कैय्यटः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कैय्यटिः इत्यस्मात् पुनर्निर्दिष्टम्)
कैय्यटः

कैय्यटः एकः संस्कृतस्य वैय्याकरणः वर्तते । व्याकरणक्षेत्रे एतस्य नाम प्रसिद्धं वर्तते । एतेन भाष्यप्रदीपः इति ग्रन्थस्य पठनेन माहाभाष्यस्य अध्येतॄणां सुकरो भवति । एतस्य कालः दशमशताब्दस्य अन्तिमभागः । मम्मटः, उव्वटः इति नामस्सादृश्यात् एषः अपि काश्मीरप्रदेशीयः इति ऊहः क्रियते ।

"https://sa.wikipedia.org/w/index.php?title=कैय्यटः&oldid=458623" इत्यस्माद् प्रतिप्राप्तम्