काशिकायाः व्याख्याकाराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

काशिकायाः व्याख्याकाराः अनेके सन्ति। काशिकावृत्युपरि जिनेन्द्रबुद्धि-इन्दुमित्र महान्यासकार - विद्यासागर-हरदत्त' रामदेव-वृत्तिरत्नकारप्रभृतिमिर्याख्याग्रन्थाःप्रणीताः सन्तीति सम्बद्धग्रन्थेभ्यो।

जिनेन्द्रबुद्धिः काशिकायाः समुपलब्धेषु ज्ञातेषु वा व्याख्याग्रन्थेषु बोधिसत्वदेशीयस्य जितेन्द्रबुद्धेः न्यासो नाम प्राचीनतमः । जितेन्दबुद्धिना हि स्वविषये न किञ्चिद-, प्युक्तम् । तं हि वैक्रमद्वादशशतकपूर्वं भवो हरदत्तः पदमञ्जर्या स्मरतीतिः तस्येयमेवापरा' सीमा । तं हि कैयटः केचिदितिपदेनोद्धरतीति तस्य कैयटपूर्ववतित्वम् । याकोवी पण्डितस्तु हरदत्तः भविष्यत्पुराणाधारेण ९३५ मितवैक्रमाब्दे निर्वाणभाप्तमानिति सूचयति । हरदत्तस्तमुद्धरतीति तस्य वैक्रमनवमशतकपूर्वार्द्धमभिंतः स्थितिकाल इत्यनुमीयते । हेतुविन्दुटीकाकृतः अर्चटस्य ‘यदा ह्याचार्यस्याप्येतदभिमतमिति कैश्चिद्व्याख्यायते' इति कथनस्य व्याख्याया दुर्वेकमिश्र उल्लिखति ‘कैश्चिदिति ईश्वरसेनजिनेन्द्रप्रभृतिभिरिति । अर्चटस्तु बैक्रमसप्तमशतकभव इति तत्पूर्वीर्वात जिनेन्द्रबुद्धिरवश्यमेव सप्तमशतकभवस्तु स्यादेव। न्याससम्पादकः श्रीश चन्द्रस्तु ते ७०७-८०२ मितवैक्रमाब्दभवं सन्यते। केचित्तं माघः शिशुषलवधे -

अनुत्सूत्रपदन्यासा सवृत्तिः सन्निबन्धना।

शब्दविद्येव नो भाति राजनीतिरपस्पशाः ।।[१] इति

पद्ये स्मरति इति तस्य माघस्य पूर्ववतित्वं साधयितुं प्रयतन्ते । तथैव भामहस्य -

शिष्टप्रयोगमात्रण न्यासकारमतेन वा ।

तृचा समस्तषष्ठीकं न कथञ्चिदुदाहरेत् ।।

सूत्रव्यापकमात्रेण वृत्तहन्ता यथोदितः ।

अकेन च न कुर्वति वृत्तिस्तद्गमकौ यथा ।।

इत्यत्र स एवोल्लिखित इति तं भामहपूर्ववतिनं मन्यते । वस्तुतस्तु उभयत्र तेषां भ्रम एव । एकतस्तु न्यासे जनिकर्तुः प्रकृतिरित्यस्य ज्ञापकात् वृत्तहन्तृपदे. समासस्य विधानं नैव कृतम्, अपरञ्च प्राचीनकाले न्याससंज्ञका अनेके ग्रन्था आसन् । भर्तृहरिरपि महाभाष्यदीपिकायां कञ्चिन्न्यासमुद्धरति । तथैव वामनस्य विश्रान्तविद्याधरोपर्यपि मल्लवादिसूरिणा कश्चिन्न्याससंज्ञको ग्रन्थः प्रणीत आसीदिति ज्ञायते । देवनन्दिनाऽपि पाणिनीयाष्टकोपरि ‘शब्दावतार' नामकोः न्यासः प्रणीत आसीत् । शिशुपालवधकर्ता माघः काव्यालङ्कारकर्ता भामह कतमं न्यासं स्मरत इति नैवानिणतम् । एतावदेव स्पष्टं यत्ताभ्यां स्मृतों, न्यासो नैव जिनेन्द्रबुद्धेरिति तयोस्तस्मात् पूर्वकालिकत्वात् ।

न्यासोपरि मैत्रेयरक्षित-रत्नमति-मल्लिनाथ-नरपतिमहामिश्र-पुण्डरीकाक्षविद्यासागरप्रभृतिभिर्व्याख्याग्रन्थाः प्रणीताः सन्ति। तत्र मैत्र यंरक्षितस्य तन्त्रप्रदीपनाम्नी न्वासस्य व्याख्या सर्वातिशायिनी । स हि ११४०-११६५ मितवैक्रमाब्दानभितः स्थितिमान् । तन्त्रप्रदीपस्य । नन्दनमिश्र-सनातनतर्काचार्य तन्त्रप्रदीपालोककाराश्च व्याख्यातारः । तत्र च नन्दनमिश्रस्य तन्त्रप्रदीपोदद्योतनं, सनातनस्य प्रभा अपरा च आलोकनाम्नी व्याख्या ।

रत्नमतिनाऽपि न्यासोपरि कश्चिद्व्याख्याग्रन्थः प्रणीत आसीदिति न तु । संशयंवति पुरुष इति न्यासः। अतः सप्तभ्यर्थे बहुव्रीहिः संशयकर्तरि पुरुष एवेति तद्रत्नमतिः । इति सर्वानन्देन अमरेटीकासर्वस्वे (३।१५) कृतादुद्धरणा। जुज्ञायते । गणरत्नमहोदधिकारश्च वर्धमानः ‘रत्नमतिना तु हरितादयो गण। समाप्ति यावदिति व्याख्यातम्' इत्युद्धरति । । मल्लित्रथेनापि न्यासोपरि न्यासोद्योतनाम्नी व्याख्या प्रणीताऽऽसीत् ।। से हि वैक्रमत्रयोदशशतकोद्भव इत्यनुमीयते । न्यासोद्द्योतं हि अमरचन्द्रे. । वृद्धवृत्यवचूण ‘उक्तञ्च न्यासोद्योते-न केवल श्रूयमाणैव क्रिया निमित्तं कारकभावस्य, अपितु गम्यमानाऽपि' इति स्मरति । चूर्णश्च १२६४ मितवैक्रमान्दमभितः प्रणीताऽऽसीदिति प्रसिद्धमेव ।

नरपतिमहामिश्रेणाऽपि न्यासोपरि न्यायप्रकाशनामकः क्रश्चिद् व्याख्याग्रन्थः प्रणीत आसीदिति युधिष्ठिरमीमांसकः सूचयति । सह्मस्माकं प्रमाणिक आचार्यः । न्यासप्रकाशस्यायं द्वितीयः श्लोकः -

शिवं प्रणम्य देवेशं तथा शिवपति शिवाम् ।

प्रकाशः क्रियते न्यासे महामिश्रेण धीमता।। इति ।

महामिश्रो हि १४५६-१५०६ मितवैक्रमाब्दानभितः स्थितिमानित्युच्यते। एवञ्च वैक्रमपञ्चदशशतकस्थितिमता पुण्डरीकाक्षविद्यासागरेणाऽपि न्यासोपरि टीका प्रणीताऽऽमीदिति तस्यैब कातन्त्रप्रदीपाख्यायां कातन्त्रटीकायां -

तच्चिन्त्यमिति न्यासटीकायां प्रपञ्चितमस्माभिः । इति वचनेन ज्ञायते ।

इन्दुमित्रः[सम्पादयतु]

इन्दुमित्राख्येन विपश्चिताऽपि काशिकोपरि कश्चिद् ‘अनुन्थास' संज्ञको व्याख्याग्रन्थः प्रणीत आसीदिति ग्रन्थान्तरतो ज्ञायते । अनुन्यास हि माधवीयधातुवृत्तौ सायणेन, उणादिवृत्तावुज्ज्वलदेवेन, परिभाषावृत्तौ सीरदेवेन, दुर्धटवृत्तौ च स्मर्यते । तत्र यथा सीरदेवः -

'यत्तु तत्र स्वमतिमहिमप्रागल्भ्यादनुन्यासकारो व्याजहार यत्र सामर्थ्यप्रासमुभयोरुपादानं स उभयप्राप्तौ कर्मणीतस्यं विषयः••••••••तदर्युक्तम्:::::::: इति । पुनश्च -

एतस्मिन् वाक्ये इन्दुमैत्रेययोः शाश्वतिको विरोधः । इति

उपदेशग्रहणानुवर्तनं प्रति रक्षितानुन्यासयोविवादः एव ॥ इति ।

इन्दुमित्रस्य कालश्च ८५० मितवैक्रमाब्दमभित आपततीति । अनुन्यासोपरिश्रीमानशर्मणा अनुन्याससारनाम्नी व्याख्या प्रणीतेति-

अनुन्यासादिसारस्य कर्ता श्रीमानशर्मणा ।

श्रीलक्ष्मीपतिपुत्र ण विजयेयं विनिर्मिता ।।

इति सीरदेवीयपरिभाषावृत्तेविजयाऽऽख्यायां व्याख्यायां तस्यैव वचनाज्ज्ञोयते । श्रीमानशर्मा हिँ १५००-१५५० मितवैक्रमाब्दमभितः स्थितिमानित्यनुमीयते ।

महान्यासकारः[सम्पादयतु]

केनापि वैयाकरणेन काशिकोपरि महान्यासनामको व्याख्याग्रन्थः प्राणा यीति उज्ज्वलदत्तेन उणादिवृत्तौ कृतेनोद्धरणेने ज्ञायते । उज्ज्वलदत्तः स्मरति-

टित्वमभ्युपगम्य गौणादित्वात् सूचीति महान्यासे ।

'एवमेव सर्वानन्दकृतामरटीकासंर्वस्वे-

वह्नतेर्धन् ततष्ठन् इति महान्यासः।

चुल्लीति महान्यास इत्युपाध्यायसर्वस्वम् ।

महान्यासकर्तुं विषये वर्यमनभिज्ञा एवं ।

विद्यासागरमुनिः[सम्पादयतु]

विद्यासागरमुनिना काशिकोपरि ‘प्रक्रियामञ्जरी' नामको व्याख्याग्रन्थः , प्रणीत आसीदिति युधिष्ठिरः सूचयति । स हि श्वेतगिरिविदुषः शिष्यो हरदत्तपूर्ववर्ती । एतदधिकं नैव ज्ञातमस्माकं तद्विषये ।

हरदत्तः[सम्पादयतु]

मुख्यलेखः : हरदत्तः

महावैयाकरणेन हरदत्तेनापि काशिकोपरि पदमञ्जरीनाम्नी व्याख्याकृताऽस्ति । तस्य हि पिता पद्मकुमार माता श्रीः ज्येष्ठो भ्राता अग्निकुमाराख्यः गुरुश्व अपराजित इति । स हि द्राविडवा आन्ध्राभिजनः । स हि आन्ध्रबुजातो द्रविडेषु नीतयौवनो वार्धक्ये चोलदेशीय इति कथ्यते । हरदत्तं हि रूपावतारे धर्मकीर्ति स्मरति इति तस्य तत्प्राक्कालवतत्वम् । भैत्रेयरक्षितादवकालिक एव । तेन हि तस्य काल: १११५ मितवैक्रमाव्दमभित इत्यनुमीयते । पदमञ्जर्यतिरिक्तमपि महापदमञ्जरी, परिभाषाप्रकरणं, अष्टाधिका धर्मशास्त्रग्रत्याश्च तत्कतु त्वेन प्रसिद्धाः । पदमञ्जरी हि अनेकविपश्चिद्भिर्याख्याता । तेषु रङ्गनाथयज्वा (वि० १६४५), शिवभट्टश्च प्रसिद्धौ ।

रामदेवमिश्रः[सम्पादयतु]

रामदेवमिश्रेणापि काशिकोपरि वृत्तिप्रदीपनाम्नी टीका कृताऽस्ति । स हि सायणपूर्ववर्ती यतः सायणस्तदीयग्रन्थमुद्धरति माधवीयधातुवृत्तौ, हरदेवपरवर्ती-हरदत्तानुवादी राममिश्रोऽपि 'इति सायणवचनात् ।। । एवमेव अज्ञातकर्तृको वृत्तिरत्नाकरः अज्ञातक कैव चिकित्साख्या च काशिकाया वृत्तिग्रन्थौ स्त इति युधिष्ठिरः महाभागः सूचयति ।

भतृहरिः[सम्पादयतु]

मुख्यलेखः : भर्तृहरिः

अष्टाध्याय्य वृत्तिषु काशिकान्तरं भागवृत्तेरेव महत्वपूर्ण स्थानम् । सृष्टिबराचार्यानुसारेण भागबृत्तेः प्रणेता भर्तृहरिनामको विचक्षणः । यथाऽऽह स -

‘भागवृत्तिभंतृहरिणा श्रीधरसेननरेन्द्रादिष्टा विरचिता' इति ।

श्रपत्तिदत्तस्तु - ‘तथा च भागवृत्ति कृता विमलमतिनाऽप्येवं निपातितः इति भागवृत्तेः विमलमतिकृतत्वं ख्यापयति । तत्र युधिष्ठिरः महाभागो भर्तृहरि इति पदमौपाधिकं मत्वा विमलमतिमेव भागबृत्तिकर्तारं मन्यते । संहि यथा कविषु कालिदास' इत्यैपाधिकसंज्ञा प्रचलिता तथैव वैयाकरणेषु भर्तृहरि इत्यौपाधिकसंज्ञा इति मन्यते । वयन्तु विमलमतिना भर्तृहरिणा इत्यस्य सिद्धिः भट्टाचार्यस्तु इन्दुसंज्ञकं कञ्चिद्भागवृत्तिप्रणेतारं मन्यते । कालनिर्णयप्रकरणेतु : युधिष्ठिर महाभागोऽपि सृष्टिधरमतमेव समर्थयति ।

भागवृत्तिः काशिकां स्थाने स्थाने समालोचयति तेन सा काशिका यो उत्तरवतिनेव । काशिकाया प्रणयनञ्च ६५०-७०० वैक्रमाब्दानभितसम्पन्नमासीत् । वलभ्यां हि चत्वारः श्रीधरसेनाख्या नृपा बभूवुः । तेषु प्रथमे त्रयो हि ७०० मितवैक्रमाब्दपूर्ववतनश्चतुर्थस्तु ७०२--७०५ मितवैक्रमाब्देषु राज्यं बुभुजे । किञ्च भागवृत्तिः काशिकोत्तरवर्तनी अतोऽस्या निर्माणाञ्चतुर्थश्रीधरसेनाज्ञया सज्जातमिति युधिष्ठिरमीमांसक्मतम् । वयमपि ' एतदेव स्वीकुर्मस्तत्वनैकट्यात् ।

यच्च न्याससम्पादको भागवृत्तेः प्रणयनकालत्वेन ६८२ मितवैक्रमाब्दे स्वीकरोति तदस्माक मतेऽपि चिन्त्यमेव । तथा हि सति भागवृत्तेः काशिकापूर्ववर्तत्वं सम्पद्यते किन्तु भागवृत्त काशिकाया मतस्य खण्डनान्न तत्सिध्यति यच्च काश्चिद् भागवृत्तेः प्रणयनं नवमशताब्द्यां मन्यते तत्तु नितान्तमेव चिन्त्यम् । तथा हि सति तद्विवेचकानां सर्वेषामेव स्थितिकालविपर्ययात् ।

भागवृत्तिग्रन्थस्तु सम्प्रति नैवोपलभ्यते किन्तु तदुद्धरणन्तु युधिष्ठिरमहाभागसंकेतानुसारः सप्तत्रिशद्ग्रन्थेषुपलम्यते । तदत्रधारकेषु कैयट-हरदत्त-पुरुषोत्तमदेव-शरणदेव-सीरदेव-श्वेतवनवासि-उज्ज्वलदत्त-सायण-भट्ठोजि,नागेश-श्रीपतिं : केशव-सर्वानन्द-दुवैकमिश्र-जगदीश-मैत्रेयरक्षित-सृष्टिधराचार्या-उल्लेखनीयाः ।

भागवृत्तेः ये ये खल्वंषा ग्रन्थान्तरेषु समुद्धृतास्तेषां सङ्कलनं कृत्वा ‘भागबृत्तिसङ्कलननाम्ना लघुग्रन्थो युधिष्ठिरमीमांसकप्रयासेन प्रकाशितोऽस्ति । भागवृत्युपरि श्रधराचार्येण व्याख्याग्रन्थः प्रणीत आसीदिति । भागवृत्तौ तु सीकृसेकृ इत्यधिकं पठ्यते । तच्च ‘सीक सेचने' इति श्रीधरो । व्याकरोत् । एतानष्टौ वर्जयित्वा इति चाधिक्यमेवमुक्तकण्ठमुक्तवान् ।” इति देवस्य पुरुषकारव्याख्यायां कृष्णलीलांशुकमुनिना स्मृतत्वाज्ञायते । धातुवृत्तावयं श्रीकरनाम्ना श्रीकार नाम्नाऽपि स्मृतः । सम्भवति श्रीधरस्य श्रीकरो का श्रीकरस्यः श्रीधरोऽप्यपाठ इंति युधिष्ठिरमतम् ।

भर्त्रीश्वरः[सम्पादयतु]

भर्त्रीश्वराख्येन विपाश्चिताऽपि पाणिनीयव्याकरणोपरि वृत्तिग्रन्थः प्रणीत आसीदिति गणतन्त्रमहोदधिकारस्य वर्धमानस्य--

भर्नीश्वरेणापि वारणार्थानामित्यत्र (प्रेमन्-शब्दः) पुल्लिङ्ग एवं प्रयुक्तः इति वचनाज्ज्ञायते । तस्य च स्थितिकालः -

तथा चाहुर्भश्वरादयः किं हि नित्यं प्रमाणं दृष्टं प्रत्यक्षादि

वायदनित्यं तस्य प्रामाण्ये कस्य विप्रतिपत्तिः इति ।।

मीमांसाश्लोकवार्तिकस्य व्याख्यायां भट्टोम्बेकवचनात्तस्योम्बेकपूर्ववर्तत्वं : सिध्यति । युधिष्ठिरो मीमांसको हि । उम्बेकभवभूत्योरैक्यं मत्वा भर्नीश्वरं ७८०. भितवैक्रमाब्दपूर्ववर्तिनं मन्यते । तदनुसारेण भवभूतिरेव मीमांसाक्षेत्रे । उम्बेकनाम्ना ख्यातः । श्लोकवातकटीकाया मालतीमाधवस्य च प्रारम्भे ये नाम केचिदिह न प्रथयन्त्यवज्ञां इत्यादि पंद्यस्योपलब्धिरेव तथाचिन्तने हेतुः। अपरञ्च, मालतीमाधवे उत्तररामचरिते च भवभूतिरात्मानं पदवाक्यप्रमाण कथयति । तत्र पदं नाम व्याकरणं, वाक्यं नाम मीमांसाशास्त्रं प्रमाणं नाम: न्यायशास्त्रम् । अनेन च तस्य . व्याकरणज्ञत्वं सिध्यति । तथैव शरणदेवो हि दुर्घटवृत्तौ ‘ज्योतिष शास्त्रम्' इत्यत्र ज्योतिषशब्दे अण्प्रत्ययत्वेन णित्वेऽपि कथमादिवृध्यभाव इत्यपेक्षायाम् ‘उच्यते--

संज्ञापूर्वकानित्यत्वादिति भवभूति' इति[२] वचनाच्च भवभूतेरपि व्याकरण कर्तृकत्वं सिध्यति इति ।

जयन्तभट्टः[सम्पादयतु]

न्यायमञ्जरीकारो जरनैयायिकत्वेन श्रद्धितो जयन्तभट्टोऽपि पाणिनीय व्याकरणे वृत्तिग्रन्थ प्रणीतवानिति स एव तस्यैव अभिनवागमोडम्बररूपकस्योपोद्धाते - "अत्रभवतः शैशव एव व्याकरणविवरणकरणाद् वृत्तिकार इति प्रथितापरनाम्नो भट्टजयन्तस्य कृतिरभिनवागमोडम्बरनाम किमपि रूपकभ इति कथनेनोद्घोषयति । जंयन्तस्य पिता चन्द्राभिध आसीत् । जयन्तो हि वैक्रमनवमशतकस्थितिमानिति तस्य प्रापितामहस्य शक्तिस्वामिनः काश्मीरनरेशस्य मुक्तापीडस्यामात्यत्वेन सिध्यति । स हि भूपालो वैक्रमाष्टकशतकभवं इति । ऐतिहासिकाः कथयन्ति । न्यायभञ्जरी-न्यायकलिका–पल्लवाद्यास्तस्य वृत्तीतरस्ग्रन्थाः ।

श्रुतपालः[सम्पादयतु]

श्रुतपालाख्येन विपश्चिताऽपि पाणिनीयसूत्रोपरि वृत्तिग्रन्थप्रणीत आसीदिति भापावृत्तौ, ललितपरिभाषायां कातन्त्रवृत्तिटीकायां पाल्यकीर्तेरमोधावृत्तौ च तस्य व्याकरणविषयका नैकमतोद्धरणाज्ज्ञायते । तेषु हि अमोधावृत्तिः प्राचीनतमा । तस्याश्च प्रणयनकालः ८७१-८२४ वैक्रमाब्दमभितः इति श्रुतपालस्य वैक्रमनबमशतकपूर्वं भवत्वं सिध्यति ।

केशवः[सम्पादयतु]

केशवाख्येन केनचिद्विदुषाऽपि पाणिनीयसूत्रोपरि वृत्तिग्रन्थः प्रणीत आसी. दिति भाषावृत्तौ तदुद्धरणतो ज्ञायते । यथोक्त भाषावृत्तौ -

‘पृषोदरादित्वादिकारलोपे एकदेशविकारद्वारेण पर्षच्छब्दादपि वर्वाजति केशवः ।"[३]

'केशववृत्तौ तु विकल्प उक्तः । हे प्रान् हे प्राण वा ।'[४]

भाषावृत्तैव्यख्याता सृष्टिधराचार्यः केशेववृत्तिगतं पद्यमेकमुद्धरति यथा -

अपास्पाः पदमध्येऽपि न चैवास्मिन् नापु रविः ।

तस्माद्रोरीति सूत्रेऽस्सिन् पदस्येतिं न बध्यते ।।

एवमेव तन्त्रप्रदीपे[५] [६] केशवर्मतमुध्दृतमस्ति मैत्रेयरक्षितश्च तस्य नाम गृह्णाति । आचायोऽयं मैत्रेयरक्षितात्प्राचीन इति तस्य ११६५ मितवैक्रमाब्दपूर्ववतित्वं सिध्यति । सच वङ्गदेशीयः प्रायशो वङ्गीयवैयाकरणैः स्मृतत्वादिति दुर्बलस्तर्कः ।

सम्बद्धग्रन्थः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. २॥१२
  2. ७/२/११७
  3. ५।२।११२
  4. ८।४।२०
  5. ९।२।६
  6. १।४।५५