कर्नाटकसंस्कृतविश्वविद्यालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कर्नाटकसंस्कृतविश्वविद्यालयः
कर्नाटकसंस्कृतविश्वविद्यालयस्य कार्यक्रमम्
कर्नाटकसंस्कृतविश्वविद्यालयस्य कार्यक्रमम्
Karnataka Samskrit University
कर्नाटक संस्कृत विश्वविद्यालयः
ध्येयवाक्यम् प्रज्वालितो ज्ञानमयः प्रदीपः
स्थापनम् 2010
प्रकारः Public
कुलपतिः Dr. Hans Raj Bhardwaj[१]
उपकुलपतिः प्रा पद्मा शेखर्
अवस्थानम् Bangalore, Karnataka, India
क्षेत्रम् Urban
अनुमोदनम् UGC
जालस्थानम् www.ksu.ac.in

कर्नाटकसंस्कृतविश्वविद्यालयः संस्कृतभाषायाः अभिवृद्धये कर्नाटकसर्वकारेण संस्थापितः । अस्याः देवभाषायाः अतिप्राचीनाः, उज्ज्वलाश्च वैज्ञानिक-साहित्यिक-सांस्कृतिकसम्प्रदायाः परम्पराश्च विद्यन्ते । गद्य-पद्य-नाटक-नाट्य-शिल्पकला-वर्णचित्र-ललितकला-वैद्यशास्त्र-तत्त्वज्ञान-क्षेत्रेषु अस्याः भाषायाः योगदानं भारतीयविद्वद्भिः एतावता कालेन यावत् साधितं, तत्तु असदृशम् ।

बहोः कालात् महता यत्नेन कर्नाटकसंस्कृतविश्वविद्यालयः २०१०तमे वर्षे संस्थापितः । संस्कृतभाषायाः साहित्यस्य च अध्ययनं मैसूरुमहाराजैः महत्प्रोत्साहं प्रापत् । १५० वर्षेभ्यः प्राक् आरब्धया श्रीमन्महाराजसंस्कृतमहापाठशालया सह अनेकाः पाठशालाः राज्येऽस्मिन् संस्कृतशास्त्रपाठनरताः सन्ति । शतशः वेदसंस्कृतपाठशालाः अपि राज्ये क्रियाशीला वर्तन्ते । एताः सर्वाः पाठशालाः सम्मेल्य, काञ्चन समानशिक्षणव्यवस्थां निर्माय, राष्ट्रिय-अन्ताराष्ट्रियस्तरेषु संस्कृतसंशोधनस्य औन्नत्यं साधयितुम्, छात्रेभ्यः अध्यापकेभ्यश्च अवकाशाधिक्यं कल्पयितुं च विश्वविद्यालयोऽयं समारब्धः ।

कर्नाटकसंस्कृतविश्वविद्यालयस्य अङ्गानि[सम्पादयतु]

कर्नाटकसंस्कृतविश्वविद्यालयस्य प्रधानतया चत्वारि अङ्गानि विद्यन्ते

१. बोधनाङ्गम्
२. संशोधनाङ्गम्
३. प्रसाराङ्गम्
४. प्रशासनाङ्गं चेति ।

एतद्द्वारा विश्वविद्यालयस्य क्रियाशक्तिं संवर्ध्य, कर्णाटकराज्यस्य संस्कृतसम्बन्धिकार्याणि निर्वर्तयितुं प्रयत्नः प्रचलति ।

रामनगरमण्डलस्य मागडि जनपदे तिप्पसन्द्रग्रामे विश्वविद्यालयपरिसरनिर्माणार्थं १०० एकर् परिमिता भूमिः सर्वकारेण प्रदत्ता वर्तते । सम्प्रति द्वे घटकमहाविद्यालये, दश अनुदानसहिताः नव अनुदानरहिताश्च महाविद्यालयाः कर्नाटकसंस्कृतविश्वविद्यालयसम्बद्धाः वर्तन्ते । स्नातकपूर्वसंस्कृतशिक्षणनिर्वहणार्थं विश्वविद्यालयेन संस्कृतशिक्षणनिर्देशनालयः संस्थापितः । निर्देशनालयेन मान्यताः प्राप्तवत्यः ३२५ संस्कृतपाठशालाः राज्ये सन्ति ।

विश्वविद्यालयस्य ध्येयोद्देशाः[सम्पादयतु]

१. संस्कृतभाषायाः, साहित्यस्य, व्याकरण-साङ्ख्य-योग-न्याय-वैशेषिक-मीमांसा-वेदान्तादिशास्त्राणां, वेदानां, जैनशास्त्रधर्मशास्त्रादीनां, पूरकशिक्षणस्य च बोधन-संशोधनयोश्च अत्युन्नतसंस्थारूपेण

कार्यनिर्वहणम् ।

२. कर्णाटकराज्यस्य संस्कृतसाहित्यस्य विशिष्टानि गुणलक्षणानि मनसि निधाय वेदागमानां सजातीयसाहित्याध्ययनस्य साम्प्रदायिकपद्धतेः संरक्षणं, पोषणं, संवर्धनञ्च ।
३. वेदेषु, उपर्युक्तेषु शास्त्रादिषु च निहितस्य ज्ञानराशेः महत्त्वस्य, आधुनिकजगति तस्य प्रायोगिकतायाश्च प्रसारः ।
१.भगवद्गीताधारितं प्राशासनिकविज्ञानम्
२.योगाधारितं मानवमनश्शास्त्रम्
३.परिसरसमतोलनसम्बद्धम् आरोग्यसम्बद्धं च साम्प्रदायिकज्ञानम्
४.पुरातत्वशास्त्रम्
५.प्राचीनविज्ञानम्
६.आगमशास्त्रम्
७.आयुर्वेदः
८.विज्ञानमानविकशास्त्राणि
९.नटनकलाः
१०.ललितकलाः संवादविज्ञानं च
११.वेदाध्ययनं तथा वेदभाषाध्ययनम् इत्येतेषु अन्येषु च विज्ञानक्षेत्रेषु उन्नताध्ययन-संशोधनार्थम् अवसरप्रकल्पनं, तस्य निर्वहणं च ।
५. वेदेषु शास्त्रेषु च ज्ञानसंवर्धनस्य प्रज्ञायाश्च उन्नतस्तरसाधने दृष्टानां सविवेचनानां तर्कसम्मतविधानानां वैज्ञानिकमनोभावानाञ्च प्रकटीकरणम् ।
६. भारतीयज्ञानपरम्परायाः पुनरुज्जीवनम्, संवर्धनं च; वेदेषु संस्कृतसाहित्ये च विद्यमानानां वैज्ञानिकविचाराणां कृषि-खगोलशास्त्र-जीवशास्त्र-रसायनशास्त्र-मानवशास्त्र-तन्त्रज्ञान-न्यायशास्त्र-प्रशासन-गणित-लोहशास्त्र-भौतशास्त्र-सामाजिकविज्ञानक्षेत्रेषु समन्वयनं; आधुनिकविज्ञानस्य तन्त्रज्ञानस्य च अध्ययने योगस्य समन्वयश्च ।
७. वेदानां प्रमाणभूतभाष्याणां च विषये जनजागरणम् ।
८. समानध्येयोद्देशयुक्तानाम् अन्येषां विश्वविद्यालयानां संस्थानां च प्रयत्नस्य ऐक्यं साधयितुं, बलवर्धनार्थं च तादृशां वेद-संस्कृत-अध्ययनसंस्थानां संशोधनसंस्थानां च जालं विरचय्य, परस्परं संवादादिसम्पर्कसाधनानां प्रकल्पनम् ।
९. आधुनिकभारतीयभाषासु, विदेशीयभाषासु च संस्कृत-वेद-विचारसम्बद्धस्य साहित्यराशेः निर्माणम् ।
१०.सर्वेषां वेदानां, शास्त्रग्रन्थानां, तत्सम्बद्धानाञ्च ग्रन्थानां सव्याख्यं कन्नडादिषु भाषासु अनुवादः, प्रकटनं च ।
११. वेदपठनस्य, तत्सम्बद्धानां साम्प्रदायिकविधीनां ध्वनिरूपेण, ध्वनि-दृश्यरूपेण च संरक्षणम् ।
१२. विश्वविद्यालये अन्तर-क्षेत्रीयाध्ययनस्य संशोधनस्य च प्रोत्साहनं; परस्परसौहार्दभावेन तत्सम्बद्धानां कार्याणां विश्वविद्यालयस्तरे प्रचालनार्थम् अवसरकल्पनम् ।
१३.संस्कृतभाषायां प्राच्याध्ययनकेन्द्रनिर्माणं; तत्र अमूल्यानां हस्तप्रतीनां पुरातनकृतीनां च सङ्ग्रह-संरक्षणव्यवस्थाकल्पनं; सविमर्शं तासां कृतीनां सम्पादनं प्रकटनं च ।
१४. उपलभ्यमानानां हस्तप्रतीनाम्, आकरग्रन्थानाञ्च सङ्गणकद्वारा डिजिटल्-रूपेण सङ्ग्रहः ।
१५. विश्वविद्यालयेन, विभागैर्वा अत्युन्नतस्तरीयशोधपत्रिकाप्रकटनम् ।
१६. प्राचीनज्ञानपद्धतीनाम् संवर्धनदृष्ट्या विचारगोष्ठी-सम्मेलन-कार्यागार-विद्वद्गोष्ठ्यादीनाम् आयोजनम् ।
१७. विश्वविद्यालयस्य निर्वहणात् बहिर्भूतानां विद्यासंस्थानां संयोजितपाठशाला/ पाठशालारूपेण विश्वविद्यालयव्यवस्थायाम् अन्तर्भाव्य विशेषावकाशकल्पनम् ।
१८. विश्वविद्यालयस्य प्राध्यापकैः, बोधकैः, विभागैः, विशेषसंशोधनासंस्थाभिः च तादृशीनां संयोजितमहापाठशाला /पाठशालानां बोधन-मार्गदर्शनप्रदानम् ।
१९. विश्वविद्यालयस्य पूर्वोक्ताः ये ध्येयोद्देशाः, तत्सम्बद्धानां, प्रासङ्गिकाणां च इतरेषां कार्याणां निर्वर्तनम् ।
२०. काले काले रूपितानां शासनानां द्वारा, विधीयमानानां नियमानां पालनम् अनुसृत्य च विविधाभ्यः विद्यासंस्थाभ्यः यत्किञ्चिदुद्दिश्य पूर्णरूपेण, भागशः वा मान्यतादानम्, तस्य निर्वहणम्, मान्यतायाः स्थगनं च ।
२१. विश्वविद्यालयस्य ध्येयोद्देशानाम् उत्तेजनार्थं यानि कार्याणि आवश्यकानि, पूर्वोक्ताधिकारेषु प्रासङ्गिकानि तद्भिन्नानि वा, तेषां निर्वर्तनम् ।
२२. शासनद्वारा विश्वविद्यालयस्य प्राधिकारत्वेन उद्घोषितानां निकायानां निर्वहणम् ।
२३. विविधेषु शास्त्रेषु प्रौढसंशोधनकार्याणि निर्वर्तयितुं अध्ययनपीठानां संस्थापनम् ।

शैक्षणिककार्याणि[सम्पादयतु]

१. संस्कृतपाठशालासु, विश्वविद्यालयेषु च व्यवस्थायाः समीकरणं, बलवर्धनं च ।
२. छात्रवृत्तिदानेन छात्राणां प्रेरणा ।
३. पाठशालासु, विश्वविद्यालयेषु च उत्तम-ग्रन्थालयव्यवस्था ।
४. विश्वविद्यालयेषु छात्रावासनिर्माणं, स्थानीय-धनदातॄणां साहाय्येन, सर्वकारस्य साहाय्येन च छात्रेभ्यः उत्तमरीत्या अशनवसनव्यवस्था ।
५. मण्डलस्तरे, उपमण्डलस्तरे च छात्रद्वारा संस्कृतोत्सवाचरणं, संस्कृतप्रतियोगितानाम् आयोजनद्वारा छात्रेषु उत्साहपूरणम् ।
६. प्रतिवर्षं विद्वन्मध्यमा-विद्वदुत्तमा-वेदशाखादिषु उत्तमैः अङ्कैः ये सर्वप्राथम्यं प्राप्नुवन्ति, तेभ्यः निधिद्वारा, पीठाधीशानां द्वारा सार्वजनिक-क्षेत्रेभ्यः च धनदानेन प्रोत्साहः, प्रमाणपत्रदानं च ।
७. परिशिष्टवर्गीयाणां संस्कृताध्ययनाय प्रत्येक-रूपेण विशेषव्यवस्था ।
८. छात्रेभ्यः संस्कृतगान-क्रीडास्पर्धानाम् आयोजनम् ।
९. पाठ्यांशे आङ्ग्लभाषायाः सङ्गणकशिक्षणस्य च योजनं, काव्य-साहित्य-विद्वत्कक्ष्यासु अनिवार्यतया प्रकल्पनम् ।
१०. प्रथमाकक्ष्याम् आ विद्वत्कक्ष्यायाः ये पाठ्यांशाः सन्ति, तेषां पाठ्यांशानां वैज्ञानिकपद्धत्या परिष्कारः, प्राचीनज्ञानम् आधुनिकज्ञानं चेत्युभयमपि यथा सम्मिलितं स्यात् तथा पाठ्यपुस्तकनिर्माणम् ।
११. उत्तरकर्णाटके, हैदराबाद्कर्णाटके, उत्तरकन्नडे, दक्षिणकर्णाटके, मध्यकर्णाटके च संस्कृतस्य उन्नतसंशोधनकेन्द्राणाम् उद्घाटनं तत्र अध्ययनाय संशोधनाय च योग्यवातावरण-निमाणं, स्थानीयानां संस्कृताध्ययनसंस्थानां च सहयोगः ।
१२. पञ्चाशतः वर्षेभ्यः प्रचाल्यमानासु प्राचीन-संस्कृतपाठशालासु निर्दिष्टकार्यक्रमाणाम् आयोजनम् । तासु पाठशालासु पीठोपकरणानां संस्कृतग्रन्थानां च व्यवस्थायै प्रोत्साहः ।
१३. बि.ए, एम्.ए पदवीधराणां समाजे या आद्यता अस्ति, सा विद्वत्पदवीधराणाम् अपि यथा स्यात् तथा व्यवस्था ।

टिप्पणी[सम्पादयतु]