषसाधारण्यात् सर्वाणि कर्माणि सर्वेषां भोगाय स्युः । नैव वा कस्यचित । आत्मनां विभुत्वाभ्युपगात् सन्निधानमपि सर्वेषामविशिष्टम् ।

शक्तिविपर्ययात् ३७[सम्पादयतु]

बुध्देः कर्तृत्वे कर्त्रन्यस्य भोक्तृत्वानुपपत्तेः भोक्तृशक्तिरपि तस्या एव भवेत् । ततश्चात्मसद्भावे प्रमाणाभावः साड्ख्यानाम् । ‘पुरुषोऽस्ति भोक्तृभावात्’ इति हि तेषामभ्युपगमः ।

समाध्यभावाच्च् ३८[सम्पादयतु]

बुध्देः कर्तृत्वे मोक्षसाधनसमाधावपि सैव कर्त्रीति वाच्यम् । समाधिश्च प्रकृतेरन्योऽहमस्मीत्येवमाकार अभ्युपगतः साड्ख्यैः । न च प्रकृतेरन्योऽस्मीति प्रकृतिः समाधातुमलम् । अतोऽप्यात्मैव कर्ता ।

यथा न तक्षोभयथा ३९[सम्पादयतु]

आत्मनः कर्तृत्वे सर्वदा कर्तृत्वं नोपरमेतेत्यत्राह- यथा चेति । यथा तक्षा वास्यादिकरणसम्पन्नोऽपि इच्छानुगुण्येन करोति तदभावे च न करोति तथैवात्मापि वागादिकरणसम्पन्नोऽपि यदेच्छति तदा करोति । तदभावे च तदभावः ।

परात्तु तच्छ्र्तेः ४० (६ अधिकरण)[सम्पादयतु]

यो हि स्वबुध्द्या प्रवृत्तिनिवृत्यारम्भकः स एव नियोज्य इति । कर्तृत्वं जीवस्य स्वातन्त्र्येणैवेति पूर्वपक्षिते परात्तु इत्यत्र तु शब्देन ईश्वराधीनमेव कर्तृत्वं जीवस्येत्याह सूत्रकारः । अत एवोक्तम् –‘अन्तः प्रविष्टः शास्ता जनानाम्’ इति ‘य आत्मानमन्तरो यमयति’ ‘सर्वस्य चाहं हृदि’ ‘ईश्वरः सर्वभूतानाम्’ इति च ।

अत्रेदं रहस्यम् –पराधीनकर्तृत्वेऽपि जीवस्य परमात्मनः स्वतन्त्रकर्तूत्वेन तस्यैव फलभोक्तृत्वं वैषम्यादिकञ्च दुर्वारम् । जीवस्य कदाचिदपि स्वातन्त्र्यानभ्युपगमे नैषा शङ्का दूरोत्सारिता भवति । अत एव समाधिरियं भवति –प्रथम्-प्रवृत्तौ जीवः ईश्वरदत्तस्वातन्त्र्येण कर्मणि प्रवर्तते । तदा तु नेश्वरः कर्ता कारयिता वा । अपि तु केवलमनुमन्ता उपेक्षकश्च । द्वितीयादिप्रवृत्तौ तु प्राक्तनकर्मानुरोधेन फलदातृत्वात् नेश्वरस्य वैषम्यादि । तदुक्तम्-

आदावीश्वरदत्तयैव पुरुषः स्वातन्त्र्यशक्त्या स्वयं
तत्तज्ज्ञानचिकीर्षणप्रयतनान्युत्पादयन् वर्तते ।
तत्रोपेक्ष्य ततोऽनुमत्य विदधत् तन्निग्रहानुग्रहौ
तत्तत्कर्मफलं प्रयच्छति ततः सर्वस्य पुंसो हरिः ॥ इति ।

द्वैतनये कर्तृत्वाधिकरणसारः[सम्पादयतु]

  1. नान्यः कर्तेत्यादिश्रुतेः जीवो न् कर्तेति पूर्वपक्षः । ‘यत्कर्म कुरुते’ ‘जक्षन् क्रीडन्’ ‘कर्ता विज्ञानात्मा’ ‘तद्विजिज्ञासस्व तद्बह्म’ इत्यादिश्रुतेर्निरर्थकत्वाभावात् जीवः कर्ता । तदुक्तम् –स्वातन्त्र्याभावाभिप्रायेणैवाकर्तृत्वमित्यादि । यद्विद्यमानमपि परतन्त्रकार्योन्मुखं तदसदेवेति सौधन्यायेनाकर्तृत्वोक्तिः ।
  2. कृत्स्नैकदेशाभ्यां कर्तृत्वं व्याप्तम् । तृणादानादिप्रवृत्तौ कृत्स्नप्रसक्तौ अनुभवविरोधः । एकदेशाङ्गीकारे निरवयत्वप्रतिपादकश्रुतिव्याकोपः । ततः कर्तृत्वं नास्तीति पूर्वपक्षः । जीवस्य स्वतन्त्रकर्तृत्वाङ्गीकार एवायं दोषः । पराधीनकर्तृत्वे तु न । अनंश एव जीवः । अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यप्रवृत्तिसम्भवात् नानुपपत्तिः
  3. पराधीनकर्तृत्वं किं बहिः प्रेरणया । दारुयोषावद्वा ? नाद्यः ‘य आत्मानमन्तरो यमयति’ इति श्रुतिविरोधात् । द्वितीये भगवत एव विधिनिषेधापत्तिः । क्रियास्वातन्त्र्याभावेऽपि, जीवगतप्रवृत्योदरीशाधीनत्वेऽपि ईश्वरः जीवस्य प्रयत्नेच्छानुत्पाद्यैव प्रवर्तयतीति जीवेच्छाधीनत्वस्याप्यनुभवसिध्दतया स्वेच्छाधीनप्रवृत्तिमत्वस्यैव कर्तृत्वशब्दार्थत्वात् । तथा चानादियोग्यतादिवैचित्र्यात् स्वतन्त्रकर्तुर्विध्यविषयत्वेऽपि परतन्त्रकर्तुः तद्विषयत्वात् कर्तृत्वोपपत्तिः ।
  4. न तावत् नटपुरुषेण नर्त्यमानदारुयोषावत् अन्याधीनकर्तुः विद्यादिविषयत्वमिति चेत्, न । जीवस्य चेतनत्वेन दारुयोषावत् जडत्वाभावात् ।
  5. नाऽपि चेतनत्वेऽपि मत्तस्य पुरुषस्य मदेनेव दुर्बलस्य प्रबलजलौघादिना ईश्वरेण बलान्नोद्यमानत्वात् न विद्यादिविषयत्वमिति । ईश्वरस्य जीवगतेच्छामुत्पाद्यैव प्रवर्तकत्वात् ।
  6. नाऽपि जीवस्य कर्तृत्वेऽपि तत्रैव क्रियायां ईश्वरस्यापि कर्तृत्वेन स्वमात्रकर्तृकत्वाभावादिति । रथाकर्षणादौ सत्रयागादौ च अन्यस्य कर्तृत्वेन स्वकर्तृत्वमात्रेण विध्यादिदर्शनात् ।
  7. नाऽपि विष्टिगृहीतस्येव स्वेच्छाधीनप्रवृत्त्याद्याभावात् इति । जीवप्रवृत्तेरीशेच्छाधीनत्वेऽपि जीवेच्छाजन्यत्वस्याऽपि अनुभवसिध्दत्वात् ।
  8. नाऽपि जीवेच्छादेरपीशेच्छाद्युत्पादितत्वादिति । पित्राद्युत्पादितेच्छादिमतोऽपि माणवकस्य सन्ध्योपासनाविध्यादिदर्शनात् ।

तत्त्वमार्ताण्डे चन्दिकोक्तदूषणानुवादः[सम्पादयतु]

  1. एषः ह्येवेति श्रुतिसङ्कोचः कुतः – १) नोदाहृतवचनाविरोधाय २) नापीश्वरेऽवैषम्याय ३) अनिष्टादनिवर्तने ईश्वरस्य नैर्घृण्यं च ४) नापि जीवस्य विधिविषयत्वाय ।
  2. यत्रादावेवेश्वरः प्रयोजकस्तत्र वैषम्यादि दुर्वारं च ।

तत्त्वमार्ताण्डे स्वमतसमर्थनम्- शास्त्रार्थवत्त्वाय हि जीवस्य कर्तृत्वं कल्प्यम् । तद्यदि प्रथमप्रवृत्तावपि परायत्तं तदा शास्त्रार्थवत्वं न सिध्द्येत् । ईश्वरस्य फलभाक्तत्वं च स्यात् । प्रेर्यभृत्यन्यायेन जीवस्य फलान्वेयो न स्यात् । प्रथमप्रवृत्तौ जीवस्य स्वातन्त्र्ये ईश्वरस्यौदासीन्ये च न काचिदनुपपत्तिः इच्छाशक्तिमत्त्वे सति तन्निवारणसामर्थ्यं स्वातन्त्र्यं जीवस्य विषान्नभक्षणादिस्थले दृष्टम् । प्रथमप्रवृत्तावौदासीन्येऽपि ईश्वरस्य न स्वातन्त्र्यभङ्गः करणकलेवरादिदानात् ।

न च द्वितीयादिप्रवृत्तावपीश्वरस्यौदासीन्यप्रसङ्गः । असन्निहितवस्तुसन्निधापनाय तत्रेश्वरव्यापारावश्यंभावात् । अन्यथा प्राचीनकर्मफलदातृत्वमीश्वरस्य न स्यात् । अतः प्रथमप्रवृत्त्यनुगुणफलसिध्द्यनुकूलतत्तदुपकारे भगवद्भिसन्धिरावश्यक इति तत्रानुमन्तृत्वम् । प्रथमप्रवृत्तावन्यफलदित्साभिसन्धिर्नास्तीति तस्यौदासीन्यम् ।

महानिष्टफलकप्रवृत्तेरनिवर्तने को दोष ईश्वरस्य । तस्यापि तदनिष्टं स्यादिति वा तस्य नैर्घृण्यं स्यादिति वा । नाद्यः । प्रथमप्रवृत्तावौदासीन्येन तत्प्रसङ्गाभावात् । पुत्रयोः क्षेत्रादिविभाजकपितृवत् । न च पुत्रयोः सदसद्व्ययज्ञानाज्ञानाभ्यां तदनुमन्तृत्वाननुमन्तृत्वाभ्यां प्रथमप्रवृत्तिहेतुत्वाहेतुत्वाभ्यां विशेष इति वाच्यम् । ज्ञानाज्ञानयोरप्रयोजकत्वात् । पितुरप्यनुमन्तृत्वात् । पितुरसद्व्ययाभिसन्धिर्नास्तीति चेदीश्वरस्यापि तथैव । प्राचीनकर्मफलतयैवानुष्ठापनात्, अन्यफल्दित्साभिसन्ध्यभावात् । नन्वनिष्टफलं नियमेन जायत इति जानत ईश्वरस्य कथं तत्रोदासीन्यम् । घटपट- प्रासादरथ्या –दीपदृष्टान्तः ।

न चेश्वरस्य घातुकत्वप्रसङ्गः । आचार्यशास्त्रदेहादिदानेन विशेषोपकारात् । नैर्घृण्यप्रसङ्गस्तु नास्ति । मोक्षप्रतिबन्धकानामनुभवैकनाश्यानां कर्माणां ……… । वैद्यदृष्टान्तः । अतः सङ्कोचः । यत्रादावेव प्रयोजकत्वं तत्र सार्वभौमन्यायेन दोषः परास्तः । तत्त्वमार्ताण्डे चन्द्रिकादूषणम्

ऎकाधिकरण्यमयुक्तम् । कर्तृत्वसमर्थनानन्तरमेव पराधीनत्वविचारस्य सङ्गतत्वात् शास्त्रार्थवत्त्व विहितप्रतिषेधावैयर्थ्य इत्यनयोः पौनरुक्तयं च । पूर्वपक्षश्चायुक्तः । कर्तृत्वमात्रसाधनेन शास्त्रार्थवत्त्वासिध्देः । तदा हिताकरणादियुक्तिसाचिव्यासिध्देर्न पूर्वपक्षस्य बलीयस्त्वम् । कथञ्चित् पूर्वपक्षसम्भवेऽपि कर्तेति परात्त्विति सूत्रयोः ==पौनरुक्त्यम्== सिध्दान्तोऽप्ययुक्तः । परतन्त्रकर्तुर्विधिनिषेधानन्वयात् भृत्यवत् । तक्षादिवच्चेत् अस्मदिष्टम् । तस्य तक्षणादौ स्वातन्त्र्याङ्गीकारात् । तादृशमेवेश्वरस्य प्रथमप्रवृत्तावौदासीन्यम् । प्रथमप्रवृत्तेरभयेच्छाजन्यत्वे फलस्योभयगामित्वं स्यात् तक्षयजमानयोरिव । सर्वस्येश्वरेच्छाप्रयोज्यत्वं सामान्याकारेणैव न तु विशेषाकारेणेति नास्माकं दोषः । राजेच्छाप्रयोज्यभृत्ययुध्दजन्यफलस्य राजगामित्वं तदिच्छप्रयोज्यभृत्यभोजनजन्यतृप्तेर्भृत्यगामित्वं च दृष्टम् । माणवकादिस्थलेऽपि पितुः फलान्वयोऽस्ति । विष्टिस्थलेऽपि राजभृत्यस्य तथा ।

सूत्रक्रमः सूत्रार्थवर्णनं चायुक्तम् द्वैतनये इति शङ्का[सम्पादयतु]

  1. उपादानाद्विहारोपदेशाच्चेति सूत्रविन्यासः स्यात् । २. काल्पनिककर्तृत्वमाश्रित्य शास्त्रार्थवत्त्वशङ्कापि मन्दा । तन्मते कर्तृत्वभोक्तृत्ववैयधिकरण्यादिविचारः । ३. मोक्षेऽपि कर्तृत्वोपदेशेन तस्यारोपितत्वनिरासे पुनरारोपितत्वशङ्कानुदयश्च । ४. व्यपदेशाच्चेत्यंशः शास्त्रपदेन पुनरुक्तः । परमात्मनः कर्तृत्वेन व्यपदेशः स्यादित्याक्षेपश्चायुक्तः । कर्मकर्तृव्यपदेशाच्चेति सूत्रेणा विरोधात् । ५. जीवस्यापि कर्तृत्वे कथमीश्वारस्यैव तदिति शङ्कानिरसार्थं प्रवृत्तमुपलब्धीति सूत्रमित्यप्ययुक्तम् । स्वतन्त्रपरतन्त्रकर्तृत्वयोरविरोधेन शङ्काया एवानुदयात् । कोऽयमनियमः । इच्छाया विषयाऽविनाभावश्चेदीश्वरस्यापि तदस्ति जीवस्य तु नास्ति । शक्तिविपर्ययस्य नियमोपपादकत्वमप्ययुक्तम् । शक्तिसमाध्योरभावाच्चेति सूत्रविन्यासः स्यात् । यथा चेति सूत्रे तक्षदृष्टान्तोऽप्यस्माकमेवानुकूल इत्यादि ।

द्वैतनये विशिष्टाद्वैतोक्तकर्तृत्वाधिकरणविमर्शः[सम्पादयतु]

  1. प्रथमप्रवृत्तौ ईश्वरस्यौदासीन्यं नोपपद्यते । ‘स हि सर्वस्य कर्ता’ ‘न ऋते’ इत्यादिश्रुतिविरोधात् । ईश्वरस्य फलभाक्त्वप्रसङ्गे न । प्रयोजकत्वेऽपि ईश्वरस्य कर्मफलानन्वयाय प्रथमप्रवृत्तौ औदासीन्यकल्पनं न युक्तम् । प्रयोजकत्वेऽपि विध्यतीतत्वादेव तदुपपत्तेः । सर्वसंहारेऽपि यथा धर्मिग्राहकप्रमाणेन यथानिष्टफलं नास्ति तथा प्रथमप्रवृत्तिप्रेरकत्वेऽपि ।
  2. जीवस्य प्रथमप्रवृत्तौ स्वातन्त्र्याभावे फलभाक्त्वं नेति न । पराधीनकर्तुरपि विधिनिषेधविषयत्वदर्शनात् । तक्ष्णः ऋत्विजां च यथायोग्यफलवत्वस्य त्वयैवोक्तत्वाच्च ।
  3. प्रथमप्रवृत्तौ अदृष्टादेव विषयसन्निधानम् । तत्र ईश्वर उदासीनः । द्वितीयादिप्रवृत्तौ तु ईश्वर एव विषयसन्निधापक इत्युक्तम् तदयुक्तम् । ईश्वरः प्रथमप्रवृत्तौ तत्प्राचीनकर्मफलदाता । परं तत्र फलदाने अभिसन्धिर्नास्ति । द्वितीयादि प्रवृत्तौ स एव विषयसन्निधापकः प्रथमप्रवृत्तिफलं चास्य दास्यामीत्याभिसन्धिमांश्च । प्रथमप्रवृत्ताविव द्वितीयादिप्रवृत्तावपि अदृष्टादेव विषयोपस्थितिसम्भवे कुत ईश्वरः कल्प्यते ।

प्रथमप्रवृत्तौ प्राचीनकर्मफलतया अनुष्ठापयामीति ईश्वराभिसन्धिः द्वितीयादिप्रवृत्तौ प्रथमप्रवृत्तिफलतया फलान्तरदित्सया च अनुष्ठापयामीति ईश्वराभिसन्धिरित्युक्तम् । तत्र नियामकं किम् ?

  1. सम्पदादि विभज्य दातुः पितुः यथा कर्मफलं नास्ति तथा ईश्वरस्यापीत्युक्तम् । तन्न । पित्रा न ज्ञानपूर्वकं दीयते । ईश्वरेण तु ज्ञानपूर्वकमेव सर्वं दीयते । अतस्तस्य महानिष्टादवारणे दोषः स्यादेव नैर्घृण्यरुपः ।
  2. प्रवृत्तप्रवर्तको ह्यनुमन्ता । एतादृशम् अनुमन्तृत्वं पितुर्नास्ति । ईश्वरस्य तु तदस्त्येवेति महानिष्टादवारणे दोषः भवत्येव । किञ्च पिता पुत्रप्रवृत्तिं प्रति न सामान्यतोऽपि हेतुः । ईस्वरस्तु जैवप्रवृत्तित्वावच्छिन्नं प्रति हेतुरतो तस्यानिष्टामापाद्यत एव ।
  3. सार्वभौमन्यायोऽप्ययुक्तः । षष्ठांशाहरत्वेन राज्ञोऽपि फलभाक्त्वात् ।
  4. यदपि ईश्वरस्य घातकत्वापत्तिवारणाय देहादिदानेन सामान्योपकारित्वात् न दोष इति समाहितम् तदपि न । अजादिपालकस्य उपकर्तृत्वेऽपि घातुकत्वस्याऽपि दर्शनात् ईश्वरस्योपकर्तृत्वेऽपि घातुकत्वमनिवार्यमेव ।
  5. नैर्घृण्यं स्यादिति प्रसङ्गवारणाय मोक्षप्रतिबन्धककर्मणाम् अनुभवैकनाश्यत्वात् दुःखादिदानं ईश्वरस्यानिवार्यम् वैद्य इव ईश्वरस्य दययैव प्रवृत्तेः इत्युक्तम् । तदपि न । कर्मणामनुभवैकनाश्यत्वस्य त्वयानङ्गीकारात् । तदधिगमसूत्ररीत्या प्रपत्तिं दत्त्वा कर्मनाशकरणसमर्थ ईश्वरः कर्मफलतया दुःखं ददाति चेत् नैर्घृण्यं दुर्वारमेव
  6. यत्र प्रयोजकत्वं तत्र (सदसत्सु) वैषम्यादिकं दुर्वारम् । सार्वभौमन्यायस्त्वप्रयोजकः । अन्यथा तस्यान्यत्राऽपि (प्रथमप्रवृत्तौ औदासीन्यस्थलेऽपि ) सञ्चारसम्भवेन भवत्सिध्दान्तानुदयप्रसङ्गात् ।
  7. ऎकाधिकरण्यमपि युक्तमेव । मुख्यं कर्तृत्वं प्रथमं प्रसाध्य तस्मिन्नेवाधिकरणे तध्दर्मभूतस्य पराधीनत्वस्य परात्त्विति गुणसूत्रेण समर्थने ऎकाधिकरण्यस्य नानुपपत्तिः ।
  8. साध्यप्रमेययोर्भिन्नत्वेन पौनरुक्त्यं नास्ति ।
  9. कर्तृत्वमात्रसाधने विधिनिषेधान्वयाऽसिध्देः परतन्त्रकर्तृत्वं साध्यम् । अतः परतन्त्रकर्तृता नास्तीत्येव पूर्वपक्षयितव्यम् । तदा तु हिताकरणादियुक्त्यनुगृहीतत्वम् अकर्तृत्वश्रुतेः न सम्भवति । अतः श्रुतिद्वयस्याऽपि समानबलत्वमिति पूर्वपक्षानुदयः ।
  10. यदपि ‘कर्ता शास्त्रार्थवत्वात्’ ‘परात्तु’ इति सूत्रयोः पौनरुक्तयमिति तदपि न । आद्यसूत्रे कर्तृत्वमात्रसमार्थनात् । परात्त्विति सूत्रे प्रथमसमर्थितकर्तृताया पराधीनत्वसमर्थनात् न पौनरुक्त्यम् ।

पराधीनकर्तुरपि फलभाक्तत्वं लोके सिध्दमिति सिध्दान्तेऽप्युपपन्न एव ।

  1. यदपि तक्ष्णोऽपि स्वातन्त्र्यमस्तीत्युक्तम् । तन्न । असम्प्रतिपत्तेः । तथात्वे तज्जन्यफलस्य प्रासादादिभोगस्य कारयितृपुरुषगामित्वासम्भवात् । ‘ न च स्वातन्त्र्यं पराधीनत्वमिति व्याघातः । अमात्यस्वातन्त्र्ये तदभावादिति’ (व्याघाताभावात् ) तदपि न । वेदान्तचर्चासमये अमात्यस्यापि स्वातन्त्र्यानङ्गीकारात् ।

सम्बद्धाः लेखाः[सम्पादयतु]

टिप्पणी[सम्पादयतु]

F.N. Page 3 ०१. तत्त्वसारः २.३.६.P.91

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कर्तृत्वाधिकरणम्&oldid=445755" इत्यस्माद् पुनः प्राप्तिः