सोपान
सोपान (गुजराती: સોપાન, आङ्ग्ल: sopan )इति उपाधिधर्तुः मूलनाम मोहनलाल तुलसीदास महेता इति । सः गुर्जरभाषायाः प्रमुखः पत्रकारः, स्वातन्त्र्यस्य योद्धा च आसीत् । केवलं षड्कक्षाम् अधीत्य अपि जनः कीदृशीं सिद्धिं प्राप्तुं शक्नोति इति अस्य जीवनात् ज्ञायते । जन्मभूमिः, नूतनगुजरात, सुकानी, उर्मिनवरचना, अभिनवभारती इत्यादीनां सामयिकानां बहुवर्षं यावत् सः तन्त्रिपदारूढः आसीत् । सः पञ्चाशत् पुस्तकानि अरचयत् । गुर्जरभाषायां लेखनीमाध्यमेन जीवमानेषु पत्रकारेषु वा लेखकेषु अयम् एकः लेखकः वा पत्रकारः आसीत् । साम्प्रतकाले समाजे साहित्यिकानां, साहित्यस्य च प्रभावः न्यूनः जातः । साम्प्रतं जनानां कृते मोहनालाल महेता इत्यस्य नाम्नः विस्मरणम् अभवत् । किन्तु यदि विख्यातायाः अभिनेत्र्याः नन्दितादास इत्यस्याः मातामहः इति वदामः, तर्हि जनानां मुखं प्रसन्नं भवति । अर्थात् मोहनलाल महेता इत्यनेन नन्दिता न किन्तु नन्दिता इत्यस्याः नाम्ना मोहनलाल महेता इत्यस्य परिचयः भवति । जनाः तु मातृभूम्यै बलिदानकर्तॄन् स्वातन्त्र्यवीरान् विस्मृतवन्तः । मोहनलाल महेता इत्येतं विस्मृतवन्तः इत्यनेन किम् ?
जन्म, परिवारश्चच
[सम्पादयतु]मोहनलाल इत्यस्य जन्म १९१० तमस्य वर्षस्य जनवरी मासस्य चतुर्दशे (१४) दिनाङ्के मकरसङ्क्रान्तिदिने मोरबी-नगरस्य चकमपद-ग्रामे अभवत् । तस्य बाल्यकालस्य नाम गांडालाल इति आसीत् । वयस्के सति गाण्डालाल-तः मोहनलाल इति नामकरणम् अभवत् । तत् विहाय अयं सोपान, युद्धकवि, तणखो, वनवासी, श्री इत्यादीनि उपनामानि प्रापत् किन्तु सोपान इति नाम्नैव प्रसिद्धिं प्रापत् । तस्य पितुः नाम तुलसीदासः आसीत् सः व्यापारी आसीत् । तस्य मातुः नाम्नः उल्लेखः, अन्यपरिवारजनानां च उल्लेखः कुत्रापि न प्रप्यते ।
बाल्यं, शिक्षणं च
[सम्पादयतु]मोहनलाल इत्ययं प्राथमिकं शिक्षणं मोरबी-नगरे प्रापत् । किन्तु तदानीम् अभ्यासाय गाम्भीर्यं नासीत् । अतः मोहनलाल षड्कक्षाम् अधीत्य शालाम् अत्यजत् । सप्तवर्षस्य बालकं विहाय माताऽपि मृता । तदानीं राज्यस्य जनाः प्रायशः कराची-नगरे वसन्ति स्म । मोहनलाल इत्यस्य पितुः तत्रैव व्यवसायः आसीत् । पत्न्याः मृत्योः अनन्तरं पिता तुलसीदासः मोहनलाल इत्येतं, स्वज्येष्ठभ्रातरं च कराची-नगरम् अनयत् । तत्र सः वणिजः कार्यभारं वहन् ग्रामात् घृतं नीत्वा कराची-नगरे व्यापारं करोति स्म । एकदा तस्य २० घृतकरण्डकाः चोरिताः । तदानीमेव मोहनलाल मोदकम् अयाचत् । घृतकरण्डकानां चौर्ये सत्यपि पित्रा मोदकाः निर्मापिताः ।
बाल्ये वैदेशिकवस्त्राणां त्यागः
[सम्पादयतु]१९२१ तमे वर्षे असहकारस्य आन्दोलनस्य आरम्भः जातः । तदानीं तस्य पितुः अक्षिणी अशक्ते अभवताम् । अतः पितुः साहाय्यं कर्तुं व्यवसायम् आरब्धवान्, वैदेशिकवस्त्राणां त्यागं च कृतवान् । द्वादशवर्षीयः मोहनः स्वकीयानि वैदेशिकवस्त्राणि प्राज्वालयत् । ततः परम् आजीवनं पितापुत्रौ स्वदेशिवस्त्राणि धारितवन्तौ । श्रीमद् राजचन्द्र इत्यस्य जामाता भगवानलाल तदानीं कराची-नगरे वसति स्म । सः एतस्मै सहानुभूतिं दर्शयित्वा कराची-नगरस्य नानकवाडा-विस्तारे खादी-भण्डारम् अकारयत् । एकदा खादी-भण्डारं बिरला-संस्थायाः स्वामी घनश्यामदास बिरला गतः । सः मोहनलाल इत्यनेन प्रभावितः सन् कोलकाता-नगरस्य खादी-वस्त्रभण्डारे वृत्तिं ददामि इति अवदत् । किन्तु मोहनः सादरम् अन्धं पितरं त्यक्त्वा कुत्रापि गन्तुं नेच्छामि इति अवदत् ।
उर्मिनवरचनासामयिकम् , सामाजिकाः प्रवृत्तीः च
[सम्पादयतु]तदानीं राजकोट-मण्डलस्य वावडी-ग्रामस्य युवा वजुभाई शाह कराची-नगरे एन्जिनियरिङ्ग्-विद्यां पठति स्म । तेन सह मोहनलाल इत्यस्य मित्रता आसीत् । उभावपि देशभक्तौ, साहित्यरसिकौ च आस्ताम् । कालान्तरे एकेन उर्मि नामकं मासिकम्, अपरेण नवरचना नामकं मासिकञ्च आरब्धम् । अल्पीयसि वर्षे व्यतीते सति उभाभ्यां मिलित्वा उर्मिनवरचना इति सामयिकम् आरब्धम् । मित्रैः सह मोहनलाल व्यसनमुक्तिः, खादी-प्रचारः, कन्याविक्रयविरोधः, विधवाविवाहाय समर्थनम् इत्यादयः प्रवृत्तीः अकरोत् । स्वातन्त्र्य-आन्दोलनेऽपि सक्रियः अभवत् ।
उभयोः सङ्कल्पः
[सम्पादयतु]१९२९ तमे वर्षे लाहोर-नगरे कोङ्ग्रेस-पक्षस्य अधिवेशनम् आसीत् । तत्र देशभक्तैः पूर्णं ‘स्वराज’ याचितम् । तत्र मोहनलाल, वजुभाई शाह इति उभाभ्याम् उपस्थितिः प्रदत्ता । भारतस्य स्वातन्त्र्याय जीवनं समर्पयावः इति उभाभ्यां सङ्कल्पितम् । सोपान इत्यनेन तदर्थम् अन्धपितुः अनुमतिः स्वीकृता । ततः परं कराची-नगरं त्यक्त्वा गुजरातराज्यं गतौ ।
कारावासः आशीर्वादः अभवत्
[सम्पादयतु]गुजरातराज्ये तौ धोलेरा इत्यस्य सत्याग्रहे भागं गृहीतवन्तौ । धोलेरा-ग्रामे सौराष्ट्र इति पत्रस्य तन्त्रिणः अमृतलाल शेठ इत्यस्य नेतृत्वे लवणसत्याग्रहः इति आन्दोलनं चलति स्म । तत् अवरोधनाय आन्दोलनकर्तारः कारागारे पूरिताः । तेषु मोहनलाल इत्ययम् अपि आसीत् । सः साबरमती-कारागारे पूरितः । किन्तु कारावासः मोहनलाल इत्यस्य कृते आशीर्वादः अभवत् । तस्य शिक्षणस्य पुनः आरम्भः जातः । तत्र सः हिन्दी-भाषाम्, आङ्ग्ल-भाषां च अधीतवान् । गान्धी, टोल्स्टोय् इत्यनयोः पुस्तकानि च पठितवान् । इदं सर्वं सः कारागारस्य परिश्रमाधिक्येन सह अकरोत् ।
कारागारे लेखनम्
[सम्पादयतु]यदा १९३२ तमे वर्षे मोहनलाल इत्ययं पुनः कारागारे पूरितः, तदा सः कारागारे अर्थशास्त्रं, राजनीतिञ्च अधीतवान् । १९३४ तमे वर्षे मोहनलाल पुनरेकवारं कारागारं प्रेषितः । तेन लेखनाय अवसरः प्राप्तः । अतः सः सैनिकानां विषये आत्मकथारूपेण ‘अन्तरनी वातो’ इति पुस्तकं लिखितवान् । अनेन पुस्तकेन सर्वत्र हाहाकारः कृतः । अतः ब्रिटिश्-सर्वकारः तद् पुस्तकं वशीकृत्य प्रतिबन्धम् अकरोत् । ततः परं मोहनलाल इत्ययम् ‘अन्तरनी व्यथा’ इति पुस्तकम् अलिखत् । तस्मिन् पुस्तके पञ्चसैनिकानां व्यथायै सः वाचम् अददात् ।
सोपान इति उपाधिः कथम्
[सम्पादयतु]तदनन्तरं सः ‘प्रायश्चित्त’ नामिकां नवलकथाम् अलिखत् । तत्र सन्त ज्ञानेश्वरस्य भ्रातुः नाम सोपान इति आसीत् । अतः मोहनलाल सोपान इति स्वीकृत्य स्व-नवलकथायै तदेव नाम अददात् । तत्र हरिजन-जातीयजनानाम् उल्लेखं च अकरोत् ।
मोहनस्य निर्भयता
[सम्पादयतु]१९३३ तमे वर्षे कोङ्ग्रेस-पक्षस्य दिल्ली-प्रान्तस्य अधिवेशने मोहनलाल इत्यस्य उपस्थितिः आसीत् । तत्र अयम् आरक्षकानाम् अमानुषीम् अत्याचारं सोढवान् । एतादृगेव कलहः कोलकाता-नगरस्य कार्यक्रमेऽपि जातः । तत्र एकस्य अश्वारूढस्य आरक्षकस्य हस्ताद् भुशुण्डिका अधः पतिता । भुशुण्डिका मोहनलाल इत्यस्य हस्ते आगता, अतः आरक्षकः भयभीतः अभवत् । किन्तु मोहनलाल भुशुण्डिकाम् आरक्षकस्य हस्ते दत्त्वा गोलिकां चालय इति अवदत् । तेन आरक्षकः लज्जाम् अनुभूय ततः अगच्छत् ।१९३७ तमे वर्षे मोहनलाल भारतीयसाहित्यसङ्घ इत्यस्य स्थापनाम् अकरोत् । तस्मिन्नेव वर्षे उर्मि-नवरचना पत्रस्य तन्त्रिपदम् अपि स्वीकृतवान् ।
विवाहः
[सम्पादयतु]धोलेरा-ग्रामस्य सत्याग्रहस्य समये युवा मोहनलाल सोराष्ट्र-प्रान्तस्य तन्त्री अमृतलाल शेठ इत्यस्य हृदये न्यवसत् । अतः कतिचित्वर्षान्ते स्वपुत्रीं लाभु नामाख्यां मोहनलाल इत्यनेन सह विवाहिताम् अकरोत् ।
घूङ्घटप्रथा विरोधः उभयोः संयुक्ता साहित्ययात्रा
[सम्पादयतु]लाभु लेखिका आसीत् । तस्याः विवाहकाले देशे घूङ्घट इति प्रथा चलति स्म । सा तस्य विरोधम् अकरोत् । विवाहपरम् उभयोः संयुक्तायाः साहित्ययात्रायाः आरम्भः अभवत् । उभाभ्यां मिलित्वा गृहमाधुरी, जीवनमाधुरी, अभिनवभारती नामकाः सामयिकाः बहुवर्षं यावत् चालिताः ।
मोहनलाल इत्ययं तन्त्रिपदे
[सम्पादयतु]१९४० तमे वर्षे अमृतलाल तन्त्रिपदं त्यक्तवान् । अतः तद् तन्त्रिपदं मोहनलाल इत्ययं स्वीकृतवान् । २१ वर्षाणि यावत् तद्दायित्वम् ऊढवान् । १९४७ तः १९५६ यावत् अखण्ड आनन्द इत्यस्याः मासिकपत्रिकायाः तन्त्रिपदम् अपि प्रापत् । तां पत्रिकां लोकप्रियतायाः शिखरम् अनयत् । जन्मभूमि, प्रवासी इत्युभयोः साप्ताहिकयोः, नूतनगुजरात इत्यस्य, वृत्तपत्रस्य च तन्त्रिपदम् अपि स्वीकृतवान् ।
पुनः लेखनारम्भः
[सम्पादयतु]हिन्द छोडो आन्दोलनकाले सोपान पुनर्स्वातन्त्र्यकार्ये सक्रियः अभवत् । तदानीं कारावासः मा भूदिति विचार्य भूगर्भवासी अभवत् । आरक्षकानां दृष्टिः तस्योपरि न गच्छेदतः वनवासी उपनाम्ना लेखान् अलिखत् । अयं भूगर्भवासः सार्धैकवर्षं यावद् अचलत् । तदानीं तस्य गृहे पुत्र्याः वर्षायाः जन्म अभवत् ।
सुकानी साप्ताहिकस्य आरम्भः पुस्तकानां प्रकाशनं च
[सम्पादयतु]1961 तमे वर्षे कृष्ण मेनन्, कृपालाणी इत्येतयोर्मध्ये ऐतिहासिकं संसदीयं निर्वाचनम् अभवत् । तस्मिन् जन्मभूमि-पत्रिकायाः भूमिकया मोहनलाल, शान्तिलाल शाह इत्येतयोः नीतिविषयकः कलहः अभवत् । अतः मोहनलाल तन्त्रिपदं त्यक्त्वा सुकानीनामिकां नूतनां साप्ताहिकीं प्रारभत । अञ्जलि-ग्रन्थमाला, जीवनसाहित्यमन्दिरम्, अभिनवभारती इत्येताभिः प्रकाशनसंस्थाभिः अनेकानि पुस्तकानि प्राकाशयत् ।
मृत्युः
[सम्पादयतु]जीवनस्य अन्तिमे काले वडोदरा-नगरे स्थितवान् । स्वतन्त्रतायाः आन्दोलनकाले काश्मीर-तः कन्याकुमारी, सिन्ध-तः बङ्गाल यावत् भ्रमणम् अकरोत् । एतद् विहाय अन्येषां देशानाम् अपि प्रवासम् अकरोत् । यूरोप-खण्डस्य, अमेरिका, रशिया, जापान इत्यादीनां देशानां यात्रां कृत्वा प्रवासस्य पुस्तकानि अरचयत् । लेखनीम् आजीविकायाः साधनं कृत्वा जीवनस्य अन्तिमश्वासं यावत् सः लेखनकार्यम् अकरोत् । १९८३ तमस्य वर्षस्य अप्रैल-मासस्य २३ तमे दिनाङ्के वडोदरा-नगरे तस्य अवसानम् अभवत् । इत्थं साहित्यक्षेत्रे योगदानं दत्त्वा साहित्यकानां मनसि इदानीम् अपि सोपानरूपः अस्ति ।