प्रीतिलता वादेदार
प्रीतिलता वादेदार | |
---|---|
Native name | প্রীতিলতা ওয়াদ্দেদার |
जन्म |
चटगाँव (Chittagong), बङ्गाल प्रसिडेन्सि, ब्रिटिशकालः(अधुना बाङ्ग्लादेशः) | ५ १९११
मृत्युः |
स्क्रिप्ट त्रुटि: "death_date_and_age" फंक्शन मौजूद नहीं है। चटगाँव (Chittagong), बङ्गाल प्रसिडेन्सि, ब्रिटिशकालः (अधुना बाङ्ग्लादेशः) |
मृत्योः कारणम् | विषं पीत्वा आत्महननम् |
देशीयता | भारतीया |
अन्यानि नामानि | रानी (लालतिकनाम) |
जातिः | वङ्गप्रदेशीया |
शिक्षणस्य स्थितिः | ढाकाविश्विद्यालयः |
वृत्तिः | शिक्षिका |
कृते प्रसिद्धः | युरोपियन् क्लब् आक्रमणम् (१९३२) |
पितरौs |
|
सम्बन्धिनः |
मधुसुदनः (भ्राता) कनकलता (भगिनी) शान्तिलता (भगिनी) आशालता (भगिनी) सन्तोषः (भ्राता) |
प्रीतिलता वादेदार ( ( शृणु) /ˈpriːtɪlətɑː vɑːdɛdɑːrə/) (वङ्ग: প্রীতিলতা ওয়াদ্দেদার, हिन्दी: प्रीतिलता वादेदार, आङ्ग्ल: Pritilata Waddedar) भारतमातुः स्वतन्त्रतायै स्वप्राणस्य आहुतिम् अयच्छत् । भारतीयेतिहासे केनापि क्रान्तिकारिणा प्राणः आहुतः इति बहुधा श्रूयते, परन्तु कयाचित् क्रान्तिकारिण्या प्राणः आहुतः इति न्यूनम् एव । याः महिलाः देशाय स्वप्राणाहुतिम् अयच्छन्, तेषु प्रतिलता अपि अन्यतमा । कित्तूरुराज्ञी चेन्नम्मा, बेगम हजरतमहाल, मातङ्गिनी हाझरा इत्यादयः क्रान्तिकारिण्यः अपि देशाय स्वप्राणाहुतिम् अयच्छन् [१][२] ।
जन्म, बाल्यं च
[सम्पादयतु]१९११ तमस्य वर्षस्य ‘मई’-मासस्य पञ्चमे (५/५/१९११) दिनाङ्के वङ्गराज्यस्य चटगाँव-ग्रामे (अधुना बाङ्गलादेशस्य बृहत्तमेषु नगरेषु अन्यमं नगरम्) प्रीतिलतायाः जन्म अभवत् [३] । तस्याः पितुः, मातुः च नाम क्रमेण जगतबन्धुः, प्रतिभामयी । यद्यपि पिता जगतबन्धुः नगरपालिकायां कार्यं कुर्वन् आसीत्, तथापि सः स्वपरिवारस्य पोषणं कर्तुम् असर्थः आसीत् । अतः स्वबालिकायाः पठनस्य व्ययः तु तस्य कृते दुष्कर एव आसीत् । पितुः निर्धनता प्रीतिलतायाः अनाध्ययनस्य कारणम् आसीत् । परन्तु प्रीतिलता ग्रामस्य वीथिकासु यदा क्रीडितुं गच्छति स्म, तदा सर्वे तस्याः चातुर्येण, गुणैः च मुग्धाः भवन्ति स्म । ततः यदि कोऽपि जानाति स्म यत्, प्रीतिलता शालां न गच्छिति, तर्हि सः तस्याः पितरं कथयति स्म यत्, “एनां निश्चयेन पाठयतु” इति । सर्वैः पौनःपुन्येन उक्ते सति जगतबन्धुः स्वबालिकां शालां प्रेषितुं तत्परः अभवत् ।
शिक्षणम्
[सम्पादयतु]शालायां प्रविष्टा प्रीतिलता स्वप्रतिभया अन्यछात्रेभ्यः आकर्षणस्य केन्द्रम् अभवत् । शालायां कल्पना दत्त नामिकया कन्यया सह तस्याः मैत्रिः अभवत् । (एते आजीवनं मित्रपाशेन बद्धे आस्ताम् । क्रान्तिकारिप्रवृत्तिषु उभयोः महद्योगदानं विद्यते ।) शालायां शिक्षकाः प्रार्थनायाः अनन्तरं सर्वैः बालकैः प्रितीज्ञां कारयन्ति स्म यत्, “अहम् ईश्वरं, सम्राटं च प्रति निष्ठां धरिष्ये” इति । प्रीतिलतायाः मनसि सहजः प्रश्नः समुद्भूतः यत्, “किमर्थं सम्राटं प्रति निष्ठा धर्तव्या ? देशं प्रति किमर्थं न ?” इति । तस्याः सः सहजप्रश्नः एव आजीवनं तस्याः सहपथगामी अभवत् ।
प्रीतिलता बहुप्रतिभायाः स्वामिनी आसीत् । सा क्रीडायां, लेखनकार्ये, वक्तृत्वे च उत्तमा आसीत् । तस्याः सखी ‘क्रान्तिकारिओनां सम्भारणां’-नामके स्वपुस्तके अलिखत्, “अहं प्रीतिलता च बाल्यकाले स्वप्नम् पश्यावः स्म यत्, आवां वैज्ञानिके भविष्यतः उत क्रान्तिकारिण्यौ । परन्तु कलकत्ताविश्वविद्यालयस्य ‘रामचन्द्र प्रेमचन्द्र’-शिष्यवृत्तिः बाल्यकालस्य आवयोः प्रथमलक्ष्यम् आसीत्” इति [४] । परन्तु प्रीतिलतायाः गणितक्षेत्रे अधिकप्राप्ताङ्के न प्राप्ते सा शिष्यावृत्तिं प्राप्तुम् असफला अभवत् । अतः सा ढाकाविश्वविद्यालये अध्ययनं प्रारभत ।
क्रान्तिकारिप्रवृत्त्या सह उच्चशिक्षणम्
[सम्पादयतु]ढाका-नगरे यदा प्रीतिलता पठन्ती आसीत्, तदा तस्याः परिचयः लीला नाग-नामिकया महिलया सह अभवत् । सा महिला ‘दीपालीसङ्घ’-नामकं क्रान्तिकारिसङ्घटनं चालयति स्म [५] । तस्मिन् सङ्घटने भारतीयदेशभक्तेभ्यः लष्टिकायाः, असेः च उपयोगं कर्तुम् अभ्यासवर्गः भवति स्म । वर्षत्रयं यावत् प्रीतिलता तस्य सङ्घटनस्य सदस्या आसीत् । प्रीतिलता यदा बी.ए. इत्यस्य अन्तिमवर्षे पठन्ती आसीत्, तदा तस्याः पितुः वृत्तिः व्यपगता । तेन गृहस्य आर्थिकस्थितिः अतिविकटा अभवत् । अतः प्रीतिलता नन्दनकाननविद्यालये शिक्षिकात्वेन कार्यं प्रारभत [६] । एकदा सूर्यसेन-नामकः देशभक्तः क्रान्तिकारी चटगांव-ग्रामं गतः आसीत् । तत्र तस्य परिचयः प्रीतिलतया सह अभवत् । सः प्रीतिलतायां भविष्यस्य समर्थां क्रान्तिकारिणीम् अपश्यत् । अतः सः प्रीतिलताम् अवदत्, “भगिनी ! यदि त्वं निश्चयं कुर्याः, तर्हि देशस्य महतीं सेवां कर्तुं प्रभवेः” इति । प्रीतिलता तु देशसेवायाः कार्यं कर्तुं तत्परा आसीत् । परन्तु तस्याः कुटुम्बस्य आर्थिकस्थित्याः कारणेन सा क्रान्तिकारिप्रवृत्त्यै कार्यं कर्तुं निराकरोत् । सा सूर्यसेनम् अवदत्, “देशसेवायै तु मम मनः मुहुर्मुहुः कथयति । परन्तु सद्यः मम परिवारस्य आर्थिकस्थितिः अतिविकटा अस्ति” इति । प्रीतिलतायाः वचं श्रुत्वा सूर्यसेनः प्रत्युदतरत्, “भगिनी ! त्वं सम्पूर्णभारतस्य सेवायै, रक्षणाय च सर्वस्यं समर्पयितुं तत्परा असि चेत्, तव लघु गृहस्य चिन्तनं किमर्थं कुर्वती असि । एकवारं देशसेवायै तत्परा तु भव, तव गृहस्य विषये विधाता चिन्तयिष्यति” इति । सूर्यसेनेन प्ररिता प्रीतिलता देशसेवायै तत्परा अभवत् ।
प्रीतिलतायाः पिता यदा तस्याः क्रान्तिकारिप्रवृत्तेः योगदानस्य समाचारम् अश्रृणोत्, तदा सः अत्यन्तः कुपितः अभवत् । परन्तु दृढनिश्चयं कृतवती प्रीतिलता गृहत्यागं कृत्वा भारतीयगणतन्त्रसेनायां कार्यं प्रारभत ।
सूर्यसेनस्य रक्षणम्
[सम्पादयतु]सूर्यसेनः आङ्ग्लविरुद्धम् भारतीयगणतन्त्रसेनायाः स्थापनाञ्चकार । तस्याः संस्थायाः सदस्याः सूर्यसेनस्य अध्यक्षतायाम् आङ्ग्लसर्वकारस्य शस्त्रागारेषु आक्रमणं कुर्वन्ति स्म । ततः तेषां शस्त्राणाम् उपयोगं ते आङ्ग्लविरुद्धम् एव कुर्वन्ति स्म । १९३० तमस्य वर्षस्य 'अप्रैल'-मासस्य अष्टादशे (१८/४/१९३०) दिनाङ्के सूर्यसेनः अन्यक्रान्तिकारिभिः सह मिलित्वा चटगांव-ग्रामस्य आङ्ग्लशस्त्रागारस्य उपरि आक्रमणम् अकरोत् । तस्मिन् आक्रमणे आङ्ग्लसर्वकारस्य ८६ आरक्षकाः, १२ क्रान्तिकारिणः च मृताः । ततः आङ्ग्लाः विभिन्नेषु स्थानेषु सूर्यसेनस्य अन्वेषणं कुर्वन्ति स्म । यद्यपि शस्त्रागाराक्रणस्य अनन्तरं बहुनि दिनानि व्यतीतानि आसन्, तथापि आङ्ग्लाः सूर्यसेनस्य अन्वेषणं नास्थगयन् ।
प्रीतिलतायाः क्रान्तिक्षेत्रे अमुकदिनानि एव जातानि आसन् । प्रीतिलता सूर्यसेनेन सह धोलघाट-ग्रामं गता आसीत् । सूर्यसेनः धोलघाट-ग्रामे अस्ति इति सामाचारम् आङ्ग्लाधिकारिणः अजानन् । अतः ते सशस्त्रसैनिकान् सूर्यसेनस्य उपरि आक्रमणं कर्तुम् आज्ञाम् अयच्छन् । ततः ग्रामस्य एकस्यां वीथिकायां क्रान्तिकारिणाम्, आङ्ग्लारक्षकानां च युद्धम् अभवत् । प्रीतिलता अग्निगुलिकायन्त्रं चालयितुं न जानाति स्म, परन्तु स्थित्याः अवलोकनं कृत्वा सा अग्निगुलिकायन्त्रेण आङ्ग्लसैनिकेषु आक्रमणम् अकरोत् । प्रीतिलतायाः अग्निगुलिकया आङ्ग्लाधिकारिणां नेता मृतः । अतः आङ्ग्लारक्षकानां दले भयः समुद्भूतः । तस्य भयस्य लाभं नीत्वा क्रान्तिकारिणः तस्मात् स्थलात् अपलायन् । परन्तु तस्मिन् सङ्ग्रामे सूर्यसेनस्य विश्वस्तौ क्रान्तिकारिणौ अपूर्वः, निर्मलः च मृतौ । तस्मिन् युद्धे प्रीतिलतया यदि आङ्गलाधिकारिणः मृत्युः नाभविष्यत्, तर्हि सर्वेषां क्रान्तिकारिणां मृत्युः निश्चयेन अभविष्यत् । आङ्ग्लारक्षकैः सह युद्धे सति प्रीतिलता कानिचन दिनानि स्वगृहं गत्वा न्यवसत् । यतो हि प्रीतिलता सदृशा लघ्वी बालिका आङ्ग्लारक्षकाणां नेतुः हननं कर्तुं शक्नोति इति न कस्यापि मनसि प्रश्नः उद्भवति । परन्तु एकस्मिन् दिने सूर्यसेनस्य आदेशेन प्रीतिलता स्वनिवासस्थानं पर्यवर्तयत् । सा स्वसख्याः कल्पनायाः गृहम् अगच्छत् ।
सूर्यसेनः, तस्य सहक्रान्तिकारिणः च आङ्ग्लारक्षकान् मारितवन्तः इत्यनेन आङ्ग्लारक्षकाः अतिकुपिताः आसन् । अतः ते आभारतं प्रचारं कृतवन्तः यत्, “सूर्यसेनस्य विषये यः कोऽपि सूचनां दास्यति उत तं गृहित्वा अस्मभ्यं दास्यति, तस्मै आङ्ग्लसर्वकारः दशसहस्ररूप्यकाणां पारितोषिकं दास्यति” इति । आङ्ग्लानाम् एतादृशेन कृत्येन सूर्यसेनस्य क्रोधः दावानलः अभवत् । सः आङ्ग्लानां संहारं कर्तुं योजनाम् अकरोत् । विलासिनः आङ्ग्लाः चितागोङ्ग-स्थलस्य समीपं पर्वतीयस्थले युरोपियन् क्लब् चालयन्ति स्म । तस्य प्रासादस्य बहिः लिखितम् आसीत् यत् “कुक्काराणां, भारतीयानां च प्रवेशः निषिद्धः (Dogs and Indians not allowed)” इति [१][२] । आङ्ग्लाः तत्स्थलं मदिरापानं, परस्त्रीगमनं, द्युतक्रीडां च कर्तुं गच्छन्ति स्म । “आङ्ग्लाः तस्मिन् स्थले यदा मदिरायाः मदेन मदान्धाः भवेयुः, तदा तेषु गुलिकायाः प्रहारं कृत्वा सर्वान् मारयिष्यामः” इति क्रान्तिकारिणां योजना आसीत् । एतस्याः योजनायाः समस्तं दायित्वं प्रीतिलतायाः आसीत् । सा पञ्चदशक्रान्तिकारिणां दलस्य निर्माणम् अकरोत् [८] । सा तस्य दलस्य अध्यक्षा आसीत् ।
१९३२ तमस्य वर्षस्य 'सितम्बर'-मासस्य चतुर्विंशतितमे (२४/९/१९३२) दिनाङ्के रात्रौ 'भारतीयगणतन्त्रसेना' इत्यस्याः संस्थायाः क्रान्तिकारिणः आङ्ग्लारक्षाणाम् उपरि आक्रमणम् अकुर्वन् । सर्वैः क्रान्तिकारिभिः आङ्ग्लारक्षकाणां वस्त्राणि धृतानि आसन्, येन तेषाम् उपरि न कस्यापि सन्देहः अभवत् । यदा क्रान्तिकारिणः गुलिकायाः प्रहारं प्रारभन्त, तदा आङ्ग्लाः सज्जाः नासन् । परन्तु स्थितेः अवलोकनं कृत्वा तेऽपि प्रत्याक्रमणम् अकुर्वन् । तेषु केचन इतस्ततः अधावन्, येषां पार्श्वे अग्निशस्त्रम् आसीत्, ते क्रान्तिकारिषु गुलिकाप्रहारं प्रारभन्त । एवम् उभयोः पक्षयोः परस्परं पञ्चदशनिमेषं यावत् युद्धम् अभवत् । तस्य खण्डस्य वातावरणम् अग्निगुलिकायाः ध्वनिना गुञ्जति स्म । तावता एकस्य आङ्ग्लस्य गुलिकया प्रीतिलता आहता अभवत् । यद्पि प्रीतिलता गुलिकया आहता, तथापि सा वीराङ्गना युद्धं कुर्वती आसीत् ।
मृत्युः
[सम्पादयतु]'युरोपियन् क्लब्'-मध्ये गुलिकायाः ध्वनिं श्रुत्वा समीपस्थाः आङ्ग्लारक्षकाः अपि 'युरोपियन् क्लब्' इत्यत्र गताः । अधिकानाम् आरक्षकाणाम् आगमनं क्रान्तिकारिणां कृते हानिकारकं न भवेत् इति विचिन्त्य प्रीतिलता सर्वान् पलायितुम् आदेशम् अयच्छत् । प्रीतिलता स्वयम् आहता आसीत्, अतः सा चलितुम् अपि असमर्था आसीत् । तेन अन्यक्रान्तिकारिणः ताम् एकाकिनीं त्यक्त्वा गन्तुं नेच्छन्ति स्म । तेषां कथनम् आसीत् यत्, “वयं भवतीं नीत्वैव गमिष्यामः” इति । परन्तु समयः अधिकः नासीत्, अतः प्रीतिलता उग्रस्वरेण सहक्रान्तिकारिभ्यः आदेशम् अयच्छत्, “दलस्य नायकत्वेन अहम् आदिशामि यत्, भवन्तः सर्वे इतः गच्छन्तु । मम कृते अहं सर्वेषां जीवनस्य बलिदानं कर्तुं न शक्नोमि” इति ।
आदेशपालयितुं बद्धाः क्रान्तिकारिणः प्रीतिलतां तत्रैव त्यक्त्वा अगच्छन् । आहता प्रीतिलता कांञ्चन घण्टां यावत् शरीरवेदनाम् असहत् । "आरक्षकाणां हस्ते जीवितबद्धा न भविष्यामि" इति प्रीतलतायाः प्रतिज्ञा आसीत् । अतः सा विषम् अपिबत्, येन तस्याः प्राणः शरीरात् निर्गतः ।
युरोपियन् क्लब् इत्यस्य आक्रमणे द्वादश आङ्ग्लारक्षकाः आहताः अभवन् । दुर्भाग्येन एकस्यापि आङ्ग्लारक्षकस्य मृत्युः नाभवत् । एकस्याः वराङ्गनायाः मृत्युः जातः आसीत् । 'युरोपियन् क्लब्' इत्यस्य खण्डस्य बहिः आङ्ग्लाकारक्षकाः अज्ञातं शवम् अपश्यन् । आङ्गलानां ज्ञानं नासीत् यत्, एषा का आसीत् इति । यतो हि तस्य शवस्य वस्त्राणि आङ्ग्लारक्षकाणां गणवेषः आसीत् । अतः सर्वे अधिकारिणः तस्य शवस्य विषये अन्वेषणम् अकुर्वन् । परन्तु तस्य शवस्य विषये न कामपि सूचनाम् आङ्ग्लाः प्रापन् । तत् शवं प्रीतिलतायाः आसीत्, यया भारतमातुः रक्षायै कृते युद्धे स्वप्राणस्य बलिदानं कृतम् आसीत् ।
विशेषम्
[सम्पादयतु]प्रीतिलतायाः वयः अधिकं नासीत् । तया जीवनस्य आरम्भः कृतः आसीत् । परन्तु देशसेवायै सा सर्वस्वं समर्प्य स्वशक्त्यानुसारं भारतमातुः सेवाम् अकरोत् । अनेकैः तत्कालीनैः क्रान्तिकारिभिः प्रीतिलतायाः मृत्योः शोकः कृतः । यः देशसेवायाः भावः प्रीतिलतायाम् आसीत्, तादृशं देशभक्त्याः भावं सद्यः देशजनानां मनसि उद्भावयितुं देशभक्ताः लेखमाध्यमेन, नाटकमाध्यमेन, गीतमाध्यमेन प्रयासं कुर्वन्तः सन्ति । २०१० तमे वर्षे भारतीयचलच्चित्रक्षेत्रे ‘खेले हम जी जाँ से’ एकं चलच्चित्रं निर्मितम् आसीत् । तस्मिन् चलच्चित्रे विशाखा सिंह नामिका नायिका प्रीतिलतायाः पात्रस्य अभिनयम् अकरोत् [९][१०] ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://archive.thedailystar.net/newDesign/news-details.php?nid=184343 Archived २०१५-०१-१२ at the Wayback Machine
http://books.google.co.in/books?id=wcoBAAAAMAAJ&redir_esc=y
http://www.towardsfreedom.in/site/Pritilata_Waddedar
उद्धरणम्
[सम्पादयतु]- ↑ १.० १.१ "Pritilata Waddedar (1911-1932)". News Today. Archived from the original on 2012-01-26. आह्रियत 18 December 2012.
- ↑ २.० २.१ "After 80 yrs, posthumous degrees for revolutionaries". The Times of India. Mar 22, 2012. Archived from the original on 2013-05-09. आह्रियत 18 December 2012.
- ↑ "Pritilata's 100th birthday today". The Daily Star. ५/५/२०११. आह्रियत 18 December 2012.
- ↑ Kalpana Dutt (1979). Chittagong Armoury raiders: reminiscences. Peoples̕ Pub. House. p. 46. आह्रियत 18 December 2012.
- ↑ "Biography of Waddedar, Pritilata". Banglapedia. आह्रियत 18 December 2012.
- ↑ Pritilata (in Bengali). Prometheus er pothe. 2008. p. 15.
- ↑ "The Fire-Brand Woman Of Indian Freedom Struggle.". Towards Freedom. आह्रियत 18 December 2012.
- ↑ Geraldine Forbes (28 April 1999). Women in Modern India. Cambridge University Press. pp. 140–. ISBN 978-0-521-65377-0. आह्रियत 18 December 2012.
- ↑ "Young rebels". Business Standard. आह्रियत 18 December 2012.
- ↑ "The veer Konna of Chittagong". The Telegraph (Calcutta). आह्रियत 19 December 2012.