सामग्री पर जाएँ

कार्यकरणकर्तृत्वे...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः

[सम्पादयतु]
गीतोपदेशः
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य विंशतितमः(२०) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

कार्यकरणकर्तृत्वे हेतुः प्रकृतिः उच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः उच्यते ॥ २० ॥

अन्वयः

[सम्पादयतु]

कार्यकरणकर्तृत्वे प्रकृतिः हेतुः उच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः उच्यते ।

शब्दार्थः

[सम्पादयतु]
कार्यकारणकर्तृत्वे = देहेन्द्रियकर्तृत्वे
प्रकृतिः = प्रधानम्
हेतुः = कारणम्
पुरुषः = जीवः
सुखदुःखानाम् = सुखादिगुणानाम्
भोक्तृत्वे = अनुभवे ।

इयं प्रकृतिः कार्यरूपस्य शरीरस्य कारणभूतस्य च इन्द्रियस्य तदाकारेण परिणामे हेतुः भवति । यद्यपि प्रकृतिः जडा इति हेतोः तस्यां हेतुत्वं न सम्भवति जडस्य क्रियाजनकत्वाभावात् तथापि पुरुषस्य सन्निधानात् जडेऽपि पदार्थे क्रियाजनकत्वं सम्भवतीति नास्ति असतिः । पुरुषः प्रकृतिजन्यानां सुखदुःखादीनां गुणानां भोक्तृत्वे हेतुः । यद्यपि अयम् असः निर्लेपश्च तथापि प्रकृतिसन्निधानात् इदं भोक्तृत्वं सम्भवतीति बोद्धव्यम् ।


सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कार्यकरणकर्तृत्वे...&oldid=418523" इत्यस्माद् प्रतिप्राप्तम्