कूडलसङ्गमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कूडलसङ्गमः

ಕೂಡಲಸಂಗಮ
ग्रामः
कूडलसङ्गमे सङ्गमनाथदेवालयः
कूडलसङ्गमे सङ्गमनाथदेवालयः
Location of कूडलसङ्गमः
राष्ट्रम्  India
राज्यानि कर्णाटकराज्यम्
मण्डलम् बागल्कोटमण्डलम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
दूरवाणीकूटसंख्या 587115
Website www.bagalkot.nic.in/koodal.htm
कूडलसङ्गमम्
कूडलसङ्गमम्

कूडलसङ्गमम् कर्णाटकस्य बिजापुरमण्डले विद्यमानं किञ्चन तीर्थक्षेत्रम् । कृष्णामलप्रभानद्योः सङ्गमस्थानम् एतत् क्षेत्रम् । अत्र श्रीजातवेदमुनिः विद्याकेन्द्रं स्थापितवान् इति श्रूयते । महात्मा बसवेश्वरः कल्याणक्रान्तेः अनन्तरम् अत्र आगत्य कूडलसङ्गमेश्वरे ऐक्यः अभवत् । चालुक्यशैल्यां रचितः कूडलसङ्गमनाथदेवालयः ९०० वर्षैः प्राचीनः अस्ति । अत्रत्या शिल्पकला विशिष्टा अस्ति । गर्भगृहं दर्शनीयम् अस्ति । बसवेश्वरस्य ऐक्यमण्डपं परितः वृत्ताकारेण रचितः प्राकारः अस्ति । जले स्थितः एषः देवालयः विशेषानुभवं ददाति । कूडलसङ्गमक्षेत्रे बृहत् सभामण्डपं शिवशरणानां मूर्तिशिल्पानि सुन्दराणि सन्ति । समीपे आलमट्टिजलाशयः उद्यानवनं च स्तः । अत्र सङ्गमजले नौकाविहारं कर्तुं व्यवस्था अस्ति ।

मार्गः[सम्पादयतु]

बिजापुरतः ६७ कि.मी. ।
हुनगुन्दतः १९ कि.मी. ।
बादामीतः ७२ कि.मी.।
बेङ्गळूरुतः ५२० कि.मी. । राष्ट्रियमार्गसङ्ख्या १३

वीथिका[सम्पादयतु]

कूडलसङ्गमस्य विविधानि चित्राणि

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कूडलसङ्गमः&oldid=480153" इत्यस्माद् प्रतिप्राप्तम्