कारकपञ्चमी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कारकपञ्चमी अथवा अपादान कारकस्य व्याख्यानः

वृक्षात् पर्णं पतति । ध्रुवमपायेऽपादानम् -१.४.२४ विश्लेषे साध्ये अवधिभूतं कारकम्, अपादानं स्यात् । विभागाश्रयोऽपादानमिति फलितार्थः । वृक्षात् पर्णं पतति । अत्र पतधातोरर्थः अधोदेशसंयोगरुपं फलं, तदनुकूलक्रिया च । पतनक्रियाश्रयः पर्णं कर्तृ । विभागाश्रयः वृक्षः । अतो वृक्षोऽपादानम् । अपादानभूतात् वृक्षात् पञ्चमी अपादाने पञ्चमी’ इति सूत्रेण । (सप्तमं (७) पृष्ठं पश्यन्तु ।) २. पापात् जुगुप्सते । अधर्माता विरमति । धर्मात् प्रमाद्यति । जुगुप्साविरामप्रमादार्थानामुपस्ंख्यानम् (वा) जुगुप्सा – विराम- प्रमादार्थकधातुभिः योगे, जुगुप्साविषयस्य, विरामविषयस्य, प्रमादविषयस्य च अपादानसंज्ञा भवति ।

  1. पापात् जुगुप्सते । अत्र जुगुप्सायाः विषयः पापम् । तस्य अपादानसंज्ञा प्रकृतवार्तिकेन । अपादानभूतात् पापात् पञ्चमी अपादाने पञ्चमीइति सूत्रेण । पापात् जुगुप्सते = पापविषये न रमते ।
  2. अधर्मात् विरमति । अत्र विरामस्य विषयोऽधर्मः । तस्य अपादानसंज्ञा भवति । अपादानभूतात् अधर्मात् पञ्चमी अपादाने पञ्चमी’ इति सूत्रेण । अधर्माद्विरमति =अधर्मविषये न प्रवर्तते इत्यर्थः ।
  3. धर्मात् प्रमाद्यति । प्रमादस्य विषयः धर्मः । तस्य अपादानसंज्ञा । अपादानभूतात् धर्मात्पञ्चमी अपादाने पञ्चमी’ इति सूत्रेण । धर्मात्प्रमाद्यति = धर्मविषये मुह्यति इत्यर्थः ।
  4. चोरात् बिभेति । व्याघ्रात् रक्षति । भीत्रार्थानां भयहेतुः (पा.सू. – १/४/२५) भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुः अपादानं स्यात् ।
  5. शिष्य उपाध्यायात् अधीते । आख्यातोपयोगे (पा.सू. – १/४/२९) नियमपूर्वविद्यास्वीकारे वक्ता आपदानं स्यात् । वक्ता = अध्यापयिता ।
  6. शिष्यः उपाध्यायात् अधीते । आखातोपयोगे (पा.सू. -१/४/२९) नियमपूर्वविद्यास्वीकारे वक्ता आपदानं स्यात् । वक्ता = अध्यापयिता ।
  7. शिष्यः उपाध्यायात् अधीते । नियमपूर्वकविद्यायाः स्वीकर्ता शिष्यः । अतः शिष्यः कर्ता । तस्य अध्यापयिता उपाध्यायः । अतः उपाध्यायः अपादानम् । उपाध्यायात् पञ्चमी । शिष्यः उपाध्यायादधीते = नियमविशेषपूर्वकम् उपाध्यायस्योच्चारणम् अनुच्चारयति इत्यर्थः ।
  8. तन्तुभ्यः पटो भवति । जनिकर्तृः प्रकृतिः (पा.सू.-१/४/३०) जायमानस्य हेतुः अपादानं स्यात् । तन्तुभ्यः पटो भवति । अत्र जायमानः पटः । तस्य हेतुः तन्तवः । अतः तन्तवः अपादानम् । ततो पञ्चमी । तन्तुभ्यः पटो भवति = तन्तुभ्यः पटो जायते इत्यर्थः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कारकपञ्चमी&oldid=409140" इत्यस्माद् पुनः प्राप्तिः