कोल्लम्
Jump to navigation
Jump to search
कोल्लं केरलस्य जनपदेषु अन्यतमं विद्यते। तिरुवनन्तपुरतः ७२ कि.मी दूरे स्थितं वाणिज्यकेन्द्रमेतत्। कोल्लम् इत्यपि निर्दिश्यते एतत्। अष्टमुडिसरोवरम् आकर्षकम् अस्ति। अस्य तीरे नगरमस्ति। पूर्वं पोर्चगीस्जनाः डच्चजनाः च अत्र निवसन्ति स्म। पोर्चुगीसडच्चजनाङ्गयोः वाणिज्यविषये कलहः अभवत्। समीपे तुङ्गशेरिस्थले पोर्तुगीस् जनैनिर्मितरणदुर्गवशेषाः सन्ति। अत्र जलमार्गे चीनाडंशीयजालाः पगोडनौकाः च दृष्टुम् शक्यन्ते।