कारकचतुर्थी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कारकचतुर्थी अथवा संप्रदान कारकस्य व्याख्यानः

पिता पुत्राय फलं ददाति। कर्मणा यमभिप्रैति स सम्प्रदानम् (पा.सू.-१/४/३२) दानस्य कर्मणा यम् अभिप्रैति स सम्प्रदान संज्ञः स्यात्। पिता पुत्राय फलं ददाति। अत्र पिता कर्ता। फ्लं कर्म। कर्मणा सम्बन्धुः पुत्रम् अभिप्रैति। अतः पुत्रः सम्प्रदानम्। तस्मात् सम्प्रदानवाचकात् शब्दात् ‘चतुर्थी सम्प्रदाने’ इति सूत्रेण चतुर्थी भवति।

  • राजा युद्धाय संनह्यते। क्रियया यमभिप्रैति स सम्प्रदानम् (वा..) अकर्मकक्रियोद्देश्यमपि सम्प्रदानसंज्ञं स्यादिति वार्तिकस्य अर्थः। राजा युद्धाय संनह्यते। अत्र सन्नहनमेव क्रिया तस्याः क्रियायाः उद्देश्यं युद्धम्। अतो सम्प्रदानम् प्रकृतवार्तिकेन।तस्मात् सम्प्रदानभूतात् युद्धात् ‘चतुर्थी सम्प्रदाने’ इति सूत्रेण चतुर्थी भवति।
  • बालकाय खण्डशर्करा रोचते। रुच्यर्थानां प्रीयमाणः (पा.सू.- १/४/३३) रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात्। प्रीयमाणः प्रीत्याश्रयः।
  • बालिका पुष्पेभ्यः स्पृहयति। स्पृहेरीप्सितः (पा.सू.- १/४/३६) स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात्। बालिका पुष्पेभ्यः स्पृहयति। अत्र स्पृहयतेः प्रयोगः अस्ति। पुष्पाणि च इष्टानि। अतः पुष्पाणां सम्प्रदानसंज्ञां ततश्चतुर्थीः भवति। ‘चतुर्थी सम्प्रदाने इति सूत्रेण।
  • कंसः कृष्णाय क्रुध्यति। द्रोणादयः अभिमन्यवे द्रुह्यन्ति। कर्णः अर्जुनाय ईष्यति। मन्दमतिः बुध्दिमत्ते असूयति। क्रुधद्रुर्ष्यासूर्यार्थानां यं प्रति कोपः (पा.सू. – १/४/३७) क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः सः सम्प्रदान संज्ञः स्यात्, क्रुध्यति, द्रुह्यति, ईर्ष्यति, असूयति इत्येतेषां तत् पर्यायाणाञ्च प्रयोग यं प्रति कोपः सः सम्प्रदानसंज्ञां प्राप्नोति इत्यर्थः। क्रोध= अमर्षः। द्रोहः= अपकारः। ईर्ष्या= अक्षमा (असहनम्) असूया = गुणेषु दोषाविष्करणम्। बालः ग्रामाय (ग्रामं) गच्छति। ‘गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि’ (पा.सू. -२/३/१७) प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात् तिरस्कारे। अप्राणिष्वित्यपनीय नौकाकान्नशुकंशृगालवर्जेष्विति वाच्यम् (वा.) मन्यतेः कर्मणि विकल्पेन चतुर्थी भवति, तच्च कर्म अनादरद्योतकं भवेत् तत्कर नौः, काकः अन्नः शुकः शृगालो वा न भवेदिति सूत्रवार्तिकयोः तात्पर्यार्थः न त्वां तृणाय मन्ये। अत्र युष्मच्छब्दार्थः, तृणञ्च मन्यते कर्म। अनादरद्योतकं कर्म तृणमेव। अतः तृणादेव चतुर्थी, न तु युष्मच्छब्दात्। तृणसदृशोऽपि न तृणादप्यधमः इत्यर्थः। एवं न त्वां शुनं मन्ये इत्यादिः। शुनकसदृशोऽपि न शुनकादप्यधमः इत्यर्थः।

सम्बद्धाः लेखाः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कारकचतुर्थी&oldid=409139" इत्यस्माद् पुनः प्राप्तिः