कीलोत्पाटिवानरस्य कथा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कीलोत्पाटिवानरस्य कथा
कीलोत्पाटयन् वानरः
कथोपस्थापकः करकटाख्यः शृगालः
कं कथयति? दमनकम्
तन्त्रम् मित्रभेदः
पात्राणि
  • वानरदलम्
  • प्रत्यासन्नमृत्युः वानरः

कीलोत्पाटिवानरस्य कथा पञ्चतन्त्रस्य मित्रभेदाख्ये तत्रे प्रप्रथमा कथा वर्तते। पञ्चतन्त्रस्य कथायाः अनुसारम् एतां कथां करकटाख्यः शृगालः स्वस्य भ्रातरं दमनकं कथयति। एतस्यां कथायां वानरस्य मृत्योः कारणं मुख्यांशः वर्तते।

प्रसङ्गः[सम्पादयतु]

वर्धमान-नामकस्य वणिजः सञ्जीवकाख्यः यः ककुद्मान् वृषः आसीत्, सः स्वस्थः सन् यमुनातीरे सगर्जनम् इतश्चेतश्च भ्रमन् आसीत्। तस्मिन्नेव काले सर्वमृगपरिवृतः अर्थात् विविधैः प्राणिभिः सह पिङ्गलकाख्यः सिंहः यमुनाजलं पातुम् आगच्छति। सः सिंहः कुकुद्मन्तं सञ्जीवकं दृष्ट्वा व्याकूलः सन् कस्मिंश्चित् वटतले चतुर्मण्डलावस्थायां तिष्ठति। चतुर्मण्डलावस्थायां स्थितं सिंहं दृष्ट्वा तस्य पदभ्रष्टौ मन्त्रिणौ परस्परं मन्त्रणाम् आरभेते। तौ मन्त्रिणौ करकटदमनकौ शृगालौ आस्ताम्। सिंहं वटतले ससाध्वसं (सभयं) स्थितं दृष्ट्वा दमनकः भयकारणं ज्ञातुम् इष्टवान्। परन्तु करकटः अव्यापरे व्यापारः न कर्तव्यः इति उक्त्वा उदाहरणत्वेन कीलोत्पाटिवानरस्य कथाम् आरभते। [१]

कथा[सम्पादयतु]

किस्मिंश्चित् नगराभ्याशे (नगरस्य समीपे) स्थिते तरुषण्डमध्ये (वने) कश्चन वणिक्पुत्रः देवतायनस्य (मन्दिरं) निर्माणं कारयन् आसीत्। तत्रस्थाः ये कर्मकराः आसन्, ते स्थपति-आदयः (architect) मध्याह्ने काले आहारार्थं समीपस्थं ग्रामं गच्छन्ति स्म। कश्चन वर्धकिः (carpenter) अर्जुनवृक्षस्य विस्फाटने रतः आसीत्, परन्तु भोजनस्य काले सः स्वकार्यम् अर्धं त्यक्त्वा गतः आसीत्। सः वर्धकिः विस्फाटितस्य स्तम्भस्य मध्ये एकं खदिरकीलं (खदिर इति वृक्षविशेषः - Senegalia catechu) प्रस्थाप्य गतः आसीत्, येन सः भोजनोत्तरम् आगत्य अग्रे कार्यं कर्तुं शक्नुयात्। कदाचित् आनुषङ्गिकमेव (यदृच्छया - randomly) किञ्चन वानरयूथदलं कुतश्चित् तत्र मन्दिरनिर्माणस्थलं सम्प्राप्तम्। तस्य दलस्य वानराः मन्दिरनिर्माणस्य स्थले इतस्ततः क्रीडनं, कूर्दनं च आरब्धवन्तः। तेषु वानरेषु कश्चन प्रत्यासन्नमृत्युः वानरः चापल्यवशात् (कुतूहलवशात्) तस्य अर्जुनवृक्षस्य स्तम्भे आरूह्य स्थितः। चापल्यवशात् अर्जुनवृक्षस्य स्तम्भे आरूढः वानरः वर्धिकेण स्थापितं कीलं दृष्टवान्। अतः अर्जुनवृक्षस्य उभयोः विस्फाटितभागयोः मध्ये स्थित्वा सः तं कीलम् उत्पाटयितुं यत्नम् आरभते। तस्यां कीलोत्पाटनक्रीयायां विस्फाटितभागयोः मध्ये स्थितः कीलः चलितः अभवत्। कीलस्य चलने सति वृक्षस्य विस्फाटितभागयोः मध्ये तस्य वानरस्य वृषणयोः दमनम् अभवत्। तेन तस्य वानरस्य मृत्युः अभवत्।

कथासारः[सम्पादयतु]

अनया कथया करकटः स्वभ्रातरं परामर्शयति यत्, सिंहस्य भयेन सह आवयोः किमपि प्रयोजनं नास्ति। यतो हि आवां तस्य उच्छिष्टम् आहारं भुक्त्वा एव निर्वाहं कुर्वः। अतः तस्य भयादीनां चिन्तनरूपिणम् अव्यापारं त्यज। अन्यथा अनावश्यकं कार्यं कुर्वतः वानरस्य यथा मृत्युः अभवत्, तथा स्थितिः भविष्यतीति।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति।
    स एव निधनं याति कीलोत्पाटीव वानरः ॥२१॥ मित्रभेदः

अधिकवाचनाय[सम्पादयतु]