कारकषष्ठी
दिखावट
कृष्णस्य गमनम् । श्लोकस्य पाठकः । कर्तृकर्मणोः कृतिः (पा.सू. -२.३.६५) कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् ।
- साधु खलु ! पयसः पानं बालकेन । उभयप्राप्तौ कर्मणि(पा.सू.-२.३.६६) उभयोः प्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् । एकस्मिन् वाक्ये कृद्योगे उभयोः कतृकर्मणोः षष्ठी प्रसक्तौ कर्मणि एव षष्ठी स्यात् , नतु कर्तरि इति नियमार्थम् इदं सूत्रम् ।
- पयसः पानं बालकेन इत्यत्र पानमिति कृदन्तं (ल्युट्) पदम् । अत्र कर्तृकर्मणोः कृति (पा.सू.- २.३.६५ ) इति कर्मणः (पयसः) षष्ठी न तु कर्तुः (बालकेन) ।
शब्दानाम् अनुशासनम् आचार्यस्य /शब्दानाम् अनुशासनम् आचार्येण । शेषे विभाषा (वा.) अकप्रत्ययम् अकारप्रत्ययं च वर्जयित्वा अन्येषां कृदन्तानां योगे उभयप्राप्तौ कर्मणि (पा.सू.- २.३.६६) इति नियमःविकल्प्यते इति वार्तिकस्यार्थः । तथा च कर्तृकर्मणोः उभयोः उपादाने कर्मणि एव षष्ठी स्यात् कर्तरि विकल्पेन षष्ठी भवतीति पर्यवसन्नम् । कर्तरि षष्ठयां- ‘शब्दानाम् अनुशासनम् आचार्यस्य’ इति । कर्तरि षष्ठ्यभावे –‘शब्दानाम् अनुशासनम् आचार्येण’ इति । अनयोः वाक्ययोः शब्दः कर्म आचार्यः कर्ता इति ज्ञेयम् ।
- मम इष्टः । सर्वेषां ज्ञातः । क्तस्य च वर्तमाने (पा.सू.-२.३.६७) वर्तमानार्थस्य क्तस्य योगे षष्ठी स्यात् । क्तप्रत्ययः भूते (श्लोकः पठितः) वर्तमाने (सर्वेषाम् इष्टः) आदिकर्मणी (कटं कृतः) कालसामान्ये च (छात्रस्य हसितम्) विहितः । मतिबुध्दि पूजार्थेभ्यश्च (पा.सू. .- ३.२.१८८) इति सूत्रेण इच्छार्थे, बुध्द्यर्थे, पूजार्थे च वर्तमाने अपि क्तप्रत्ययः विहितः ।
- लोकहितं मम (मया) करणीयम् । मम (मया) हरिः सेव्यः । कृत्यानां कर्तरि वा(पा. सू.-२.३.७१)कृत्यप्रत्ययान्तानां योगे कर्तरि षष्ठी वा स्यात् । कृत्प्रत्ययेषु अर्न्तभूताः सप्त कृत्प्रत्ययाः (तव्य, तव्यत्, अनीयर्, यत्, क्यप्, व्यत् कैलिमर्) सन्ति । एतेषामपि कृत्संज्ञा अस्ति एव । अतः कर्तृ कर्मणोः इति षष्ठी कर्तुः नित्यं प्राप्ता, अनेन विकल्प्यते । षष्ठीपक्षे- लोकहितं मम करणीयम्, मम हरिः सेव्यः इति । षष्ठ्यभावपक्षे – कर्तृकरणयोस्तृतीया (पा.सू. २.३.१८) इति कर्तरि तृतीया भवति –लोकहितं मया करणीयम्’ मया हरिः सेव्यः इति ।