कुळित्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
Horse gram
Horse Gram BNC.jpg
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
कुलम् Fabaceae
वंशः Macrotyloma
जातिः M. uniflorum
द्विपदनाम
Macrotyloma uniflorum
(Lam.) Verdc.
उपविभागीयस्तरः
  • M. uniflorum var. benadirianum (Chiov.) Verdc.
  • etc.

अयं कुळित्थः भारते वर्धमानः कश्चन धान्यविशेषः । एषः कुळित्थः सस्यजन्यः आहारपदार्थः । एषः आङ्ग्लभाषायां Horse Gram इति उच्यते । अयं कुळित्थः भारते प्रचीनकालात् आरभ्य अद्यपर्यन्तम् अपि औषधत्वेन अपि उपयुज्यते । आयुर्वेदशास्त्रे अपि अस्य कुळित्थस्य उल्लेखः सर्वत्र दृश्यते एव । ताम्रवर्णः, कलावृत्तः, अनिलापहः, कर्पणा, पीतमुद्गः, अलिस्कन्दः, सुराष्ट्रकः इत्यादीनि नामानि सन्ति कुळित्थस्य । कुळित्थेन श्राणां, सारं, क्वथितं, पौलिं, व्यञ्जनं च निर्मान्ति ।

आयुर्वेदस्य अनुसारम् अस्य कुळित्थस्य स्वभावः[सम्पादयतु]

कुळित्थः गुणे अत्यन्तम् उष्णः । रुचौ कषायत्वप्रधानः । पचनार्थं लघुः । जीर्णानन्तरम् आम्लं भवति । अयं कश्चन उत्तमः वातानिलोमकः (वातबाधायाः निवारकः) । कफशामकः अपि । मितिम् अतिक्रम्य उपयोगं कुर्मः चेत् पित्तं वर्धयति, रक्तम् अपि अशुद्धीकरोति ।

“उष्णाः कुलत्थाः पाकेऽम्लाः शुक्राश्मश्वासपीनसान् ।
कासार्शः कफवातांश्च घ्नन्ति पित्तास्रदाः परम् ॥“ (अ.हृ.सू.६-१८)
१. कुळित्थः कफप्राधाना कासं, पीनसं, ज्वरम्, अस्थिरोगं, श्वाससम्बद्धं रोगं, मूत्रकोशस्य पाषाणं, शुक्रसम्बद्धं रोगं, चर्मरोगं, बहुवेदनाम्, उदरवेदनां च परिहरति । तादृशेषु समयेषु पथ्याहाररूपेण अपि कुळित्थस्य उपयोगं कुर्वन्ति।
२. कुळित्थः जीर्णानन्तरम् आम्लत्वेन परिवर्तते । तस्मात् आम्लपित्तबाधकाः (Acidity) अस्य सेवनं न कुर्युः ।
३. कुळित्थः पित्तप्रवर्धकः । तस्मात् पित्तप्रकृतियुक्ताः, पित्तव्याधियुक्ताः, मलमूत्रेषु रक्तप्रवृत्तियुक्ताः च अस्य उपयोगं न कुर्युः ।
४. ग्रीष्मकाले कुळित्थस्य उपयोगः न करणीयः ।
५. कुळित्थः आर्तववर्धकः । तस्मात् आर्तवप्रवृत्तिः मन्दा अस्ति चेत्, सकाले न जायते चेत्, अत्यल्पेन प्रमाणेन जायते चेत् कुळित्थस्य उपयोगः हितकरः । आवर्तदोषस्य कारणतः जाड्यं, भारवर्धनं च जायते चेदपि कुळित्थस्य उपयोगः उत्तमः (स्त्रीणां केवलम्) (आवर्तदोषः नाम मासिकदोषः) ।
६. उदरबाधा अस्ति चेत्, वायुसमस्या अस्ति चेत्, श्वासोच्छ्वासस्य समस्या अस्ति चेत् सप्ताहे एकवारं वा कुळित्थस्य उपयोगः करणीयः ।
७. मूत्रकोशे पाषाणाः सन्ति चेत् (Renal Calculi) कुळित्थस्य सारस्य वा, कुळित्थस्य श्राणायाः वा सेवनं करणीयम् । तेन बहुशीघ्रं पाषाणानां द्रवीभवनम् आरप्स्यते ।
८. “शिलाजितु”नामकस्य आयुर्वेदस्य औषधस्य सेवनावसरे कुळित्थस्य उपयोगः न करणीयः ।
९. रुद्धपथकामलायाः (Obstructive Jandice) आरम्भस्य स्तरे कुळित्थस्य उपयोगः हितकरः ।
१०. कुळित्थस्य सारस्य निर्माणावसरे तत्र आम्लत्वार्थम् आमलकस्य वा वृक्षामलायाः (Kokum) शिम्बायाः वा उपयोगः अत्यन्तं हितकरः भवति ।
११. मितिम् अतिक्रम्य यदि कुळित्थस्य उपयोगः क्रियते तर्हि देहस्य मार्गेषु (नासिका, कण्ठः, मूत्रमार्गः) रक्तस्रावः भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Kadam SS, Salunkhe DK (1985). "Nutritional composition, processing, and utilization of horse gram and moth bean". Crit Rev Food Sci Nutr 22 (1): 1–26. doi:10.1080/10408398509527416. PMID 3899515. 
"https://sa.wikipedia.org/w/index.php?title=कुळित्थः&oldid=395462" इत्यस्माद् पुनः प्राप्तिः