कलचूर्यवंशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कलचूर्यवंशः
कलचूर्यवंषेण निर्मित गुहान्तरः
कलचूर्यवंषेण निर्मित गुहान्तरः

केवलं त्रिशतवर्षाणि यावत् यत् अल्पकालिकं कलचूर्यवंशीयानां प्रशासनम् आसीत् तथापि तेन प्रमुखं स्थानं प्राप्तम् अस्ति । अस्मिन् समये धार्मिकसामाजिकराजकीयपरिवर्तनानि कर्णाटके प्रत्यक्षानि अभवन् । तस्मिन् सम्मये वीरशैवमतस्य स्थापनं प्रचारः वचनानां रचनाः प्रमुखाः अंशाः सन्ति । कलचूर्यवंशीयाः बुन्देलखण्डतः कालञ्जरप्रदेशतः वा आगताः इति इतिहासकाराः वदन्ति । एते राजानः इदानीन्तनउत्तरप्रदेशे मध्यभारते च अनेकप्रदेशेषु राज्यस्थापनानि कृत्वा प्रशासनं कृतवन्तः । चालुक्यवंशीयैः वैवाहिकसम्बन्धमपि स्थापितवन्तः । विक्रमादित्यस्य काले आरब्धः सम्बन्धः तृतीयसोमेश्वरस्य कालेऽपि अनुवर्तितः अभवत्। एतद्वंशीयः जोगम् इति राजा बिजापुरसमीपे तर्दवाडि इति स्थले चालुक्यानां माण्डलिकः भूत्वा प्रशासनं कृतवान् इति ज्ञातं भवति । अस्य सुतः पेर्माडि द्वीतीयसोमेश्वरस्य सहोदरीं परिणीतवान् आसीत् ।

कन्नडोद्धरणम्[सम्पादयतु]

पेर्माडिराजस्य सुतः बिज्जलः-२ कल्याणीलुक्यानां सिंहासनाधिकारं वशीकृत्य स्वयं राज्यभारकार्यमारब्धवान् । क्रिस्ताब्द ११५६ तः ११६७ वर्षसमये कलचूर्यवंशियानाम् प्रसिद्धराजः इति ख्यातः आसीत् । अस्य प्रशासनकाले बसवेश्वरः सामाजिकधार्मिकक्रान्तिं कृतवान् । एतेन कार्येण कर्णाटकराज्ये जनजागृतिः अभवत् । जनाः नवचैतन्यं लब्धवन्तः । कन्नडभाषायाम् सार्वजनिकानां विफलं साहित्यनिर्माणम् अभवत् । एतत् वचनसाहित्यमिति अग्रे नाम प्राप्य जनप्रियम् अभवत् । बसवेश्वरः द्वीतीयबिज्जलस्य भाण्डाराधिकारी आसीत् । अन्तर्जातीयविवाहकरणात् राज्ये क्रान्तिः अभवत् । द्वितीयबिज्जलेन सह विमनस्कः बसवेश्वरः स्वाधिकारं त्यक्त्वा कूडलसङ्गमक्षेत्रं गतवान् । बसवेश्वरस्य अनुयायिभिः शिवशरणैः बिज्जलः बहुमानितः अभवत् । राजा बिज्जलः-२ समर्थः शूरः युद्धपरिणतः आसीत् । अनेकमन्त्रिणां दण्डनायकानां बलं बिज्जलस्य आसीत् । माण्डलिकान् नियन्त्र्य राजा बिज्जलः-२ स्वपरमाधिकारं स्थापितवान् । हानगलप्रदेशे कदम्बान् पोम्बुर्चदेशीयान् शान्तारजनान् । धार्मिके संस्थानाम् उदारतया दानम् अकरोत् । कलचूर्यचक्रवर्ती शनिवारसिद्धिः गिरिदुर्गमल्लः इत्यादिभिः उपाधिभिः प्रसिद्धः आसीत् ।

अवनतिः[सम्पादयतु]

बिज्जलराजस्य मरणानन्तरं समर्थाः सिंहासनारूढाः नाभवन् । बिज्जलस्य सुतः सोमदेवः सङ्कमः आहवमल्लः सिङ्गणः च क्रमशः राज्यभारकार्यं कृतवन्तः । एतेषां काले अन्तर्युद्धम् अनिवार्यम् आसीत् । राज्यरक्षणाय च अतीव श्रमः आवश्यकः अभवत् । अन्तिमसमये माण्डलिकानां विरोधकार्याणि, चालुक्यराजस्य चतुर्थसोमेश्वरस्य राज्यस्थापनस्य प्रयत्नं च निवारयितुम् एते असमर्थाः अभवन् । सा.श.११८४ तमे वर्षे चतुर्थः सोमेश्वरः सिङ्गणराजं पराजितवान् । एतेन पराजयेन साकं कलचूर्यवंशीयानां प्रशासनस्य अवनतिः अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=कलचूर्यवंशः&oldid=393508" इत्यस्माद् प्रतिप्राप्तम्