श्रीमद् राजचन्द्र
श्रीमतः राजचन्द्रस्य (गुजराती: શ્રી મદ્ રાજચન્દ્ર, आङ्ग्ल: shree mad rajchandra ) मूलनाम लक्ष्मीनन्दन इति आसीत् । किन्तु पिता रावजीभाई चतुर्थे वर्षे तस्य नाम्नः परिवर्तनं कृत्वा, तस्मै रायचन्द इति नाम अददात् । समाजे तस्य जैनकवित्वेन, दार्शनिकत्वेन, आध्यात्मिकनेतृत्वेन च ख्यातिरस्ति ।
जन्म
[सम्पादयतु]१८६७ तमस्य वर्षस्य अप्रैल-मासस्य ९ तमे दिनाङ्के गुजरातराज्यस्य बाबानिया पोर्ट इति स्थले श्रीमतः राजचन्द्रस्य वा रायचन्द इत्यस्य जन्म अभवत् ।
बाल्यं, शिक्षणं च
[सम्पादयतु]श्रीमत् राजचन्द्रः स्वस्य विद्यारम्भकाले एव सप्तमकक्षापर्यन्तानि पुस्तकानि अधीतवान्, तस्य तादृशी मेधाशक्तिः आसीत् । सः प्रथमकक्षायां शिक्षकं सम्पूर्णं पुस्तकं कण्ठस्थम् अश्रावयत् । तेन अयं साधारणः बालकः नास्ति इति सर्वैः ज्ञातम् । अष्टवर्षाणां वयसि काव्यानि रचयित्वा राजचन्द्रः जनानां विश्वासं प्रामाणयत् । अपि च रामायणमहाभारतवत् ग्रन्थान् विनिर्म्य 'ववाणिया' नामके लघु-ग्रामे सः सर्वेषां प्रीतिपात्रः अभवत् ।
कच्छप्रान्ते सम्माननम्
[सम्पादयतु]दशवर्षणां वयसि राजचन्द्रः सभासु भाषणानि कृत्वा सम्माननं प्राप्नोति स्म । तस्य भाषणानि लेखत्वेन सन्देशपत्रे प्रकटितानि अभूवन् । तेन च सः बहून् पुरस्कारान् प्रापत् । तस्य ख्यातिः आकच्छप्रान्तं प्रसृतारभवत् । एकदा दीवान मणिभाई जशभाई इत्ययं तं कच्छनगरम् आह्वयत । कच्छप्रान्तस्य धरायां धर्मविषये प्रवचनानि दत्त्वा सः सर्वान् सम्मोहितान् अकरोत् इति ।
श्रीमतः राजचन्द्रस्य आध्यात्मिकं, व्यावसायिकशिक्षणं च
[सम्पादयतु]श्री मत् राजचन्द्रः स्वस्य २४ वर्षणां वयसि महात्मनः आध्यात्मिकगुरुपदम् अलमकरोत्, तादृक् आध्यात्मिकज्ञानी आसीत् । सः महात्मनः वर्षद्वयं कनिष्ठः आसीत्, तथापि महात्मा तं पूजयति स्म । तस्य प्रज्ञायाः विषये अनेकाः जैनमुनयः अपि चर्चयन्ति स्म । स्वस्य त्रयोदशवर्षाणं वयसि सः पितुः आपणे उपविशति स्म, समये प्राप्तौ सति लिखति स्म । सः जैनग्रन्थानाम्, आगमानाम्, अन्यधर्मस्य ग्रन्थानां च अध्ययनम् करोति स्म । पञ्चविंशति पुस्तकानि पठित्वा तस्य अवधानशक्तेः विकासः अभवत् । सः नीतिपूर्वकं कृतेन व्यवसायेन बहुलाभान्वितः अभवत् । ततः परं मुम्बई-नगरस्य शिखरस्थेन ज़वेरी रेवाशङ्कर जगजीवन इत्यनेन सह वस्त्रादीनां व्यवसायम् आरभत ।
विवाहः
[सम्पादयतु]२१ वर्षणां वयसि तस्य सहव्यपारिणः ज्येष्ठभ्रातुः ज़लकबाई नामिकया कन्यया सह तस्य विवाहः अभवत् । कालान्तरे तस्य गृहे द्वौ पुत्रौ, द्वे पुत्री च अभवताम् ।
वने गमनम्
[सम्पादयतु]इत्थं स्वस्य सांसारिकस्य जीवनस्य उन्न्त्या सह आध्यात्मिकस्य जीवनस्यापि उन्नतिरावश्यकी इति विचिन्त्य सः मुम्बई-नगरात् वनं प्रति अगच्छत् । तत्र सः एकान्ते निवासं कृत्वा स्वात्मानं विस्मृत्य समाधौ गतः । एतादृशी गम्भीरता तेन बाल्यादेव प्राप्ता । सप्तवर्षाणां वयसि यदा अमीचन्द नामकस्य जनस्य मृत्युः अभवत्, तदा तस्य चितां दृष्ट्वा स्वस्य पूर्वजन्मस्य स्मरणम् अभवत् । तस्मात् दिनात् सः शान्तः धीरगम्भीरश्च अभवत् ।
शतावधानस्य प्रयोगः
[सम्पादयतु]यदा राजचन्द्रः षोडशवर्षणां वयसि आसीत्, तदा शास्त्री शङ्करलाल भट्ट इत्यस्य अष्टावधानीत्वेन बहुप्रसिद्धिः आसीत् । तत् दृष्ट्वा राजचन्द्रः अपि अष्टावधानस्य प्रयोगम् अकरोत् । ततः परं सहस्राधिकानां जनानां पुरतः तस्य प्रदर्शनम् अकरोत् स्वसिद्धिं च प्रादर्शयत् । एतेन प्रयोगेन सः 'हिन्दनो हीरो' इति उपाधिं प्राप्तवान् । तदनन्तरं बोटाद-नगरे शेठ हरिलाल इत्यस्य सम्मुखे सः द्विपञ्चाशत् अवधानस्य प्रयोगम् अकरोत् । अपि च फरामजी इन्स्टिट्यूट् मध्ये शतावधानस्य प्रयोगम् अकरोत्, येन जनाः आश्चर्यचकिताः अभवन् । तस्य शतावधानस्य सिद्धिः मुम्बई-नगरस्य सर्वेषु वर्तमानपत्रेषु प्रकटिता अभवत् । राजचन्द्रस्य प्रयोगेण मुम्बई-नगरस्य न्यायवादिनः (judge) शतावधानस्य विद्यायां रुचिः अवर्धत । तथा इमे प्रयोगाः विदेशे अपि भवेयुः इति सः ऐच्छत् । किन्तु राजचन्द्रः सर्वम् अजानात् । धनस्य, प्रसिद्धेः च कारणात् आध्यात्मिकमार्गात् स्वस्य अधोगतिः मा भूत् इति विचार्य अद्यारभ्य शतावधानस्य प्रयागाः न करिष्यामि इति उद्घोष्य सः सञ्यमं च अधरत् ।
ग्रन्थप्रकाशनम्
[सम्पादयतु]सः अष्टावधानम् अकरोत् ततः परं मोक्षमाला इति चिन्तनात्मकं पुस्तकं प्राकाशयत् । जैनाचार विषये सः निर्भीकः आसीत् । सः वैराग्यविलासनामनि सामयिके पञ्चसहस्रश्लोकैः अलङ्कृतः नेमिराज इति ग्रन्थः, सर्वाधिकप्रसिद्धम् आत्मसिद्धिशास्त्रं च प्राकाशयत् । तच्च बहुलोकप्रियतां प्रापत् ।
राजचन्द्रस्य उच्चभावना
[सम्पादयतु]अनुचिते काले संसारस्य त्यागकर्ता जनः विकृतः भवति इति राजचन्द्रः अमन्यत । अतः कालानुगुणं संसारमुपभुज्य जनः ऊर्ध्वं गन्तुं शक्नोति इति सः अमन्यत । अतः विवाहं कृत्वा सः अपि संसारी अभवत् । तदानीम् उपदेशकर्तारः अनुभवसिद्धं ज्ञानं न, अपि तु पुस्तकस्य ज्ञानम् एव प्रकटयन्ति स्म । अतः जनानाम् उपरि राजचन्द्रस्य कथनस्य उपदेशस्य वा प्रभावः न भवति स्म । सः समाजस्य आध्यात्मिकाय विकासाय स्त्रियः अपि शिक्षिताः स्युः इत्यपि अमन्यत । अत एव सः स्वस्य प्रथमं पुस्तकं स्त्रीनीतिबोधः इति प्राकाशयत् । सः गीताम् अपठत् । अतः कृष्णोक्तेषु पुर्वजन्मनः सिद्धान्तानाम् उपरि तस्य श्रद्धा आसीत् । मनुस्मृतौ दर्शितेषु वर्णभेदादीनां प्रति सः उदारः आसीत्, किन्तु परधर्मिधिभिः सामाजिकः व्यवहारः मा भूत् इत्यपि अमन्यत । तदानीं जैनधर्मे विभागपरम्परायाम् आधिक्यम् अभवत् । अतः जनाः भ्रान्ताः सन्तः स्वधर्मं विस्मृत्य अन्यं मार्गम् अनुसरन्ति स्म ।
मृत्युः
[सम्पादयतु]महतां, ज्योतिर्धराणां च जीवनं स्वल्पं भवति इति एकं दोर्भाग्यम् अस्ति । अस्य जीवने अपि तथैव अभवत् । १९०१ तमस्य वर्षस्य अप्रैल-मासस्य ९ तमे दिनाङ्के ३३ वर्षणां वयसि सः दिवङ्गतः ।