कल्पना दत्त

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कल्पना दत्त
কল্পনা দত্ত
Kalpana Datta
व्यैय्यक्तिकसूचना
Born २७/७/१९१३
श्रीपुर, चटगांवमण्डलं, बङ्गाल प्रेसिटेन्सि, आङ्ग्लकालः अधुना बाङ्ग्लादेशः
Died ८ १९९५(१९९५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-०८) (आयुः ८१)
कोलकाता, वङ्गप्रदेशः, भारतम्
Nationality भारतीया, हिन्दुवङ्गप्रदेशीया
Political party

भारतीयगणतन्त्रसेन चटगांव-नगरम्

१९४० तः कॉम्युनिस्ट् पार्टि ऑफ् इण्डिया
Profession भारतीयगणतन्त्रसेनायाः सदस्या, क्रान्तिकारिणी

कल्पना दत्त ( /ˈkəlpənɑː dttə/) (वङ्ग: কল্পনা দত্ত, हिन्दी: कल्पना दत्त, आङ्ग्ल: Kalpana Datta) भारतसशस्त्रक्रान्तेः क्रान्तिकारिणी आसीत् । १९३० चटगांवशस्त्रागाराक्रणस्य सक्रियसदस्या आसीत् एषा । भारतीयगणतन्त्रसेनायाः स्थापकस्य सूर्यसेनस्य नेतृत्वे एषा क्रान्तिकारिणीप्रवृत्तिं करोति स्म । प्रीतिलता वादेदार, कल्पना दत्त च आजीवनं सखिसम्बन्धेन बद्धे आस्ताम् । क्रान्तिकारिणीप्रवृत्तिषु तयोः सम्मिलितं योगदानं भवति स्म । स्वतन्त्रभारतस्य सूर्योदयं दृष्टवत्सु क्रान्तिकारिषु एषा अपि अन्यतमा ।

जन्म, शिक्षणञ्च[सम्पादयतु]

१९१३ तमस्य वर्षस्य 'जुलाई'-मासस्य सप्तविंशतितमे (२७/७/१९१३) दिनाङ्के वङ्गप्रदेशस्य चटगांवमण्डलस्य श्रीपुरग्रामे कल्पनायाः जन्म अभवत् । तस्याः पितुः, मातुः च नाम क्रमेण विनोदबिहारी, शोभनादेवी च । बाल्यकालात् कल्पनायै शौर्यकथाः रोचन्ते स्म । सा विद्यालयात् पुस्तकानि आनीय गृहे स्थित्वा पठति स्म । चटगांव-नगरस्य विद्यालये प्रीतिलता वादेदार, कल्पना दत्त च पठन्त्यौ आस्ताम् । तत्र तयोः मित्रता अभवत् । प्रीतिलता-महोदया कल्पनायाः ज्येष्ठकक्षायां पठति स्म । उभे बेट्मिन्टन् क्रीडितुं नित्यं गच्छतः स्म ।

१९२९ तमे वर्षे कल्पना मेट्रिक् कक्षायाम् उत्तीर्णा अभवत् । बी.एस्.सी. कक्षायाम् अध्ययनं कर्तुं सा कोलकाता-महानगरम् अगच्छत् । तत्र सा 'बथ्युन् कॉलेज्' मध्ये अध्ययनं प्रारभत । प्रीतिलता कोलकाताविश्वविद्यालये प्रवेशं न प्रापत्, अतः सा ढाका-महानगरं गत्वा महाविद्यालये अध्ययनं प्रारभत । एवम् उभे सख्यौ भिन्ने अभवताम् । परन्तु अवकाशस्य दिनेषु उभे मिलित्वा एव समयं यापयतः स्म ।

क्रान्तिकारिप्रवृत्तेः प्रारम्भः[सम्पादयतु]

कल्पनायाः द्वौ पितृव्यौ क्रान्तिकारिणौ आस्ताम् । तयोः पार्श्वे क्रान्तिकारिसाहित्यम् आसीत् । तत् साहित्यं तौ कल्पनायै अयच्छताम् । तत्साहित्यं पठित्वा कल्पनायाः मनसि क्रान्तिकारिविचाराणां शीलन्यासः प्रतिष्ठितः । सा क्रान्तिकारिणीप्रवृत्तिषु भागं वोढुं तत्परा अभवत् । १९२८ तमे वर्षे सा चटगांव-नगरस्य विद्यार्थिसम्मेलने अत्युग्रं भाषणम् अकरोत् । ततः सा स्वशक्त्यनुसारं क्रान्तिकारिणीप्रवृत्तिषु योगदानं ददाति स्म ।

अग्निगोलतनिर्माणम्[सम्पादयतु]

कोलकाता-महानगरे कल्याणी दास-नामिका क्रान्तिकारिणी विद्यार्थिनीसङ्घ-नामकं सङ्घटनं चालयति स्म [१] । तस्मिन् सङ्घटने लष्ठिकायाः, असेः, अङ्ग्निशस्त्रस्य च प्रशिक्षणं भवति स्म । कल्पना तस्य सङ्घटनस्य सदस्या अभवत् । कल्पना विज्ञानप्रवाहस्य विद्यार्थिनी आसीत् । अतः सा अग्निगोलकस्य (bomb) निर्माणं कर्तुम् इच्छति स्म । परन्तु तस्मिन् काले आङ्ग्लारक्षकाः गृध्रदृष्ट्या नागरिकाणाम् उपरि दृष्टिपातं स्थापयन्ति स्म । तेन अग्निगोलकस्य सामग्र्याः सङ्ग्रहणे अतिकष्टं भवति स्म । कल्पना विज्ञानप्रवाहस्य विद्यार्थिनी आसीत्, अतः सा सारल्येन अग्निगोलकनिर्माणस्य सामग्रीः आनयति स्म । ततः सा विभिन्नानां क्रान्तिकारिणां गृहं गत्वा अग्निगोलकं निर्मातुं प्रयासं करोति स्म । परन्तु कल्पनायाः प्रवृत्तिविषये आरक्षकाः अजानन् । ते कल्पनायाः क्रियाकलापस्य ज्ञानं प्राप्तुं गुप्तचरस्य नियुक्तिम् अकुर्वन् । परन्तु सः गुप्तचरः किमपि कुर्यात्, तस्मात् प्रागेव कल्पना कोलकाता-महानगरं त्यक्त्वा चटगांव-नगरम् अगच्छत् । सा चटगांव-नगरस्य महाविद्यालये अध्ययनं प्रारभत । तत्र कोलकाता-महानगरवत् आरक्षकाणां भयं नासीत् । सा स्वतन्त्रतया क्रान्तिकारिणीप्रवृत्तिषु योगदानं करोति स्म ।

भारतीयगणतन्त्रसेना[सम्पादयतु]

कल्पना यदा चटगांव-नगरे निवसति स्म, तदा तस्याः ज्ञानम् अभवत् यत्, “सूर्यसेन-नामकः महान् क्रान्तिकारी इण्डियन् रिपब्लकेशन् आर्मी (भारतीयगणतन्त्रसेना) नामकं सङ्घटनं चालयन् अस्ति” इति । कल्पनायाः परिचयः तस्य सङ्घटनस्य तारकेश्वर-नामकेन युवकेन सह अभवत् । तस्य सम्पर्कं कृत्वा सा भारतीयगणतन्त्रसेनायाः सदस्या अभवत् । तावता कल्पनायाः सखी प्रीतिलता वादेदार अपि ढाका-महानगरात् प्रत्यागता । उभे सख्यौ भारतीयगणतन्त्रसेनायाः सक्रिये सदस्ये अभवताम् ।

प्रथमकारावासः[सम्पादयतु]

१९३० तमस्य वर्षस्य 'अप्रैल'-मासस्य अष्टादशे (१८/४/१९३०) दिनाङ्के भारतीयगणतन्त्रसेनायाः क्रान्तिकारिणः चटगांव-नगरस्य शस्त्रागारस्योपरि आक्रमणं कृत्वा आङ्ग्लसर्वकारस्य शस्त्राणि अलुण्ठन् [२] । तस्मिन् आक्रमणे आङ्ग्लसर्वकारस्य ८२ आरक्षकाणां मृत्युः अभवत् । ततः क्रान्तिकारिणां दमनं कर्तुम् आक्रमणकर्तृषु द्वौ क्रान्तिकारिणौ आङ्ग्लारक्षकाः कारागारं प्रैषयन् । ताभ्यां मृत्युदण्डस्य घोषणाम् अकुर्वन् ते । तौ क्रान्तिकारिणौ रामकृष्ण गुप्त, दिनेश गुप्त च आस्ताम् । तयोः रक्षणं दलस्य दायित्वम् आसीत् । अतः कारागारस्य भित्तिं नाशयित्वा तयोः कारागारात् पलायनस्य योजना क्रान्तिकारिभिः कृता । अग्निगोलकनिर्माणात् कारागारस्य उपरि आक्रमणपर्यन्तं सर्वं दायित्वं कल्पनायाः आसीत् । कल्पनया योजनायाः कृते कार्यं प्रारब्धम् । परन्तु क्रान्तिकारिणां योजनाविषये आङ्ग्लाः अजानन् । अतः ते क्रूराः आङ्ग्लाः न्यायालयेन निर्धारितसमयात् प्रागेव ताभ्यां क्रान्तिकारिभ्यां मृत्युदण्डम् अयच्छन् ।

योजनायाः ज्ञाने जाते सति आङ्ग्लारक्षकाः कल्पनायाः अन्वेषणं प्रारभन्त । कल्पना स्वदलस्य क्रान्तिकारिभिः सह पुरुषवेषं धृत्वा जङ्गलेषु भ्रमन्ती आसीत् । परन्तु १९३२ तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तदशे (१७/१०/१९३२) दिनाङ्के कल्पनां, तस्याः दलस्य सदस्यान् च आङ्ग्लाः बन्दिनः अकुर्वन् । आङ्ग्लाः कल्पनायाः उपरि शस्त्रगोपनस्य, आङ्ग्लसर्वकारविरुद्धम् उग्रभाषणदानस्य च आक्षेपम् अकुर्वन् । परन्तु तेषां पार्श्वे कल्पनायाः विरुद्धं योग्यप्रमाणानाम् अभावत्वात् कल्पनायाः प्रातिभाव्ये (bail) मुक्ता अभवत् । ततः कल्पनायाः गृहस्य बहिः सशस्त्रसैनिकस्य उपस्थितिः सर्वदा भवति स्म । कल्पनायाः सर्वेषु क्रियाकलापेषु आङ्ग्लानां गृध्रदृष्टिः आसीत् ।

गुप्तवासः[सम्पादयतु]

आङ्ग्लानाम् उद्देशः आसीत् यत्, कल्पना क्रान्तिकारिभिः सम्पर्कं कर्तुं न प्रभवेत् इति । तेषां योजना सफला जायमाना आसीत् । परन्तु एतत् कुण्ठितं जीवनं कल्पनायै अभिशापवत् आसीत् । अतः सा गृहं त्यक्त्वा पलायत । सा यदा गुप्तवासे आसीत्, तदा सा अग्निगुलिकायाः निर्माणविषये कार्यं प्रारभत । दीर्घकालं यावत् परिश्रमं कृत्वा अन्ततो गत्वा सा अग्निगुलिकायाः निर्माणे सफला अभवत् । परन्तु एकस्मिन् दिने एकम् अशुभसमाचारं श्रुत्वा कल्पनायाः मनोबलस्य उपरि कुठाराघातः अभवत् । सा समाचारं प्रापत् यत्, “प्रीतिलता यदा युरोपियन् क्लब् उपरि अग्निगोलकेन आक्रमणं कर्तुं गता आसीत्, तदा तस्याः मृत्युः अभवत्” इति । कल्पनायाः प्रियसखी तां संसारे ऽ स्मिन् एकाकिनीं त्यक्त्वा अगच्छत् । एकवारम् आङ्ग्लाः कल्पनायाः गुप्तवासस्य समाचारं प्रापन् । ते कल्पनायाः उपरि आक्रमणं कर्तुं गताः परन्तु तावता कल्पना अन्यत्र पलायिता ।

सूर्यसेनकल्पनयोः कारावासः[सम्पादयतु]

१९३३ तमस्य वर्षस्य 'फरवरी'-मासस्य षोडशे (१६/२/१९३३) दिनाङ्के कल्पना सूर्यसेनेन सह आसीत् । तस्मिन् एव काले आङ्ग्लाः आक्रमणम् अकुर्वन् । सूर्यसेनस्य चातुर्येण कल्पनादयः पलायिताः, परन्तु सूर्यसेनम् आङ्ग्लाः अगृह्णन् । वर्षायां क्रान्तिकारिणः अधिकदूरं गन्तुं नाश्कनुवन् । अतः ते समीपस्थं ग्रामं गत्वा आश्रयं स्व्यकुर्वन् । आङ्ग्लाः तस्मिन् ग्रामे अघोषयन्, “यदि यः कोऽपि कल्पनायै सूचनां दास्यति, तर्हि आङ्ग्लसर्वकारः तस्मै १०,००० रूप्यकाणि दास्यति” इति ।

नेत्रा सेन नामिका एका स्त्री धनलिप्सायां कल्पनयाः विषये आङ्ग्लारक्षकेभ्यः सूचनाम् अयच्छत् । ततः १९३३ तमस्य वर्षस्य ‘मई’-मासस्य एकोनविंशतितमे (१९/५/१९३३) दिनाङ्के गहीरा-नामकात् ग्रामात् आङ्ग्लाः कल्पनाम् अबध्नन् ।

कारावासे कल्पना[सम्पादयतु]

हीजली-कारागारे कल्पना कारावासः आसीत् । राजकीयापराधं कृतवतीनां क्रान्तिकारिणीनां कृते तस्य कारागारस्य निर्माणम् आङ्ग्लैः कृतम् आसीत् । तत्र कल्पनायाः परिचयः अन्याभिः कान्तिकारिणीभिः सह अभवत् । तासु क्रान्तिकारिणीषु सुहासिनी गाङ्गुली, वीणा दास, शान्ति घोष इत्यादयः अन्तर्भवन्ति ।

कल्पनाविरुद्धम् आङ्ग्लैः शस्त्रागाराक्रमणस्य आक्षेपः कृतः आसीत् । तस्मिन् आक्षेपे सिद्धे सति न्यायालयः आजीवनकारावासस्य दण्डं कल्पनायै अयच्छत् ।

१९३४ तमस्य वर्षस्य 'फरवरी'-मासस्य द्वादशे (१२/२/१९३४) दिनाङ्के सूर्यसेनाय, तारकेश्वराय च मृत्युदण्डम् अयच्छत् न्यायालयः । कल्पना यदा कारागारे एतत् समाचारं प्रापत्, तदा तस्याः जीवनस्य सर्वं व्यपगतम् अस्ति इति तया अनुभूतम् । क्रान्त्याः यस्मिन् मार्गे सा चलन्ती आसीत्, तस्य मार्गस्य सर्वे ऽ पि सहक्रान्तिकारिणः आङ्ग्लानां दमनेन ग्रस्ताः आसन् । केचन मृताः, केचन कारावासे अन्तिमदिनस्य प्रतीक्षां कुर्वन्तः आसन् । मासत्रयानन्तरम् आङ्ग्लाः कल्पनां राजाशाही-कारागारं प्रैषयन् । षड्वर्षाणि यावत् कारावासस्य महद्दुःखं कल्पनया ऊढम् । तस्मिन् काले तस्याः मेलनं महात्मना सह अभवत् । महात्मा कल्पनायाः हिंसकक्रान्तिनिमित्तं किञ्चित् खिन्नः आसीत्, परन्तु सः कल्पनायै वचनम् अयच्छत् यत्, “अहं भवत्याः कारावासमुक्त्यै प्रयासं करिष्ये” इति ।

१९३७ तमे वर्षे महात्मनः आङ्ग्लसर्वकारेण सह राजनैतिकसन्धिः अभवत् । तस्य फलस्वरूपम् आङ्ग्लाः अनेकान् क्रान्तिकारिणः कारागारात् अमुञ्चन् । परन्तु ते कल्पनां मोचयितुं सिद्धाः नासन् । ततः गान्धी-रवीन्द्रनाथयोः प्रयासैः कल्पना १९३९ तमे वर्षे कारागारात् मुक्तिं प्रापत् ।

पुनः क्रान्तिकारिप्रवृत्तौ सक्रिया[सम्पादयतु]

षड्वर्षस्य कष्टदायकं कारावासम् उपभुज्यापि कल्पनायाः देशभक्त्याः भावः लेशमात्रम् अपि न्यूनः नाभवत् । यद्यपि भारतीयगणतन्त्रसेनायाः क्रान्तिकारिणां मृत्युः तस्याः वेदनायां वृद्धिम् अकरोत्, तथापि सा दृढमनसा पुनः क्रान्तिकारिणीप्रवृत्तिं प्रारभत । १९४० तमे वर्षे सा ‘इण्डन् कॉम्युनिस्ट्’-पक्षस्य सदस्या अभवत् । प्रारम्भिके काले आङ्ग्लाधिकारिणः भ्रामयितुं सा एम्.ए कक्ष्यायाम् अध्ययनं प्रारभत । परन्तु गुप्ततया सा विभिन्नानां क्रान्तिकारिसङ्घटनानां सम्पर्कं कुर्वती आसीत् । अनेकैः क्रान्तिकारिभिः सह सम्पर्कं कृत्वा सा स्वकार्यं प्रारभत । सामान्यतः सा गुप्तवासार्थं क्रान्तिकारिणां साहाय्यं करोति स्म । आवश्यकपत्राणाम् आदानप्रदाने अपि सा सक्रिययोगदानं यच्छति स्म । आङ्ग्लाधिकारिणः कल्पनायाः उपरि गुप्ततया दृष्टिपातं कुर्वन्तः आसन् । अतः सा १९४२ तमस्य वर्षस्य त्यजन्तु भारतम् आन्दोलने साक्षात् भागं नावहत् । १९४६ तमे वर्षे कॉम्युनिस्ट्-पक्षस्य सदस्यत्वेन सा वङ्गविधानसभायाः निर्वाचने प्रत्याशिनी अभवत् । परन्तु तस्मिन् निर्वाचने तस्या पराजयः अभवत् ।

विवाहः, परिवारश्च[सम्पादयतु]

१९४३ तमे वर्षे कल्पनायाः विवाहः साम्यवादिपक्षस्य प्रख्यातेन नेत्रा पुरन चन्द जोशी इत्यनेन सह अभवत् [३] । तयोः द्वौ पुत्रौ अभवताम् । तयोः नाम क्रमेण चान्द, सूरज च । चान्द जोशी पत्रकारिताक्षेत्रे प्रख्यातः अभवत् । सः हिन्दुस्तान टाइम्स् इत्यस्यै संस्थायै कार्यं करोति स्म । १९८५ तमे वर्षे भिण्डरांवाले (Bhindranwale: Myth and Reality (1985)) इत्यस्य सम्बद्धं कार्यम् अकरोत् । चान्द जोशी इत्यस्य पत्नी मानिनी चटगांवशस्त्रागारस्य आक्रमणसम्बद्धम् एकं पुस्तकम् अलिखत्, यस्य नाम आसीत् Do or Die: The Chattagram Uprising १९३०-३४ [४]

स्वातन्त्र्यानन्तरं कल्पना दत्त[सम्पादयतु]

१९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदश (१५/८/१९४७) दिनाङ्के रात्रौ भारतस्वतन्त्रतायाः सूर्योदयः अभवत् । परन्तु सः सूर्यः धर्माधारितभारतविभाजनग्रहणेन ग्रस्तः । धर्माधारितं भारतविभाजनं पाकिस्थानस्य जनकम् अभवत् । सः अवसरः देशस्वतन्त्रतायै प्रयत्नरेतेभ्यः क्रान्तिकारिभ्यः रक्ताश्रूभिः परिपूर्णः आसीत् । कल्पना दत्त यस्य चटगांव-नगरस्य स्वतन्त्रतायै आङ्ग्लविरुद्धं युद्धम् अकरोत्, तत् नगरं विभाजनानन्तरं पूर्वपाकिस्थानस्य भागः अभवत् । अतः कोलकाता-महानगरं गत्वा कल्पना सपरिवारं न्यवसत् । तत्र सा अध्यापनं प्रारभत । सा इण्डो सोवियेत् कल्चर् सोसायटी इत्यस्य सदस्या अभवत् । सा स्वक्रान्तिप्रवृत्तेः अनुभवान् एकस्मिन् पुस्तके अलिखत् ।

सम्माननम्[सम्पादयतु]

१९७४ तमस्य वर्षस्य 'सितम्बर'-मासस्य चतुर्विंशतितमे (२४/९/१९७४) दिनाङ्के सा “वीरमहिला” इति उपाधिं प्रापत् । १९७५ तमं वर्षं सर्वकारः महिलावर्षत्वेन आचरत्, तस्मिन् वर्षे तस्याः सम्माननम् अभवत् ।

मृत्युः, विशेषञ्च[सम्पादयतु]

१९९५ तमस्य वर्षस्य 'फरवरी'-मासस्य अष्टमे (८/२/१९९५) दिनाङ्के कोलकाता-महानगरे तस्याः मृत्युः अभवत् । एषा क्रान्तिकारिणी स्वजीवनस्य सर्वस्वं देशसेवायै समार्पयत् । बहुषु देःखेषु प्राप्तेषु सत्वपि सा क्रान्तिप्रवृत्तिं कदापि नात्यजत् । अतः जनाः तस्यै “वीरमहिला” इति उपाधिम् अयच्छन् ।

सूर्य सेन, प्रीतिलता, कल्पना दत्त इत्यादीनां क्रान्तिकारिणीनाम् अभूतपूर्वस्य प्रयासस्य निमत्तं २०१० तमे वर्षे एकं चलच्चित्रं निर्मितम् अस्ति । तस्य चलच्चित्रस्य नाम ‘खेले हम जी जा से’ आसीत् । तस्मिन् चलच्चित्रे दीपिका पदुकोण नामिका नायिका कल्पना दत्त इत्यस्याः महत्याः क्रान्तिकारिण्याः पात्रत्वेन अभिनयम् अकरोत् ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. Jain, Simmi (2003). Encyclopaedia of Indian Women through the Ages. Vol.3. Delhi: Kalpaz Publications. p. 106. ISBN 81-7835-174-9. 
  2. Chandra, Bipan and others (1998). India's Struggle for Independence, New Delhi: Penguin Books, ISBN 0-14-010781-9, p.253
  3. "Kalpana Joshi, 81; Struggled for India". The New York Times. 26 February 1995. आह्रियत 19 May 2010. 
  4. "This above All". The Tribune. 5 February 2000. आह्रियत 19 May 2010. 
"https://sa.wikipedia.org/w/index.php?title=कल्पना_दत्त&oldid=482418" इत्यस्माद् प्रतिप्राप्तम्