कोरगजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोरगपुरुषः

कोरगजनाङ्गीयानां वासस्थानानि[सम्पादयतु]

करावळिप्रदेशे, दक्षिणकन्नडमण्डले, उडुपीमण्डले च तत्र तत्र कोरगजनाः वसन्तः सन्ति । दशाधिकानि कुटुम्बानि एकत्र यत्र तिष्ठन्ति तं प्रदेशं ‘कोरगरकोप्प’ अथवा ‘कोट्ट्’ इति वदन्ति । शुष्कतृणेन वा वंशेन वा त्रिकोनाकारिकाभिः छदिभिः अनेके कुटीराः ‘कोप्प’ मध्ये भवन्ति ।

कोरगजनाङ्गीयानां कुटुम्बव्यवस्था[सम्पादयतु]

एतेषां बन्धुत्वप्रधानः समुदायः । रक्तबान्धव्यं प्रधानं भवति । एतेषु सामान्यतः पञ्चविंशतिः ‘बळि(वंशमूलानि)’ सन्ति इति ज्ञातमस्ति । एतेषु ‘बङ्गारण्णाय’नामकाः बळिजनाः श्रेष्ठाः इति परिगणिताः सन्ति । कुटुम्बस्य सर्वाणि धार्मिकाचरणानि एते एव कारयन्ति । समानबळि येषाम् अस्ति तान् जनान् भ्रातृभावेन परिगणयन्ति । अतः एतादृशेषु परस्परं विवाहः निषिद्धः । भिन्नबळिषु विवाहं कुर्वन्ति । एतदेव प्रशस्तमिति अङ्गीकुर्वन्ति । अत्र मातृप्रधानकुटुम्बव्यवस्था अस्ति । ‘बळि’ एत्येषः अंशः मात्रा बालेभ्यः आगच्छति ।

कोरगजनाङ्गीयानां शारीरम् अलङ्काराः च[सम्पादयतु]

कोरगजनानां कृष्णवर्णं मसृणतां स्मारयत् स्थूलं शरीरम् । अलककेशाः, विशालं ललाटं, स्थूलौ ओष्ठौ, कपोले उन्नतास्थि, किञ्चिदिव अग्रे दृश्यमानं चिबुकं च एतेषां इतरलक्षणानि । एतेषां नासिका तीक्ष्णा न भवति । शिरसि पूगपत्रेन निर्मितं शिरस्त्रं धरन्ति । कर्णे पित्तलस्य कर्णाभरणं, हस्ते अयसः कङ्कणं, कट्यां कटिसूत्रं च धरन्ति । अरण्यपुष्पाणि, किसारनामकं रक्तवर्णीयं पुष्पं च कोरगबालिकानां बहुप्रियाणि भवन्ति ।

कोरगजनाङ्गीयानां विश्वासाः आचाराः च[सम्पादयतु]

उन्नतकुलस्य जनानाम् उच्छिष्टपर्णस्य खादनेन अग्रिमजन्मनि वयम् अग्रजपुत्राः (ब्राह्मणानां) भवामः इति अज्ञानम् एतेषाम् अस्ति । उच्छिष्टस्य खादनेन ‘पापकर्मभ्यः’ मुक्तिं प्राप्तुं शक्नुमः इत्यस्य अन्धविश्वासस्य निर्मूलनं भवेत् । उच्छिष्टखादनं एतेषां शुभकरं भवति, किन्तु एतेषाम् उच्छिष्टम् उन्नतकुलस्य जनाः क्रान्त्वा गच्चन्ति चेत् अपि अशुभकरं भवति । यः कोऽपि शुभाशुभः समारम्भः चेदपि एते ‘सुरापानम्’ अवश्यं कुर्वन्ति एव । महिलाः अपि सुरापानं कुर्वन्ति । एषः अपमानकरविचारः इत्यपि एते न चिन्तयन्ति । सुरापानसमये एकबिन्दुः भूमौ पतति चेदपि तदर्थं दण्डः दातव्यः भवति । किन्तु परिवर्तमाने समाजे पानव्यसनम्, उच्छिष्टखादनं च न्यूनं जायमानम् अस्ति । कोरगजनाः दक्षिणद्राविडभाषावर्गस्य ‘कोरग’ भाषां वदन्ति ।

"https://sa.wikipedia.org/w/index.php?title=कोरगजनाङ्गः&oldid=370305" इत्यस्माद् प्रतिप्राप्तम्