बालसाहित्यम्
बालसाहित्यस्य निर्माणं बालान् उद्दिश्य भवति। बालेभ्यः आह्लाददायकं विपुलं साहित्यं संस्कृतसाहित्ये, अन्यभाषासाहित्येषु च उपलभ्यते। संस्कृतसाहित्ये बालेभ्यः महत्त्वपूर्णः ग्रन्थः इत्युक्ते पञ्चतन्त्रम्। तस्य ग्रन्थस्य आधारेण विश्वस्य अनेकेषां साहित्यानां निर्माणं जातम् अस्ति। ततः हितोपदेशः, कथासरित्सागरः, अवदानशतकम्, उपमितिभवप्रपञ्चकथा, जातकमाला, दिव्यावदानम्, परिशिष्टपर्व (कथासाहित्यम्), बृहत्कथामञ्जरी, भारतमञ्जरी, रामायणकथामञ्जरी, वेतालपञ्चविंशतिका, शुकसप्ततिः, श्लोकसङ्ग्रहः, सिंहासनद्वात्रिंशिका इत्यादीनां गणना भवति।
बालानां साहित्यक्षेत्रे सक्रियतायाः विषये स्वविचारान् उपस्थापयन्तौ चार्लोट् एस् हक्क् (Charlotte S. Huck), डोरिस् यंग् कुह्ने (Doris Young Kuhn) इत्येतौ अलिखताम् [१] –
“यदा बालकाः 'पुस्तकानां जगत्' प्रविशन्ति, तदा पितरौ, शिक्षकाश्च प्रसन्नाः, गर्वान्विताः च भवन्ति। यदि कोऽपि मानचित्रकारः (cartographer) पुस्तकानां मायाविजगतः मानचित्रं रचयितुं प्रायतिष्यत्, तर्हि साहसस्य शृङ्गोच्छ्रायान् (lofty peak), भयैः, आश्चर्यैः च आच्छादितायाः उपत्यकाः च निश्चयेन सः स्वमानचित्रे अस्थापयिष्यत्। तस्मिन् मानचित्रे सूचनायाः विशालानि क्षेत्राणि, हास्यैः चमत्कारिण्यः हास्यजनन्यः नद्यः, रहस्यसङ्गमिताः कन्दराः च अभविष्यन्।असंवृतशिलौकसः (Exposed rocks) अतीतकालीनं जीवनम् अनावृत्तम् अकरिष्यन्। (तत्र स्थिताः) रमणीयाः पोताश्रयाः सुखसुविधायाः, संरक्षणस्य च प्रतीकाः अभविष्यन्। तस्मिन् मायाविजगति समुद्रतले जायमाना गवेषणा नवीनं, कौतुकपूर्णं जगत् प्रति अग्रे सारयिष्यत्। तद्विश्वं तादृशस्य अज्ञातस्य विस्तारं करोति, यादृशे स्थाने कोऽपि अज्ञातजनेन, अज्ञातस्थानेन च सह मेलितुं शक्नोति। "साहित्यजगत्" निरन्तरं विकासशीलं जगत् अस्ति, यत्र शिक्षकाः सर्वान् अपि मार्गान् पदाङ्कितान् कर्तुं न प्रभवन्ति। तेन सर्वेऽपि बालकाः तस्य जगतः सर्वान् अपि मार्गान्, सर्वासु वीथिकासु, सर्वान् कोणान् च गन्तुं न प्रभवन्ति। परन्तु शिक्षकाः पुस्तकानां जगत् प्रति बालकान् अभिमुखिनः कर्तुं प्रभवन्ति। ते शिक्षकाः बालकानां सम्मुखं (तस्य जगतः) मानचित्रं तु उपस्थापयितुं शक्नुवन्ति एव, येन ते जीवनरतस्य अन्वेषणस्य आरम्भाय बालकस्य साहाय्यं कर्तुं प्रभवेयुः” इति।
बालसाहित्यस्य व्याख्यां कुर्वन् गुजरातीसाहित्यकारः श्रीयशवन्त दोशी-महोयदयः स्वग्रन्थे अलिखत्, "यस्य आकृतिः, अन्तस्तत्त्वञ्च बालकेषु आनन्दं जनयेत्, तदेव साहित्यं बालसाहित्यम् उच्यते" इति। [२]
बालसाहित्यस्य समग्रं सर्जनं बालान् अनुलक्ष्यैव भवति। यदा बालसाहित्यकारः साहित्यं रचयति, तदा बालमानसेन सह तादात्म्यं साधयित्वा साहित्यस्य निर्माणं करोति। बालसाहित्यकारः यदा साहित्यं रच्यमाणः भवति, तदा सः बालानां चिन्तनशैलीं, कल्पनाशैलीं च अनुलक्ष्य स्वसाहित्यस्य निर्माणं करोति। अतः तस्य चिन्तनम् अपि बालानुकूलम् आवश्यकम्। स्वसाहित्यस्य यथोचितं न्याय्यं कर्तुं साहित्यकारः स्वबाल्यकालं प्रति पुनः यात्रां प्रारभते। त्वचं निष्कास्य सर्पः यथा पुनः तस्यां त्वचि पुनः प्रविशेत्, तथा कस्यचित् प्रौढजनस्य स्वबाल्यकाल्यं प्रतिगमनं भवेत्। [३] पञ्चतन्त्रे विष्णुशर्मा सरस्वतीविनोदं करिष्यामि इति उक्त्वा राजकुमाराणां नयशास्त्रं प्रवेशस्य उद्देशं मनसि निधाय स्वग्रन्थस्य रचनाम् अकरोत्। तथैव अनुगामिनः कवयः अपि अकुर्वन्।
बालसाहित्यस्य इतिहासः
[सम्पादयतु]आधुनिकेतिहासविदां मतम् अस्ति यत्, यदा जगति न कापि संस्कृतिः आसीत्, तदापि अर्थात् पाषाणयुगे बालसाहित्यस्य उपस्थितिः आसीत्। तस्मिन् काले लोककथायाः माध्यमेन बालसाहित्यस्य प्रचलनम् आसीत्। अतः आदिकालात् अद्यत्वे यत् बालसाहित्यम् उपलभ्यते, तस्य सर्वः इतिहासः अतिविस्तृतः भवति इति। [४] वेदेभ्यः आरब्धा कथाप्रणाली पौराणिकाङ्गत्वेन विकसिता। १,००० क्रैष्टाब्दात् पूर्वमेव पौराणिकप्रणाल्याः सम्पूर्णविकासः जातः आसीत्। [५] एवं वेदेषु विद्यमानानां कथानां विस्तारः उपवेदैः, ब्राह्मणग्रन्थैः, आरण्यकग्रन्थैः, उपनिषद्भिः, पौराणिकग्रन्थैश्चाभवत्।
बालसाहित्यस्य प्रकाराणि
[सम्पादयतु]आदिकालात् बालसाहित्यस्य अनेकानि प्रकाराणि प्रचलन्ति। यथा – काव्यानि (Poems), परम्परागतसाहित्यम् (Traditional Literature), आधुनिककल्पना (Modern Fantasy), यथार्थवादिकथा (Realistic Fiction), ऐतिहासिककथा (Historical Fiction), लोककथा (Folk Tale), नीतिकथाः (Fables), प्रहेलिका (Puzzle), चित्रपुस्तिका (Picture Book), हास्यकणिका (Joke), विज्ञानतथ्यम् (Scientific Truth), सूचनापुस्तिका (Information Book) (आधुनिककाले अस्याः प्रयोगः दृश्यते) इत्यादीनि। [६]
बालसाहित्यस्य उक्तानि सर्वाणि प्रकाराणि बालसाहित्यस्य विभिन्नैः माध्यमैः प्रकाशितानि भवन्ति। तानि माध्यमानि सन्ति – बालपुस्तकं, बालचलच्चित्रं, बालसङ्गीतञ्च। यदा उक्तानां बालसाहित्यानां मुद्रणद्वारा प्रतिपादनं भवति, तदा पुस्तकमाध्यमेन प्रकाशितं भवति। यदा उक्तानां साहित्यानाम् अभिनयमाध्यमेन प्रतिपादनं भवति, तदा चलच्चित्रमाध्यमेन प्रकाशितं भवति। चलच्चित्रे सङ्गीतस्य उपयोगेन सङ्गीतमाध्यमम् अपि तत्र अन्तर्भवितुं शक्नोति। परन्तु केवलं ध्वनिमुद्रणमाध्यमेन यदा उक्तं साहित्यं प्रकाशितं भवति, तदा सङ्गीतस्वरूपमेव मुख्यं भवति।
एतेषु किं साधनं माध्यमं वा श्रेष्ठम् इति दीर्घकालात् चर्चायाः विषयः वर्तते। यतो हि सर्वेषां रुचिः, अवबोधनरीतिः च भिन्ना भवति। कोऽपि पठित्वा, अन्यः दृष्ट्वा, अपरश्च श्रुत्वा वा शीघ्रम् अवगच्छति। अतः असदृशबालेभ्यः (Heterogeneous Children) एतानि माध्यमानि उत्तमानि एव मन्यन्ते। [७]
बालपुस्तकम्
[सम्पादयतु]बालपुस्तकानि अद्यत्वे सर्वेषु पुस्तकापणेषु उपलभ्यन्ते। मुद्रणयन्त्राणाम् आविष्कारोत्तरम् अनेकानि पुस्तकानि मौखिकयुगस्य मनोमयकोषं त्यक्त्वा अन्नमयकोषं प्राप्तवन्ति। Adarna House, McLoughlin Brothers, Hachette Book Group, Tundra Books इत्यादयः संस्थाः तु बालान् उद्दिश्य एव साहित्यनिर्माणं कुर्वन्ति। भारते बालचित्रसमितिः (Children’s Film Society India) [८] भारतसर्वकारद्वारा प्रचलति। बालेभ्यः पुस्तकनिर्माणस्य व्यापारिकक्षेत्रे अनेके धनोपार्जनमार्गाः उपलब्धाः।
बालचलच्चित्रम्
[सम्पादयतु]बालेभ्यः चतुर्विंशतेः घण्टानाम् अनेकाः दूरदर्शनप्रणाल्यः सन्ति। तासु मुख्यतया डिझनि, पोगो, कार्टून् नेटवर्क्, बेबी टि.वि. इत्यादयः प्रसिद्धाः। अद्यत्वे बालान् उद्दिश्य एव अनेकेषां चलच्चित्राणाम् अपि निर्माणं भवति। तेषु अधिकानि चलच्चित्राणि परिकल्पितानि (Animated) एव भवन्ति। 'जङ्गल बुक्' इत्याख्यं चलच्चित्रं बालेषु अतीव प्रसिद्धम् अभवत्। एवं बालेषु चलच्चित्राणाम् अपि अतीव प्रभावः अस्ति। तेषु चलच्चित्रेषु बहुधा ज्ञानात्मकसन्देशाः भवेयुः, साधनानां परोक्षतया ज्ञानं भवेत्, इतिहासस्य सामान्यं ज्ञानं लभेत् तादृशाः विषयाः अधिकाः भवन्ति।
बालसङ्गीतम्
[सम्पादयतु]बालसङ्गीतम् इत्युक्ते हास्यदायकं, मनोरञ्जकम्, आल्हादकं च सङ्गीतम्। बालगीतानि, बालकविताः च अत्यधिकाः प्रसिद्धाः। अद्यत्वे परिपाटिः वर्तते यत्, बालेभ्यः प्रारम्भिककाले केवलं गीतानि, श्लोकाः, कविताः इत्यादीनामेव ज्ञानं दातव्यम् इति। तेन बालकानां शालां प्रति आकर्षणं वर्धते। ते सहजतया गृहस्य वातावरणात् शालायाः वातारणेन सह अनुकूलाः भवन्ति। गुजरातराज्यस्य प्रसिद्धः बालसाहित्यकारः गिजुभाई बधेका स्वस्य जीवने बालोपकारकाणि अनेकानि गीतानि अरचयत्।
प्राचीने कालेऽपि पञ्चतन्त्रसदृशाः श्लोकात्मकग्रन्थाः बालसाहित्येषु अन्तर्भवन्ति स्म। तत् साहित्यम् अद्यापि बालेभ्यः अतीवोपकारकम् अस्ति। तस्मात् साहित्यात् प्रभाविताः अनेके लेखकाः बालोचितानि गीतानि, कविताः, नाट्यानि च अलखिन्। बालसङ्गीते पञ्चतन्त्रस्य प्रभावेण बालगीतानि, कविताः वा बहुधा प्राणिनाम् एव उपलक्ष्ये भवन्ति इति। यथा – [९]
એક બિલાડી જાડી, તેણે પહેરી સાડી
સાડી પહેરી ફરવા ગઈ, તળાવમાં તે તરવા ગઈ
તળાવમાં તો મગર, બિલ્લીને આવ્યા ચક્કર
સાડીનો છેડો છૂટી ગયો, મગરના મોઢામાં આવી ગયો
મગર બિલ્લીને ખાઈ ગયો
कथायाः बालेषु प्रभावः
[सम्पादयतु]बालसाहित्येषु काव्यं, कथा, चित्रं, चलच्चित्रञ्च मुख्यानि प्रकाराणि। तेषां प्रभावः बालेषु रुच्यनुसारम्, उपस्थापनानुगुणं, वयोनुगुणं च भवति। परन्तु कथायाः प्रभावः सर्वेषु अत्यधिकः भवति। कथानां माध्यमेन एव बालकः विश्वस्य दर्शनं कर्तुं कल्पनाशक्तेः उपयोगम् आरभते। कथायां यथार्थवादिकथा (Realistic Fiction), ऐतिहासिककथा (Historical Fiction), लोककथा (Folk Tale), नीतिकथाः (Fables) इत्यादयः अन्तर्भवन्ति। बालकाः स्वयं पठनं प्रारभेयुः, तस्मात् पूर्वं ते स्वजनस्य मुखात् कथाः शृण्वन्ति। विभिन्नानां कथानां श्रवणेन बालकानां व्यावहारिकज्ञानं, सामान्यज्ञानं, भाषाविषयज्ञानं, विश्वावगमनक्षमता च वर्धते।
मूळशङ्करभट्टः कथाविस्तारस्य विषये अलिखत्, “कथा मनुष्याणां सांस्कृतिकपुञ्जी अस्ति। यथा यथा कथायाः उपयोगः भवति, तथा तथा सा वर्धते। यदि कथा लुण्ठिता भवति, तर्हि सा विस्तारं प्राप्नोति। कथा कदापि पुरातना न भवति। अतः वयं स्वबालेभ्यः भौतिकपुञ्जीं दद्मः उत न, तत् महत्त्वपूर्णं नास्ति, परन्तु यदि तेभ्यः सांस्कृतिपुञ्जीं न दद्मः, तर्हि सा बृहत्तमा त्रुटिः परिगण्यते” इति। [१०]
भारतवर्षं कथायाः जन्मभूमिः। अतः भारतं कथायाः आदिदेशत्वेन परिगण्यते। [११] ऋग्वेदः सम्पूर्णे विश्वे पुरातनतमः ग्रन्थः अस्ति। [१२] तस्मात् संस्कृतग्रन्थात् आरभ्य कथायाः प्रचलनम् अस्ति। ऋग्वेदे इन्द्रस्य वीरतायाः, सङ्घर्षस्य च अनेकाः कथाः उपलभ्यन्ते। यथा – ऋग्वेदस्य १/३२, ४/१८ इत्यादयः कथाः। सामाजिकसन्दर्भे आवृत्ताः लघ्व्यः कथाः नित्य-नैमित्तिकजीवने कस्याश्चित् व्यक्तेः अनुभवः अस्ति। स्वानुभवान् कथायाः माध्यमेन उपस्थापनस्य परम्परा ऋग्वेदात् प्रचलन्ती अस्ति। [१३]
कथोपस्थापनार्थम् आधुनिकपद्धतीनां प्रचलनम्
[सम्पादयतु]कथाकथनम् (Storytelling) आदिकालात् सम्पूर्णे विश्वे सर्वासु संस्कृतिषु प्रचलितम् अस्ति। शब्दवैविध्येन, ध्वनिमाध्यमेन, चित्रमाध्यमेन, आलङ्कारिकार्थैश्च सह विभिन्नानां घटनानाम् उपस्थापनं कथाकथनम् उच्यते।[१४] कथाकथनस्य मुख्योद्देशः मनोरञ्जनं, शिक्षणं, संस्कृतिरक्षणं, नैतिकतायाः सिञ्चनं च। [१५] कथाकथनस्य परमांशेषु कथाकथनं (plot), पात्राणि (Characters), कथायाः दृष्टिकोणः (narrative point of view) च अन्तर्भवन्ति।
आधुनिके काले कथाकथनं विशालपरिधौ विस्तृतम् अस्ति। पुरा कथाकथने केवलं दन्तकथा, पुराणकथा, अप्सरस्कथा, आख्यानम् इत्यादयः अन्तर्भवन्ति स्म। परन्तु अद्यत्वे कथाकथनं स्वयम् इतिहासं, व्यक्तिकथानकं, राजनैतिकावस्थितिं, सांस्कृतिकपरिप्रेक्ष्यं च उपस्थापयति। वर्तमानकालीनं कथाकथनं शैक्षणिकलक्ष्यं साधयितुम् अपि उपयुज्यते।[१६]
एल्बर्ट् बेट्स् लोर्ड् इत्याख्यः हार्वड-विश्वविद्यालस्य प्राध्यापकः स्वसंशोधने अकथयत् यत्, “कथायाः लिखितप्रारूपापेक्षया कथाकथने वैभिन्यं दरीदृश्यते” इति। कथायाः विषये कविवरः रवीन्द्रनाथः अकथयत्, "ब्रह्मणा निर्मितं जगत्, मनुष्येण च निर्मिता कथा तद्द्वयमेव मनुष्यस्य संसारः अस्ति" इति। [१७]
कथायाः माध्यमेन बालविकासः योग्यदिशां प्राप्नोति। यथा कस्यचित् अभिभावकस्य संरक्षणे वृक्षस्य दिशानिर्देशः सुचारुरीत्या भवति, तथैव कथानां संरक्षणे बालमनसः दिशानिर्देशः सुचारुरीत्या भवति। कथा बाल्यावस्थायाम् एव न अपि तु आजीवनं मनुष्याणां मार्गदर्शनं करोति। अत एव ऋषिभिः, विद्वद्भिः, इतिहासविद्भिश्च कथायाः माध्यमेन आध्यात्मिक-नैतिक-व्यावहारिक-बोधपाठस्य कथाः रचिताः। ताः कथाः न केवलं बालेभ्यः, अपि तु वयस्केभ्यः अपि मार्गदर्शिकाः भवन्ति। यद्यपि कथाः आजीवनं मनुष्यजीवने प्रभाविताः भवन्ति, तथापि विशेषरूपेण बाल्यकाले तासां प्रभावः प्रत्यक्षतया दरीदृश्यते।
बालानां विकासे कथाः महान्तं योगदानं भजन्ते। कथानां वाञ्चनेन, श्रवणेन च बालानां व्यक्तित्वं विकसति। कथा बहुधा सूचनानां, कौशल्यविकासस्य, भविष्यनिर्धारणस्य च साधनं भवति। कथया बालेषु आत्मविश्वासः, आशाप्रतिबन्धः, भावनाबोधः, भाषाशक्तिः च उत्पद्यते। [१८]
आत्मविश्वासः
[सम्पादयतु]यः बालकः योग्यकथानां श्रवणं, पठनं च करोति, तस्य आत्मविश्वासः प्रतिदिनं वर्धते। कथया बालकस्य शालाकीयव्यवहारे अदम्यः उत्साहः दृश्यते। बालकस्य व्यवहारेण तस्य आत्मविश्वासः बलवान् भवति। आत्मविश्वासयुक्ताः बालाः संसारेण सह सामञ्जस्यं स्थापयितुं समर्थाः भवन्ति। कथा तस्य सामञ्जस्यस्थापनस्य प्रक्रियायां सहायकी सिध्यते।
भाषाशिक्षणम्
[सम्पादयतु]बालानुगुणं भाषायाः उपयोगं कृत्वा तान् नवीनशब्दान्, नवीनविचारान् च दातुं कथा सर्वोत्तमसाधनम् अस्ति। आधुनिके काले तादृशं साहित्यं चित्रपुस्तकात् आरभ्य कठिनोपन्यासपर्यन्तं गच्छति। कथानां माध्यमेन बालकाः आकार-आकृति-अवकाश-रङ्ग-दिगादीनां विषये सारल्येन ज्ञानं प्राप्तुं शक्नुवन्ति। कथायाः माध्यमेन बालकाः विविधानां महत्त्वपूर्णवस्तूनां नामानि अपि जानन्ति। कथायाः माध्यमेन बालकान् निश्चितं कार्यं प्रति प्रेरयितुम् अपि शक्नुमः। यथा विविधानां वस्तूनाम् उपयोगः, स्ववस्तूनां साजसज्जा, पशून् प्रति व्यवहारः, स्वच्छता, भोजनप्रक्रिया इत्यादयः।
बालकेभ्यः नित्यनैमित्तिकप्रक्रियाणां, विभिन्नानां विषयाणां बोधदानं प्राकृतिकरीत्या भवति इति कथायाः माहात्त्म्येषु सर्वोत्तमोत्कृष्ठः लाभः मन्यते।
कल्पनाशक्तेः विकासः
[सम्पादयतु]गुजरातीबालसाहित्यविद् गिजुभाई बधेका-महोदयः अलिखत्, “कल्पनासृष्टेः, स्थूलसृष्टेः च अग्रे गन्तुं बालकाः प्रेरणीयाः। बालकानां कल्पनाः समृद्धाः कृत्वा कल्पनागम्याः सर्वेऽपि विषयाः बालकानां सम्मुखम् उपस्थापनीयाः” इति।[१९]
प्रख्यातः गणितविद्, वैज्ञानिकश्च आइन्स्टाईन् कथयति यत्, “कल्पना अवबोधादपि अतीव महत्त्वपूर्णा अस्ति। यत्सर्वम् अधुना वयं न जानीमः, नावगच्छामश्च, तस्य कृते अवबोधनः भवति। सः अवबोधः अतीव सीमितः। परन्तु कल्पना तु अखिलं विश्वमेव उद्बोधयति। तथा च तया यदा कदापि विद्यमानस्य अवबोधः, अवगमनं च भवति” इति।
स्कन्दपुराणेऽकल्पनाशक्तिः अमृततुल्या परिगणिता।[२०]
बाल्यकाले कल्पनायाः सर्वोत्तमः विकासः जायते इति अनेके संशोधकाः असिद्धयन्। विदेशे जातः कश्चन शोधप्रयोगः, यस्मिन् 'अप्सराः कल्पना अस्ति उत वास्तविकता' इत्यस्मिन् विषये ९१ बालकेषु अभ्यासः अभवत्। तस्मिन् अभ्यासे संशोधकेन सिद्धं कृतं यत्, अधिकांशाः बालकाः अप्सराः इत्यादिषु विषयेषु दृढतया विश्वासं कुर्वन्ति इति। कथामाध्यमेन बालकेषु विद्यमानां कल्पनाशक्तिं नवीनविचारैः सञ्चितुं शक्नुमः। तेन बालकाः स्वशब्दैः स्वकल्पनायाः विश्वे विचरणं कुर्युः। यथा – अपरं विश्वं, चाकलेहस्य नद्यः, शालां विना पठनम् इत्यादयः विचाराः तेषां कल्पनाशक्तये वेगं यच्छन्ति। एतादृशाः विचाराः बालकान् शीघ्रं वर्धयितुं, निर्णयं च कर्तुं बलं यच्छन्ति।
विस्रंस्रंसनम्
[सम्पादयतु]कथायाः माध्यमेन बालकानाम् आदिनस्य क्लान्तिः दूरीभवति। आदिनं यः शारीरिक-मानसिक-परिश्रमः प्रत्यक्षाप्रत्यक्षरीत्या बालकैः कृतः स्यात्, तेन सञ्जातेभ्यः क्लान्ति-कष्ट-आदिभ्यः मुक्तये कथा मुख्यसाधनं भवति। मनोवैज्ञानिकानां मते पारिवारिकजीवनं यदि सुखदायकं करणीयं, तर्हि नित्यं परिवारसदस्यैः सामुहिकरूपेण पुस्तकानां, चित्रपुस्तिकानां, कवितानां च पठनं, पाठनं च करणीयम् इति।[२१] विदेशेषु बहुत्र परिवारोच्चैर्वाचनसङ्घटनानि (Family Read Aloud Club) प्रचलन्ति।[२२] एतादृशेन कथावाचनेन न केवलं बालकनाम्, अपि तु परिवारस्य अन्यसदस्यानाम् अपि विस्रंस्रंसनं दूरीभवति।
भावनाशक्तिः
[सम्पादयतु]भावनालक्षणम् – भवितुः भवनानुकूलो भावयितुः व्यापारविशेषः। [२३] सा भावना द्विधा – ‘शाब्दीभावना’, ‘आर्थीभावना’ चेति। तत्र पुरुषप्रवृत्यनुकूलो भावयितुः व्यापारविशेषः शाब्दीभावना। प्रयोजन-इच्छाजनितक्रियाविषयव्यापारः आर्थीभावना [२४] इति। बालकेषु विभिन्नानां भावनानां सुष्ठुतया विकासः कथया एव भवति। यथा श्रीकृष्णसुदाम्नोः कथया मित्रभावः, मदलसायाः कथया मातृपुत्रभावः, रामकथया पितृभावः, भरतकथया भ्रातृभावः, हनुमतः कथया वीरभावः, प्रह्लादस्य कथया ईश्वरभावः इत्यादीनां भावानां सहजविकासः कथयैव भवति। भारतीयपरम्परानुगुणं परमपदस्य प्राप्तिः भावं विना अशक्या।[२५]
श्रीमद्भगवद्गीतायाम् अपि उक्तं यत्, यस्य मनेन्द्रियाणि संयमितानि न सन्ति, तादृशस्य मनुष्यस्य व्यवसायात्मिका बुद्धिः न भवति। व्यवसायात्मिकाबुद्धेः अभावत्वात् तस्य मनुष्यस्य कर्तव्यपरायणतायाः भावना न भवति। तस्याः कर्तव्यपरायणभावनायाः अभावे सः शान्तिं न प्राप्नोति। कथं शान्तिरहितः पुरुषः सुखं प्राप्नुयात् ? इति। अत्र कर्मयोगस्य विषयः अस्ति। कर्मयोगे मनसः, इन्द्रियाणां च संयमः मुख्यतया आवश्यकः। विवेकपूर्वकसंयमाभावात् कामना विनष्टा न जायते। कामनायाः अवस्थितौ बुद्धिः न स्थिरीभवति। अतः कर्मयोगी साधकः प्रप्रथमं तु मनः, इन्द्रियाणि च संयमेत् (√ यमो – अपरिवेषणे)। परन्तु यः मनः, इन्द्रियाणि च न समयमत्, सः दुःखी भवति इति। [२६]
सर्वे पितरः इच्छन्ति यत्, पुत्राः मे समाजेन सह सकारात्मकं सम्बन्धं संस्थाप्य स्वस्थं जीवनं जीवेयुरिति। तस्य कृते पूर्वं पितृभ्यां सज्जेन भवितव्यम्। अब्बे एल् हैन हुक् (Abbe L. Hahn-Hook) इत्याख्यः कश्चन लेखकः। सः बालानां भावनाशक्तेः विकासाय पञ्चसोपानानि कथयति। यत् – [२७]
१. स्वनियमनं, जगद्रुचिश्च
२. भावनायां प्रेम
३. उद्देश्यपूर्णः सञ्चारः
४. स्वस्य जटिलतायाः दर्शनारम्भः
५. भावनात्मकयुक्तयः।
एतेषां सोपानानां योग्यरीत्या पालनं कर्तुं कथाः महत्त्वपूर्णं योगदानं कुर्वन्ति।
यदा बालकः कथायां स्थितां भावनाम् अवगच्छति, तदा तस्मिन् अनन्यायाः भावनायाः उद्भवः भवति। सा भावना तं जगतः प्रपञ्चं ज्ञातुं साहाय्यं करोति। अन्यस्य कथायाः माध्यमेन तेषु भावः दृढः भवति यत्, अहम् एककी नास्मि, अन्येऽपि मत्सदृशाः सन्ति इति। एवं बालकस्य भावनात्मकविकासे कथायाः अतीव महत्त्वम् अस्ति।
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भः
[सम्पादयतु]- ↑ Children’s Literature in the Elementary School, Charlottle S. Huck and Doris Young Kuhn, Edition – 2nd, Page – 1.
“Parents and teachers are pleased and proud when children enter the ‘World of books’. If a cartographer tried to create a map on this elusive world of books; he could include mountain peaks of adventure and valleys shadowed by fears and suspense. There would be broad plains of information, rivers sparking with laughter, and caves of mystery. Exposed rock strata would reveal life in the past. Snug harbors would indicate comfort and security. New interests would sail forth on exploration of the oceans in the world. This universe stretches toward the unknown where one can meet strange places and different people. The ‘literature world’ is constantly expanding; teachers cannot traverse each of that world. But teacher can reveal the ‘world of books’ to the child; they can show him the map, and help him begin his lifetime of exploration.” - ↑ ग्रन्थ, લે. યશવંત દોશી, ડિસેમ્બર, 1979 पृ. ३१
- ↑ गुजरातीसाहित्यपरिषद्, जालस्थानम् (http://gujaratisahityaparishad.com/)
- ↑ બાલકથા, સ્વરૂપ અને પ્રકારો, ડૉ. શ્રદ્ધા ત્રિવેદી, આર આર શેઠની કંપની, અમદાવાદ, પ્રથમ સંસ્કરણ, ઈ. 1991, પૃ. 16
- ↑ The Journal of the Royal Asiatic Society of Great Britain and Ireland, No. 2, Apr., 1927 pp. 30–54
- ↑ Published on Nov 28, 2012, EDU 318 Children's Literature, "House at Pooh Corner" by The O'Neill Brothers Group
- ↑ Heterogeneous Effects of Child Development Accounts on Savings for Children’s Education, Washington University in St.Louis, 2014, by Center for Social Development
- ↑ "संग्रह प्रतिलिपि". Archived from the original on 2015-04-12. आह्रियत 2016-11-17.
- ↑ http://mavjibhai.com/bg%20files/ekbiladijadi.htm Archived २०१६-०७-२१ at the Wayback Machine चन्द्रवदन चि महेता द्वारा रचितम् एतत् बालगीतम् ।
- ↑ બાળકોને વાર્તા કેવી રીતે કહીશું ?, મૂળશંકર મો. ભટ્ટ, પૃ. २८, ઈ. १९२८
- ↑ साहित्य अकादमीपुरस्कारभाजः, पण्डितराजसम्माननं प्राप्तः च राधावल्लभ त्रिपाठी, भारतीयकथापरम्परा इत्याख्ये स्वलेखे उपास्थापयत् । http://www.hindisamay.com/contentDetail.aspx?id=837&pageno=4
- ↑ p. 126, History of British Folklore
- ↑ ऋग्वेदः, १०/३४, द्यूतक्रीडकस्य कथा
- ↑ Cajete, Gregory, Donna Eder and Regina Holyan. Life Lessons through Storytelling: Children's Exploration of Ethics. Bloomington: Indiana UP, 2010
- ↑ Davidson, Michelle (2004). "A phenomenological evaluation: using storytelling as a primary teaching method". Nurse Education and Practice 4 (3): 184–189. doi:10.1016/s1471-5953(03)00043-x.
- ↑ Birch, Carol and Melissa Heckler (Eds.) 1996. Who Says?: Essays on Pivotal Issues in Contemporary Storytelling’’ Atlanta GA: August House
- ↑ बुद्धिप्रकाश, पृ. ३७५
- ↑ http://kidshealth.org/kid/feeling/emotion/self_esteem.html#, Reviewed by: D'Arcy Lyness, PhD, Date reviewed: August 2015
- ↑ बालवार्ता, पृ. १
- ↑ संसृतिः कल्पनामूलं कल्पना मृतोपमा। स्कन्दपुराणम्/माहेश्वरखण्डः/केदारखण्डः/अध्यायः३१ (https://sa.wikisource.org/wiki/स्कन्दपुराणम्/खण्डः_१_(माहेश्वरखण्डः)/केदारखण्डः/अध्यायः_३१)
- ↑ Together We Read Family Literacy Program (https://www.sjpl.org/togetherweread Archived २०१६-०९-१५ at the Wayback Machine), 10-9-2015, San Jose Public Library, Dr. Martin Luther King
- ↑ http://www.sps186.org/schools/ballcharter/FRABC/ Archived २०१६-११-१५ at the Wayback Machine Family Read Aloud Club’s Official Website
- ↑ अर्थसङ्ग्रहः, भावनाविचारः ।
- ↑ अर्थसङ्ग्रहः, भावनाविचारः ।
- ↑ निरस्तनिषयासङ्गं सन्निरुद्धं मनो हृदि ।
यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम् ॥ ४ ॥ ब्रह्मबिन्दूपनिषद् । - ↑ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥ श्रीमद्भगवद्गीता, अध्यायः – २ । - ↑ Recognizing the six stages of a child's emotional development By Abbe L. Hahn-Hook POSTED: 01/24/11, 9:21 AM EST http://www.troyrecord.com/article/TR/20110124/NEWS/301249988