कषायचूर्णम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कषायचूर्णम्
कषायचूर्णम्
कषायचूर्णम्

एतत् कषायचूर्णं भारते अपि सर्वत्र उपयुज्यते । कषायचूर्णम् अपि सस्यजन्यः आहारपदार्थः । कषायचूर्णं नाम बहूनां गन्धद्रव्याणां योजनेन निर्मितं चूर्णं, कस्यापि एकस्य एव वस्तुनः (गन्धद्रव्यस्य) चूर्णं न । अनेन कषायचूर्णेन एव कषायं निर्मीयते । कषायचूर्णे कुस्तुम्बरी, मरीचं, जीरिका इत्यादिकं योजितं भवति । अपेक्षानुगुणम् एला, खसतिलः चापि योज्यते कदाचित् । तानि सर्वाणि अपि गन्धद्रव्याणि पृथक् पृथक् भर्जयित्वा चूर्णीक्रियते चेत् कषायचूर्णं सिद्धम् इति अर्थः ।

"https://sa.wikipedia.org/w/index.php?title=कषायचूर्णम्&oldid=392138" इत्यस्माद् प्रतिप्राप्तम्