कार्त्तिकचतुर्थी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
करवा-चौत्-चन्द्रः.jpg
करवा-चौथ ( कार्तिकचतुर्थी )
के आचरन्ति विवाहितहिन्दु-सिख्-महिलाः
आरम्भः कार्तिकमासस्य कृष्णपक्षस्य चतुर्थीदिने
आचरणानि पूर्णदिनम्
रीतयः विवाहितमहिलाभिः उपवासाचरणम्
सम्बद्धम् विजयदशमी, दीपावली

 

उत्तरभारते “ करवा-चौथ “ इति प्रसिद्धं करकचतुर्थी ( कार्तिकचतुर्थी ) पर्व हिन्दूनाम्  एकं प्रमुखपर्वदिनम् । विशेषतः उत्तरभारते पञ्जाब, देहली, उत्तरप्रदेशः, हरियाणा, मध्यप्रदेशः तथा राजस्थानम् एतेषु राज्येषु महिलाभिः श्रद्धया आचर्यमाणं व्रतम् इदम् ।( आन्ध्रप्रदेशराज्ये एतं व्रतम् अट्लताड्डे इति नाम्नि आचरन्ति । परन्तु आचरणविधिः भिन्ना एव )

व्रतस्य विवरणम्[सम्पादयतु]

एतत् व्रतं कार्तिकमासस्य कृष्णपक्षस्य चतुर्थीदिने आचरन्ति महिलाः । गृहिण्यः (विवाहितमहिलाः ) पत्युः दीर्घायुष्यं स्वस्य अखण्डसौभाग्यं च कामयन्त्यः एतं व्रतम् आचरन्ति । कार्तिक-कृष्ण-चतुर्थ्यां प्रातः सूर्योदयात् पूर्वं चतुर्वादनादारभ्य रात्रौ चन्द्रदर्शनपर्यन्तं व्रताचरणं कुर्वन्ति सुमङ्गलाः महिलाः ।

ग्रामीणमहिलाः, आधुनिकनार्यः एवं सर्वाः महिलाः ’करवा चौथ’ व्रतं श्रद्धया उत्साहेन च आचरन्ति प्रतिवर्षम् । विविधमत-वर्ण-सम्प्रदायिनः सर्ववयस्काः च महिलाः एतं व्रतम् आचरन्ति । शास्त्रानुगुणं कार्तिकमासस्य कृष्णपक्षस्य चन्द्रोदयव्यापिन्यां चतुर्त्यां एषः व्रतः आचरणीयः । पत्युः कृते दीर्घायुष्यं स्वस्य कृते अखण्डसौभाग्यं च ददातु इति अस्मिन् दिने गृहिण्यः भालचन्द्रं गणेशं पूजयित्वा प्रार्थयन्ति । तथैव केषुचित् स्थानेषु ’चौथमातामन्दिरं( चतुर्थीमातुः मन्दिरम् ) गत्वा मातुः पूजाम् अपि कुर्वन्ति । सङ्कष्टहरचतुर्थीव्रतं यथा आचरन्ति तथैव व्रतधारिण्यः महिलाः करवा-चतुर्थीव्रतस्य दिने अपि  आदिनम् उपवासं कुर्वन्ति । रात्रौ चन्द्रदर्शनं कृत्वा चन्द्राय अर्घ्यं दत्त्वा अनन्तरमेव भोजनं कुर्वन्ति ।

एतं व्रतं द्वादशवर्षाणि ( १२ वर्षाणि ) अथवा षोढषवर्षाणि ( १६ वर्षाणि ) यावत् निरन्तरं प्रतिवर्षं कुर्वन्ति महिलाः । व्रतस्य अवधिपूर्तेः अनन्तरं व्रतस्य उद्यापनम् ( उपसंहारः ) क्रियते । याः सुनङ्गलाः महिलाः आजीवनम् एतं व्रतम् आचरितुमिच्छन्ति ताः आजीवनं व्रतम् आचरितुं शक्नुवन्ति । एतादृशं सौभाग्यदायकं व्रतम् अन्यत् किमपि नास्ति इति जनानां महती श्रद्धा । अतः सुमङ्गलाः महिलाः आजीवनं व्रताचरणं कर्तुम् इच्छन्ति ।

भारतदेशे अनेकेषु स्थानेषु चौथमातामन्दिराणि सन्ति । तेषु अतिप्राचीनम् अतिप्रसिद्धं च मन्दिरं राजस्थानराज्ये अस्ति । राजस्थानराज्यस्य  सवाईमाधोपुरजनपदे बरवाडा ग्रामे एतत् प्राचीनं मन्दिरं स्थितमस्ति । महाराजेन भीमसिंह-चौहानेन निर्मितस्य एतस्य मन्दिरस्य कारणतः बरवाडा ग्रामः “चौथ का बरवाडा” ( चतुर्थ्याः बरवाडा ) इति प्रसिद्धः जातः अस्ति ।

व्रताचरणविधिः[सम्पादयतु]

व्रतधारिण्यः वर्तुलाकारे उपविष्य पारम्परिकगीतानि गायन्ति ।
पूजायाः अनन्तरं सूर्याय अर्घ्यं ददाति ।
व्रतधारिण्यः वर्तुलाकारे उपविष्य पूजां कुर्वन्ति

करवा इत्युक्ते लघु मृत्तिकाघटः । महिलाः व्रताचरणदिनात् पञ्चदशदिनेभ्यः पूर्वमेव नूतनघटं क्रीत्वा प्रतस्य सज्जतायाः आरम्भं कुर्वन्ति । घटं क्रीत्वा वर्णलेपनम् कृत्वा सुन्दरैः चित्रैः अलङ्कुर्वन्ति । अलङ्कृते घटे कङ्कणानि, वर्णमयपट्टिकाः, गृहे निर्मितानि मधुराणि, अलङ्कारवस्तूनि लघुवस्त्रं च पूरयन्ति । पूजास्थालिकाः अलङ्कृत्य पूजावस्तूनि उपायनवस्तूनि च पूरयित्वा सज्जीकुर्वन्ति । चतुर्थीदिने प्रातः काले सूर्योदयात् पूर्वं स्नात्वा पत्युः दीर्घायुष्यार्थम् आखण्डसौभाग्यसिध्यर्थम् उपवाससहितस्य व्रताचरणस्य सङ्कल्पं कुर्वन्ति । मृत्तिकापीठं विरचय्य अलङ्कृते तस्मिन् पीठे शिव-पार्वति-गणेशः एतेषां प्रतिष्ठापनं कृत्वा पूजनं कुर्वन्ति । कुत्रचित् मृत्तिका-गोमययोः मिश्रणेन निर्मितं “गौरमातुः” मूर्तिं पूजयन्ति ।

अनन्तरं सालङ्कृताः वधूवस्त्रधारिण्यः व्रतधारिण्यः वर्तुलाकारे उपविष्य पारम्परिकगीतानि गायन्ति । गायनसमये स्वने अलङ्कृतानां उपायनस्थालिकानां परस्परम् आदानप्रदानं कुर्वन्ति । पर्वदिने सायङ्काले महिलाः बन्धुजनानां मित्राणां च गृहाणि गत्वा शुभाशयम् उक्त्वा घटानां (करवा ) विनिमयं कुर्वन्ति। रात्रौ चन्द्रोदयानन्तरं चन्द्रदर्शनं कृत्वा तण्डुलपिष्टेन निर्मितं चन्द्रबिम्बं समर्च्य अर्घ्यप्रदानं कुर्वन्ति । अनन्तरं पतिः पत्न्याः कृते जलं पाययति । एवम् उपवासपरिसमाप्तेः अनन्तरं गृहजनैः सह मिलित्वा भोजनं कुर्वन्ति ।

एतस्य व्रतस्य माहात्म्यम् अधिकृत्य अनेकाः कथाः सन्ति जनेषु । कथाः किं वा वदन्तु वृतकर्त्रीणां सङ्ख्या तथैव श्रद्धा च शुक्लपक्षस्य चन्द्रः इव वर्धमाना एव अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=कार्त्तिकचतुर्थी&oldid=456866" इत्यस्माद् प्रतिप्राप्तम्