कस्तूर भाई

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Kasturbhai Lalbhai
Kasturbhai Lalbhai 1940.JPG
Kasturbhai in the 1940s before adopting khadi clothes
जन्म (१८९४-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-१९)१९ १८९४
Ahmedabad
मृत्युः २० १९८०(१९८०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२०) (आयुः ८५)
Ahmedabad
नागरिकता India
शिक्षणम् Metric
शिक्षणस्य स्थितिः Ranchhodlal Chhotalal Government High School
वृत्तिः Industrialist
सक्रियतायाः वर्षाणि 1912–1977
Organization Arvind Mills
धर्मः Jainism
भार्या(ः) Sharda Chimanlal Jhaveri
अपत्यानि Shrenik, Siddharth
पितरौ Mohini and Lalbhai Dalpatbhai
पुरस्काराः Padma Bhushan

कस्तूरभाई(गुजराती: કસ્તૂરભાઈ, आङ्ग्ल: kasturbhai ) इत्ययं लालभाई इत्यस्य पुत्रः आसीत् । अहमदाबाद-नगरे लालभाई दलपतभाई नाम्ना बह्व्यः शैक्षणिकसंस्थाः वर्तन्ते । यन्त्रागारस्वामिकर्मचरयोः सम्बन्धः कथं भाव्यः इत्यस्य आदर्शम् उदाहरणं लालभाई इत्ययम् आसीत् । महात्मनः ट्रस्ट्शिप् इति विचारः तेन स्वीकृतः । देशस्य स्वतन्त्रतायाम् अपि तस्य महत्वपूर्णं योगदानम् आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

१८९४ तमस्य वर्षस्य दिसम्बर मासस्य नवदशे (१९) दिनाङ्के लालभाई मोहिनीबेन इत्येतयोः गृहे कस्तूरभाई नामाख्यस्य जन्म अभवत् । ते सप्तभ्रातरभगिन्यश्च आसन् । तेषु नरोत्तमभाई इत्ययं कस्तूरभाई इत्यनेन सह मित्रमिव व्यवहारं करोति स्म ।

बाल्यं, शिक्षणञ्च[सम्पादयतु]

कस्तूरभाई इत्येतेन त्रण दरवाजा इत्यस्य समीपवर्तिनि प्राथमिकशालायां प्राथमिकम् अध्ययनं प्राप्तम् । सः शालायां प्रतिवर्षं प्रथमे वा द्वितीये क्रमे एव उत्तीर्णः भवति स्म । तत्र पञ्चमकक्षायाः अभ्यासं समाप्य सः आर्.सी. हाई स्कूल् इत्यस्मिन् विद्यालये प्रविष्टः । तत्र कस्तूरभाई इत्यस्य आङ्ग्लसंस्कृतभाषयोः शिक्षकः केशव ध्रुव इत्याख्यः आसीत् । कस्तूरभाई इत्ययं १९११ तमे वर्षे अधिकैः अङ्कैः मेट्रिक् इत्यस्यां परीक्षायां समुत्तीर्णः । इतोऽप्यधिकम् अध्येतुम् इच्छावशात् गुजरातमहाविद्यालयं प्रविष्टः ।

पैतृक सम्पत्तेः विभाजनं, पितुःमृत्य च[सम्पादयतु]

यदा कस्तूरभाई इत्ययं मेट्रिक् इत्यस्यां परीक्षायां समुत्तीर्णः अभवत्, तदा पितृव्यः पैतृकीं सम्पत्तिं विभाजयितुम् स्वभ्रातरं लालभाई इत्येतम् अवदत् । सम्पत्तेस्तु विभाजनम् अभवत् किन्तु परिवारस्य प्राणतुल्यस्य हर्म्यस्य अपि विभाजनम् अभवत् । इदं लालभाई इत्यस्य कृते असह्यम् आसीत् । अतः लालभाई इत्ययं विभाजनस्य अनन्तरम् अल्पीयसि काले एव मृतः ।

कस्तूरभाई इत्यस्य कार्यरम्भ[सम्पादयतु]

पितुः मृत्युकाले कस्तूरभाई इत्यस्य महाविद्यालयं प्रविश्य षण्मासाः एव समाप्ताः आसन् । रायपुर-यन्त्रोपलस्य व्यवस्थायां तस्य आवश्यकता आसीत् । अतः मातुः कथनात् सः अभ्यासम् अत्यजत् । तदानीं तस्य वयः १८ एव आसीत् । अल्पीयसि वयसि कार्यभारः शिरसि आपतितः किन्तु माता मोहिनीबेन व्यवहारकुशलिनी आसीत् । सा पत्युः सम्पत्तिं योग्यरीत्या उपयुज्य व्यवहारम् अकरोत् । तस्याः मार्गदर्शनं कस्तूरभाई इत्यस्मै अतीव उपयोगी अभवत् । पितृव्यः कस्तूरभाई इत्यस्य प्रतिभया अज्ञः आसीत् । अतः तस्मै समयगणकस्य (time keeper) कार्यम् अयच्छत् । इदं तु सेवककार्यम् आसीत् । यन्त्रोपलस्वामिनः पुत्रः इदं कार्यं कुर्यात् किम् ? ततः परं तस्मै यन्त्रसामग्रीणां क्रयणस्य कार्यं प्रदत्तम् । किन्तु इदं कार्यं प्रतिदिनं न भवति ।

कस्तूरभाई इत्यस्य वैशिष्ट्यम्[सम्पादयतु]

पितृव्येण कस्तूरभाई इत्यस्मै कार्पासक्रयणस्य कार्यं प्रदत्तम् । तत्र तेन स्वप्रतिभा दर्शिता । वस्त्रस्य कठोरता मृदुता च कार्पासेन आधारिता एव भवति । सामान्यतया कार्पासपरीक्षणं यन्त्रोपले (mill) एव भवति । किन्तु कस्तूरभाई इत्ययं तस्मादेकम् अधिकं सोपानमारुह्य ग्रामेषु यद् कार्पासोत्पादनं भवति, तत्सर्वं ज्ञात्वा एव कार्पासं यन्त्रोपलम् आनयति स्म । तत्र तस्य अकल्पनीया गतिः आसीत् । अङ्गुलीनां स्पर्शमात्रेण सः कार्पासपरीक्षणं करोति स्म । तदानीं प्रायशः सर्वेऽपि यन्त्रोपलस्वामिनः कार्यारम्भात् प्राक् निष्णातानां सुज्ञानां जनानां सहायतां स्वीकुर्वन्ति स्म । किन्तु कस्तूरभाई स्वस्य आत्मज्ञानेन निर्णयं करोति स्म । वस्त्रस्य कः प्रकारः कुत्र अधिकाधिकं प्रचलति इत्येतत्सर्वं ज्ञातुं सर्वत्र सः भ्रमणमपि अकरोत् ।

विवाहः[सम्पादयतु]

१९१५ तमे वर्षे चीमनलाल वाडीलाल इत्यस्य शारदाबेन इत्याख्यया पुत्र्या सह कस्तूरभाई इत्यस्य विवाहः अभवत् । एतस्याः नाम्नः आधारेणैव अहमदाबाद-नगरस्य सरसपुर इत्यत्र एकः चिकित्सालयः अस्ति ।

महात्मना सह मेलनम्, सेवकानां वेतनवर्धनम्[सम्पादयतु]

तदानीमेव महात्मना अहमदाबाद-नगरस्य कोचरण इत्यत्र सत्याग्रह-आश्रमः स्थापितः । कस्तूरभाई इत्ययं महात्मानं मिलितवान् । वर्षद्वयान्ते अहमदाबाद-नगरे प्लेग-नामकः रोगः प्रसृतः । तदानीं महात्मा आश्रमं साबरमतीतटम् अनयत् । किन्तु दरिद्रजनाः कुत्र गच्छेयुः ? तेषां सङ्ख्या अपि बह्वी आसीत् । अतः बहुभिः स्वदेशगमनं कृतम्, अन्यैश्च यन्त्रोपलबहिष्कारः कृतः । तेभ्यः महात्मना एव मार्गः दर्शितः । तेषां समर्थने महात्माऽपि उपवासान् अकरोत् । अन्ते आनन्दशङ्करध्रुवं मध्यस्थिनं कृत्वा ३५% वेतनवर्धनम् अकरोत् ।

कार्याध्यक्ष मजूर महाजन सङ्घ’ इत्यस्य स्थापना च[सम्पादयतु]

यन्त्रोपलस्वामिनां प्रतिनिधित्वेन कस्तूरभाई इत्ययं यावत्प्रेमम् अदर्शयत् तेन प्रभाविताः यन्त्रोपलस्वामिनः कार्याध्यक्षत्वेन तम् अयोजयन् । १९२० तमे वर्षे ‘मजूर महाजन सङ्घ’ इत्यस्य स्थापनामकरोत् । सेवकाः प्रसन्नाश्चेदेव यन्त्रागारस्य उत्पादनम् अधिकं भवष्यति इति कस्तूरभाई इत्ययं सदा सर्वदा विचिन्तयति स्म । अतः तेषां कल्याणप्रवृत्तौ सः अधिकरसम् अधारयत् । रायपुर-यन्त्रोपले पञ्चाशत्सहस्ररूप्यकधनेन बालगृहम् अरचयत् । तस्योद्घाटनमपि महात्मनैव कृतम् ।

यन्त्रोपलानां मण्डलस्य प्रतिनिधिः[सम्पादयतु]

१९२२ तमे वर्षे सरदार पटेल इत्यस्य आग्रहेण कस्तूरभाई केन्द्रीय असेम्ब्लि इत्यस्मिन् यन्त्रोपलानां मण्डलस्य प्रतिनिधित्वेन चितः । ब्रिटिश-सर्वकारः लेङ्कशैर् इत्यस्य वस्त्रोद्योगाय लाभः भवेत् इति भारतस्य यन्त्रोपलेषु यानि वस्त्राणि सज्जीभवन्ति, तेषाम् उपरि प्रतिशतं ३.५०% सर्वकाराय दातव्यमिति निर्णयम् अकरोत् । कस्तूरभाई इत्ययं तस्य विरोधं कुर्वन् केन्द्रीय असेम्ब्लि इत्यस्य सभ्यानां समर्थनं प्राप्य तत् निरस्त्यकरोत् । यद्यपि सर्वकारेण करः न स्वीकृतः तथापि वस्त्रोद्योगानां कठिनतायाः निवारणं न अभवत् ।

हिन्द व्यापारोद्योगस्य प्रमुखः[सम्पादयतु]

इङ्ग्लेण्ड-देशस्य जापान-देशस्य च वस्त्राणाम् अपेक्षया भारतस्य वस्त्राणि अयोग्यानि आसन् । तदभ्यस्तुं कस्तूरभाई इत्ययं टेरिक् कमिशन् इत्यस्य रचनाम् अकरोत् । अतः यन्त्रोपलानां प्रतिनिधित्वेन कस्तूरभाई इत्ययं समाविष्टः । किन्तु अस्य आयोगस्य कथनं सर्वकारः न श्रुतवान् । तथापि कस्तूरभाई इत्यस्य सूचनाः सर्वैः स्वीकृताः । तस्य अभ्यासपूर्णेन कथनेन प्रभाविताः सन्तः यन्त्रोपलस्वामिनः ‘हिन्द’ इत्यस्य व्यापारोद्योगस्य प्रमुखपदे तस्य नियुक्तिम् अकुर्वन् । अहमदाबाद-नगरस्य यन्त्रोपलप्रमुखत्वेनापि सः चितः । जिनीवा इत्यस्मिन् भारतस्य उद्योगपतीनां प्रतिनिधित्वेनापि उपस्थितः आसीत् ।

अरविन्द मिल् इत्यस्य स्थापना[सम्पादयतु]

१९३१ तमे वर्षे कस्तूरभाई इत्यनेन अरविन्द मिल् इत्यस्य स्थापना कृता । तदानीं यन्त्राणां विक्रये मन्दता आसीत् । तस्मात् तेन न्यूनधनेन यन्त्राणि लब्धानि । तस्य प्रेमपूर्णः व्यवहारः आसीत् इत्यतः अरविन्द मिल् देशस्य मुख्ययन्त्रोपलेषु स्थानम् अयात्, यत् अद्यापि मुख्ययन्त्रोपलत्वेनैव प्रचाल्यमानम् अस्ति । १९३५ तमे वर्षे एजुकेशन् सोसैटि इत्यस्य रचना जाता । कस्तूरभाई तस्य प्रमूखः अभवत् ।

चिन्तामणि देशमुख रिजर्व बेङ्क् इत्यस्य प्रथमः भारतीयप्रशासकः[सम्पादयतु]

१९३७ तमे वर्षे कस्तूरभाई रिजर्व बेङ्क् इत्यस्य अध्यक्षपदे नियुक्तः । तस्य द्वितीये वर्षे रिजर्व बेङ्क् इत्यस्य प्रशासकस्य अवसानम् अभवत् । पदेऽस्मिन् प्रायशः ब्रिटिश-जनस्यैव नियुक्तिः भवति स्म । किन्तु कस्तूरभाई वित्ताध्यक्षं प्रबोध्य चिन्तामणि देशमुख इत्यस्य प्रशासकपदे नियुक्तिम् अकरोत् । इत्थं चिन्तामणि देशमुख इत्ययं रिजर्व बेङ्क् इत्यस्य प्रथमः भारतीयप्रशासकः अभवत् । १९४२ तमे वर्षे महात्मना हिन्द छोडो आन्दोलनमारब्धम् । यन्त्रोपलानां कार्यकर्तारः अपि तस्मिन् सम्मिलिताः भवेयुः इति महात्मा ऐच्छत् । कस्तूरभाई तदानीं मुम्बई-नगरे आसीत् । मजूर महाजन सङ्घ इत्यस्य मन्त्रिणा खण्डुभाई देसाई इत्यनेन सह दूरभाषयन्त्रेण चर्चां कृत्वा कर्मकरान् स्वस्थानं प्रेषयितुम् अकथयत् ।

विक्रम साराभाई इत्यस्य सहायकः[सम्पादयतु]

विक्रम साराभाई इत्यनेन १९४७ तमे वर्षे अटिरा, १९४८ तमे वर्षे फिजिकल् रिसर्च् लेबोरेटरी इत्यस्य स्थापना कृता । तयोः निर्माणे कस्तूरभाई इत्ययं तस्य साहाय्यम् अकरोत् । विक्रम साराभाई इत्यस्य अवसाने सति अणुसंस्थायाः भारः तस्य उपरि आगतः । अतः १९७६ यावत् तस्य अध्यक्षपदम् आलङ्करोत् । ततः परं स्वतन्त्रभारते नौकाश्रयचयनसमितेः अध्यक्षपदे तस्य नियुक्तिः अभवत् । यन्त्रोपलवस्त्राणां रज्जनकार्ये वर्णस्य आवश्यकता भवति

अतुल प्रोडक्ट्स् स्थापना[सम्पादयतु]

विदेशात् वर्णानाम् आनयनम् अधिकं व्ययकरम् आसीत् । अतः रसायनोद्योगे कार्यं कृत्वा १९५० तमे वर्षे वलसाड-तः ७ कि.मी. दूरे पारनेरा इत्यस्य पर्वते ८०० एकर भूमौ अतुल प्रोडक्ट्स् इत्यस्य स्थापनाम् अकरोत् । तत्र रसायनौषधयोः उत्पादनम् आरभत । कार्येऽस्मिन् बी.एच्.यू. इत्यस्य अर्थशास्त्रज्ञस्य बी. के. मजुमदार इत्यस्य सहायता प्राप्ता येन अतुल प्रोडक्ट्स् इति इयं संस्था अन्ताराष्ट्रियसिद्धिम् अयात् ।

पत्न्याः मृत्युः[सम्पादयतु]

अतुल प्रोडक्ट्स् इत्यस्याः संस्थायाः स्थापनायाः वर्षे तस्य पत्नी मृता । अस्य दुःखदस्य प्रसङ्गस्य कतिचिद्दिवसानन्तरं ‘साईनेमाईड्’ इत्यस्याः संस्थायाः प्रतिनिधीनां सम्मानने भोजनसमारम्भः आसीत् । कस्तूरभाई तत्र उपस्थितः न भवेत् चेत् अविवेकः स्यात् । अतः खिन्नहृदयः सन् तत्र उपस्थितः अभवत् । तथापि दुःखाधिक्यात् सः अरोदत् । पत्न्याः स्मरणमात्रेण तस्य अक्षिणी क्लिन्दे अभवताम् ।

कार्पण्यसमितेः अध्यक्षः[सम्पादयतु]

सरलता, कार्पण्यता इत्येतौ तस्य मुख्यगुणौ आस्ताम् । पाश्चात्यसंस्कृतेः प्रभावात् उद्योगपतयः वैदेशिकवस्त्राणि धरन्ति स्म । किन्तु कस्तूरभाई श्वेतधौतवस्त्रं, ‘जब्भा’-वस्त्रं, मस्तके शिरस्त्राणं च धरति स्म । तस्य एतादृशं व्यवहारं दृष्ट्वा एव सर्वकारः तं कार्पण्यसमितेः अध्यक्षपदम् अयच्छत् ।

मृत्युः[सम्पादयतु]

१९८० तमस्य वर्षस्य जनवरी-मासस्य २० दिनाङ्के तस्य मृत्युः अभवत् । तस्य इच्छानुसारं तस्मिन् दिने एकः अपि यन्त्रोपलः न पिहितः । सर्वैः कर्मकरैः स्वस्य तद्दिनस्य वेतनं कर्मकरकल्याणाय दत्त्वा विशिष्टोदाहरणं स्थापितम् ।

"https://sa.wikipedia.org/w/index.php?title=कस्तूर_भाई&oldid=405408" इत्यस्माद् पुनः प्राप्तिः