काव्यालङ्कारः(रुद्रटविरचितः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नेविगेशन पर जाएँ खोज पर जाएँ

काव्यालङ्कारः (Kavyalankara) इति ग्रन्थः रुद्रटेन लिखितः । अस्मिन् ग्रन्थे १६ अध्यायाः सन्ति । सर्वाः अपि कारिकाः आर्याछन्दसि वर्तन्ते । उदाहरणानि सर्वाणि स्वेनैव लिखितानि । शैली अतीव सरला मनोरञ्जिका च वर्तते ।

विषयवस्तु[सम्पादयतु]

रुद्रटस्य काव्यालङ्कारे षोडशाध्यायाः । प्रत्यध्याये प्रकरणान्यपि षोडशैव । ग्रन्थस्यास्य नाम काव्यालङ्कारः। सम्बन्धश्चास्य काव्यस्वरूपविवेचना । प्रयोजनञ्चास्य कविशिक्षा । काव्यस्य प्रयोजनं यशः । ततश्च -

अर्थमनर्थोपशमं शमसममथवी मतं यदेवास्य।

विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः।।[१]

काव्यस्य हेतुः शक्तिर्व्युत्पत्तिरभ्यासश्च । तत्र -

मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽभिधेयस्य।

अक्लिष्टानि पदानि च विभान्ति यस्यामसौ ज्ञक्तिः।।

सा द्विविधा सहजोत्पाद्या च । तत्र सहजा प्रतिभाऽऽख्या । उत्पाद्योपार्जनीया । एवमेव -

छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात् ।

युक्तायुक्तिविवेको व्युत्पत्तिरियं समासेन॥[२]

सुजनसङ्गाज्ज्ञानोपार्जनमभ्यासः।

शब्दार्थौ काव्यम् । अर्थवद्वर्णसमुदायः शब्दः। स च नमाख्यातोपसर्गनिपातकर्मप्रवचनीयभेदेन पञ्चविधः । मेधाविरुद्रेण तु चत्वार एवोक्तास्तेन कर्मप्रवचनीयो नोक्तः । नाम्ना द्वेधा वृत्तिः समासासमासभेदेन । समासवत्या वृत्तेस्तिस्रो रीतयः पाञ्चाली लाटीया गौडीया च क्रमेण लघुमध्यायतविरचनसमासा। द्वित्रिपदा पाञ्चाली, पञ्च सप्त वा लाटीया, यथाशक्तिसमासा गौडीया। असमासा तु वैदर्भी । पञ्चविधस्य शब्दस्य वाक्ये उपयोगः परस्परं सव्यपेक्षवृत्तीनामेकपराणां शब्दानामनाकाङ्क्षः समुदायो वाक्यम् । अन्यूनाधिकवाचकसुक्रमपुष्टार्थशब्दचारुपदं क्षोभक्षममधूणं वाक्यं प्रयुञ्जीत । वाक्यं द्वेधा भवति गद्यं छन्दोगतञ्च, भाषाभेदात् षोढा, ताश्च प्राकृत-संस्कृत-मागध-पिशाच-सूरसेनी-अपभ्रंशाः । वक्रोक्त्यनुप्रासयमकश्लेषचित्राणि शब्दालङ्काराः। मधुरा प्रौढा परुषा ललिता भद्रेति पञ्च वृत्तयः ।

असमर्थमप्रतीतं विसन्धि विपरीतकल्पनं ग्राम्यम् अव्युत्पत्तिदेश्यं च पदं दुष्टं भवेत् । अर्थः पुनरभिधावान् प्रवर्तते यस्य वाचकः शब्दः । तस्य च द्रव्यं गुणः जातिः क्रियेति भेदाः । मूर्तिमद् द्रव्यम् । द्रव्यादपृथग्भूतो द्रव्यसमवायी गुणः। स च सहज-आहार्य-आवस्थिकभेदात् त्रिविधः, नित्यं क्रियाऽनमेधा द्रव्यविकारेण भवति धात्वर्थः । करकसाध्या द्वेधा सकर्मिकाकर्मिका चेति । भिन्नक्रियागुणेष्वपि बहुषु द्रव्येषु चित्रगात्रेषु एकाकारा बुद्धिर्भवति यतः सा भवेज्जातिः । वास्तवमौपम्यमेतिशयः श्लेषश्चार्थालङ्काराः । वस्तुस्वरूपमात्रकथनं वास्तवम् । तस्य सहोक्ति-समुचय-जाति-यथासङ्ख्य-भाव-पर्याय-विषम-अनुमान-दीपक-परिकर-परिवृत्ति-परिसङ्ख्या-हेतु-कारणमाला-व्यतिरेक-अन्योन्य-उत्तर-सार-सूक्ष्म-लेश-अवसर-मिलित-एकावल्यश्च भेदाः ।

समानमिति वस्त्वन्तराभिधानमौपम्यम् । तस्योपमोत्प्रेक्षादयो भेदाः । ते चोपमोत्प्रेक्षा-रूपकापह्नुति-संशय-समासोक्तिमतोत्तरान्योक्तिप्रतीयार्थान्तर-न्यासोभयन्यास-भ्रान्ति-मदाक्षेप-प्रत्यनीक-दृष्टान्तपूर्वसहोक्ति-समुच्चय-साम्यस्मरणानीति एकविंशतिः । यत्रार्थधर्मनियमः प्रसिद्धबाधाद्विपर्ययं याति । कश्चित्क्वचित् स्यादतिलोकमतिशयस्तस्य। तस्य च पूर्वविशेषोत्प्रेक्षाविभावना-तद्गुणाधिकविरोध-विषयासङ्गति-पिहित-व्याघातहेतवो भेदाः । यत्रैकार्थमनेकार्थैर्वाक्यं रचितं पदैरनेकस्मिन् । अर्थे कुरुते निश्चयमर्थश्लेषः स विज्ञेयः । तस्य चाविशेषविरोधाधिकवक्रव्याजोक्त्यवयवाः। अर्थस्य दोषास्तु -

'अपहेतुरप्रतीतो निरागमो वाऽथ यन्न सम्बद्धः।

ग्राम्यो विरसस्तद्वानतिमात्रश्चेति दुष्टोऽर्थः॥'

काव्याद्धि सरसानां चतुर्वर्गे सुखेनावगमः । तेन तत्सरसं स्यात् । नीरसे हि न कस्यचिदपि प्रवृत्तिः। रसाश्च काव्ये शृङ्गार-वीर-करुण-बीभत्स-भयानक-अद्भुत-हास्य-रौद्र-शान्त-प्रेयाः इति दश ।

रसनाद्रसत्वमेषा मधुरादीनामिवोक्तमाचार्यैः।

निर्वेदादिष्वपि तन्निकाममस्तीति तेऽपि रसाः।।

स्नेहप्रकृतिः प्रेयान् सङ्गतशीलार्यनायको भवति । इति ।

कथा हि द्विविधा उत्पाद्याऽनुत्पाद्या च । ते हि महान्तो येषु चतुर्वर्गः, चतुर्वर्गेष्वन्यतमो येषु ते लघवः । कथायां शास्त्रलोकमर्यादा नोल्लङ्घनीया ।

व्याख्याः[सम्पादयतु]

काव्यशास्त्रस्य विशदरूपेण विवेचकः शास्त्रग्रन्थोऽयं नमिसाधुना ११२५ मितवैक्रमाब्दे व्याख्यातोऽस्ति । तत्पूर्वमपि ग्रन्थस्यास्य वृत्तिग्रन्थः प्रणीत आसीदिति नमिसाधोरेव -

पूर्वमहामतिविरचितवृत्यनुसारेण किमपि रचयामि।

सङ्क्षिप्ततरं रुद्रटकाव्यालङ्कारटिप्पणकम्।।[३]

इति वचनाज्ज्ञायते । स च वृत्तिकृन्महामतिः सम्भवति रुद्रट एव स्यादिति। काव्यालङ्कारस्य काश्मीरकेण वल्लभदेवेन टीकाग्रन्थः प्रणीतः आसीदिति मन्यते। सम्भवति नमिसाधुनाऽस्यैव संक्षिप्तं रूपं प्रस्तुतं स्यात् । काव्यालङ्कारग्रन्थस्य व्याख्यानं वल्लभधरः आशाधरः च लिखितवन्तौ स्तः ।

सम्बद्धाः लेखाः[सम्पादयतु]

  1. १/८
  2. १।१८
  3. Samskrit Kavicharitre of T.G. Kale, p. ५६