कुमारविश्वासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कविः कुमारविश्वासः
कुमारविश्वासः

कुमारविश्वासो जन्मनाम्ना विश्वासकुमारशर्मा विश्वविख्यातः हिन्दीकविश्च राजनेता चापि वक्ता विद्यते।[१] स स्वकवितायै कोयीदीवानाकहताहै नामधेयायै तथा अपने अपने राम इत्यमै प्रवचनकार्यक्रमाय लोके विशेषतो युवसु विख्यातः।[२]

बाल्यं शिक्षा च[सम्पादयतु]

युवा कविः कुमारविश्वासः

विश्वासस्य जन्म माघमासस्य शुक्लपक्षस्य पञ्चम्यां उत्तरप्रदेशस्य पिलख्वा नाम ग्रामे अभवत्। निम्नमध्यायपरिवारे जातः स लालागङ्गासहायविद्यालये अपठत्। राणाशिक्षाशिविरे तस्य पिता चन्द्रपालशर्मा पाठयति स्म। एतस्य मातुर्नाम रमाशर्मा अस्ति। चतुर्भ्यो भ्रातृभ्यश्च एकया स्वस्रा सर्वतः अनुज एषः।[१] एष राजपुतानारेजिमेण्टेण्टरकालिज् इत्यत्र ततः मोतिलालनेहरूरीजनलेञ्जीनियरिङ्गकालेज यस्य नाम अधुना मोतिलालनेहरूराष्ट्रीयप्रौद्योगिकीसंस्थानम् इत्यत्र पठितवान्। तस्य पिता तम् अभियान्त्रिकं भावयितुम् इच्छति स्म। परन्तु तस्मै अभियान्त्रिकं नारोचत अतः सः अभियान्त्रिकीं त्यक्त्वा हिन्दीसाहित्यं पठितुं गतः। अनन्तरं हिन्दीसाहित्ये एव स विद्यावाचस्पतिः अभवत्। विद्यावाचस्पत्युपाधये मेरठविश्वविद्यालये अधीयानः स जातिव्यवस्थां विरुद्धं स्वनाम विश्वासकुमारशर्मणः कुमारविश्वास इत्यकरोत्।[३][१][४]

वृत्तिः गार्हस्थ्यं च[सम्पादयतु]

१९९४ तमे ख्रिष्टाब्दे स राजस्थानस्य पीलीबङ्गानगरे इन्दिरागान्धीपीजीकोलेज् इत्यस्मिन् व्याख्याता अभवत्। तत्रैव स विश्वविद्यालये व्याख्यात्रीं मञ्जुम् अमिलत्। कतिपयेषु एव दिवसेषु तयोः परस्परः स्नेहो जातः। कालान्तरे स सुगुप्तं मञ्जुम् अवृणोत् यतो तयोः कुलजना पृथग्जातित्वार्थं विवाहस्य विरुद्धा आसन्। कुटुम्बाभ्यां तौ बहिष्कृतौ परन्तु वर्षद्वयानन्तरं तयोः प्रथमायाः पुत्र्याः अग्रतायाः जन्म अभवत् यस्मात् कुटुम्बयोः कोपं निर्गतं च तौ स्वीकृतौ। गते काले द्वितीयायाः पुत्रिकायाः कूहुः नामधेयाया जन्म तौ सकुटुम्बम् अन्वतिष्ठताम्।[५] पीलीबङ्गातो निर्गत्य स लालालाजपतरायमहाविद्यालये व्याख्याता न्ययुनक्।[४]

राजधर्मे[४][सम्पादयतु]

२००५ तमात् ख्रिष्टाब्दात् कुमारः अरविन्दकेजरीवालम् अभिजानाति। २०११ तमस्य ख्रिष्टाब्दस्य अन्नाहजारेवर्यस्य नेतृत्वे भ्रष्टाचारविरुद्धान्दोलने स अरविन्देन च सिसोदयाकुलनामकेन मनीषा च सह सम्मिलितवान्। स जन्तरमन्तरस्थलेऽपि विरोधप्रदर्शनेषु सततं भागं गृहीतवान्। [६]विफले आन्दोलने यदा आमादमीदलस्य निर्माणं जातं तदा स तद्दलस्य राष्ट्रीयकार्यकारिण्याः सदस्यः अभवत्।[७] २०१४ तमस्य ख्रिष्टाब्दस्य लोकसभानिर्वाचने स तद्दलेन अमेठीनगरे राहुलगान्धीविरुद्धं युद्ध्वा केवलं पञ्चविंशतिसहस्रमतं प्राप्य पराजितोऽभवत्।

स अन्यैः दलसदस्यैः सह नियमविरुद्धं धनदानस्वीकरणार्थम् एकया पत्रकारसंस्थया आरोपितः। निर्वाचनकाले केचन विरूपितानि चलचित्राणि जनसम्मुखम् आगतानि येषु स इमामहुसैनुपरि च देवानाम् उपरि तथा च केरळस्य उपचारिकानाम् उपरि दुर्वादं करोति। परिणामतो तस्योपरि बहूनि प्रतिवेदनानि कृतानि।[८] अनन्तरं स क्षमायाचनां विहितवान्।

२०१६ तमे ख्रिष्टाब्दे एकया कार्यकर्त्र्या स दुर्व्यवहाराय निवेदितः। परन्तु देहल्यारक्षदलस्य निरीक्षणे कश्चित् साक्ष्यो न प्राप्तः। अग्रिमे वर्षे अभिनेत्रा अमिताभबच्चनेन स हरिवंशरायबच्चनस्य मधुशालायै प्रतिलिप्यधिकारोल्लङ्घनार्थं निवेदितः। चलचित्रस्य प्रसारणं विरुध्य स दण्डे द्वित्रिंशद्रुप्यकाणि अमिताभाय प्रतिदत्तवान्।[९] तस्मिन्नेव काले स आमादमीदलेन सह क्लेशित्वा दलं त्यक्तुं तर्जितवान्। कालान्तरे स दलस्य कार्येभ्यो दूरं जातः।

२०१९ तमे ख्रिष्टाब्दे सिक्खसमुदायोपरि परिहासार्थम् अपि स निवेदितः। [१०]२०२२ तमे ख्रिष्टाब्दे पञ्जाबनिर्वाचनात् पूर्वं तेन अरविन्दः खालिस्थानसङ्गठनस्य समर्थनाय आरोपितः। अरविन्देन एतत् परिहासम् इति उक्तः। [११]

कुमारविश्वासः अन्नाहजारेवर्येण अनुपमेन च मनीषा सह तिष्ठति

इदानीं २०२३ तमे ख्रिष्टाब्दे स कविसम्मेलनेषु भाषयति च अपने अपने राम इति नाम्ना कार्यक्रमे श्रीरामोपरि प्रवदति।[२]

कृतयः[१२][१३][सम्पादयतु]

  • कोयी दीवाना कहता है
  • एक पगली लड़की के बिन
  • उनकी खैरोखबर नहीं मिलती
  • कुछ छोटे सपनो के बदले
  • खुद को आसान कर रही हो ना
  • जब भी मुँह ढक लेता हूँ
  • जाने कौन नगर ठहरेंगे
  • जिसकी धुन पर दुनिया नाचे
  • तुम्हारा फोन आया है
  • तुम्हारी छत पे निगरानी बहुत है
  • तुम्हे मैं प्यार नहीं दे पाऊँगा
  • दुःखी मत हो
  • देवदास मत होना
  • नेह के सन्दर्भ बौने हो गए
  • पवन ने कहा
  • प्यार जब जिस्म की चीखों में दफन हो जाये
  • प्रीतो!
  • फिर बसन्त आना है
  • बाँसुरी चली आओ
  • बात करनी है, बात कौन करे
  • महफिल महफिल मुस्काना तो पड़ता है
  • माँ
  • मेरे सपनों के भाग में
  • मैं तुम्हें ढूंढने स्वर्ग के द्वार तक
  • मैं तो झोंका हूँ
  • मौसम के गाँव
  • ये इतने लोग कहाँ जाते हैं सुबह सुबह
  • रङ्ग दुनिया ने दिखाया है
  • रूह जिस्म का ठौर ठिकाना चलता रहता है
  • विदा लाडो
  • सफायी मत देना
  • साल मुबारक
  • हार गया तन मन पुकार कर तुम्हें
  • हो काल गति से परे चिरंतन
  • होठों पर गंगा हो, हाथों में तिरंगा हो
  • ख्वाब या हकीकत
  • सब तमन्नायें हों पूरी
  • जिन्दगी की हसरत
  • मेरा दीवानापन
  • चेहरे पर चँचल लट उलझी
  • ओ प्रीत भरे सङ्गीत भरे
  • आना तुम मेरे घर
  • सूरज पर प्रतिबन्ध अनेकों

उपलब्धयः[३][४][सम्पादयतु]

  • १९९४ तमे ख्रिष्टाब्दे डोक्टर्कुंवरबायीचैन्काव्यसम्मानस्य आवामपुरस्कारसमितिना काव्यकुमारपुरस्कारः प्रदत्तः।
  • २००४ तमे ख्रिष्टाब्दे उन्नावे साहित्यभारत्या डोक्टर्सुमनालङ्कर्णपुरस्कार प्रदत्तः।
  • २००६ तमे ख्रिष्टाब्दे हिन्द्युर्दूपुरस्कारसमितिना साहित्यश्रीः अदीयत।
  • २०१० तमे ख्रिष्टाब्दे बदायूँनगरे डोक्टरुर्मिलेशजनचेतनासमितिना डोक्टरुर्मिलेशगीतश्रीः अदीयत।

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ १.२ "कुमारविश्वासस्य जीवनम्". 
  2. २.० २.१ "अपने अपने राम इत्यस्य विख्यातिः". 
  3. ३.० ३.१ "विश्वासविषये". 
  4. ४.० ४.१ ४.२ ४.३ "तस्य जीवनविषये". Archived from the original on 2023-01-17. आह्रियत 2023-01-17. 
  5. "विश्वासस्य दाम्पत्यम्". 
  6. "अन्नावर्येण सह आन्दोलनम्". 
  7. "विश्वासस्य राजधर्मः". 
  8. "केरळोपचारिकोपरि". 
  9. "बच्चनप्रकरणे". 
  10. "सिक्खप्रकरणम्". 
  11. "खालिस्थानप्रकरणम्". 
  12. "काश्चन कविताः". 
  13. "कविताकोशपृष्ठम्". 
"https://sa.wikipedia.org/w/index.php?title=कुमारविश्वासः&oldid=484361" इत्यस्माद् प्रतिप्राप्तम्