कौमुदीमहोत्सवः
कौमुदीमहोत्सवः | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | अज्ञातमहिला |
देशः | भारतम् |
भाषा | संस्कृतम् |
कौमुदीमहोत्सव-नाटकं नवम्यां शताब्द्यां कयाचित् स्त्रिया निर्मितम् आसीत्। पाटलिपुत्रस्य राज्ञः प्रेमविवरणं करोतीदम्।
स्त्रियाः रचना
[सम्पादयतु]नाटकस्यास्य रचयित्री कापि स्त्री बभूवेति प्रमाणानि प्राप्यन्ते। प्रयागस्थे भारती-भवन-पुस्तकालये नाटकस्य हस्तलेखस्य भूमिकायां '... कया निबद्धं नाटकम्’ इत्युपलभ्यते, यत्र नामांशेन त्रुटितेन विभक्त्यंशेन चोपलब्धेन स्त्रीकर्तृकमेतदिति ‘का’ इत्यक्षरान्तं च तन्नामेति निश्चीयते । विज्जका तत्कर्त्रीति केचन किशोरिका इति चापरे वदन्ति।
कालः
[सम्पादयतु]नवम्यां शताब्द्यां शीलाङ्करचिता विबुधानन्द-प्रणयकथा कौमुदीमहोत्सवम् उपजीवतीति नाटकस्यास्य रचना ८०० ख्रीष्टाब्दमभितः सम्भाव्यते।
कथानकम्
[सम्पादयतु]पाटलिपुत्रस्य नृपतिः सुन्दरवर्मा कल्याणवर्मणा सपुत्रोऽपि चण्डसेनं क्रुरकर्माणं पुत्नीचकार । कृताभिसन्धिश्चण्डसेनो लिच्छविभिर्मगधानाक्रमयामास । सुन्दर वर्मा रणे हतो लिच्छवयोऽपि पराजिताः । राजकुमारः कल्याणवर्मा सपरिजनः पाटलिपुत्रात् निरवसत्। तस्य धात्री कानने हस्ति-गर्जनभीता सार्थादू भ्रष्टा तापसान् शरणं जगाम । कुलपतिना समादिष्टः स व्याधकिष्किन्धदुर्गेऽवसत् । राजमन्त्री मन्त्रगुप्तश्च पाटलिपुत्रे राजकुमाराय पुना राज्यमर्पयितुं प्रायतत ।
कदाचित् कल्याणवर्मा स्वप्नदृष्टां राज्ञः कीतिसेनस्य कन्यां कीर्तिमतीं नाम सिद्धायतनात् प्रत्यागच्छन्तीमदर्शत् । गतां तां राजकुमारः, प्रेमवशंवदः श्चिन्तयामास । राजकुमार्यपि तत्प्रेमाकुला तच्चित्रं निर्माय नातिदूरं विससर्ज। तच्च चित्र सा परिव्राजिका लेभे या पूर्वं कल्याण-वर्मणो धात्री आसीत्। तत्र चिन्त्रपटे धात्री सालिखत्।
शौनकमिव बन्धुमती कुमारमविमारकं कुरङ्गीव ।
अर्हति कीर्तिमतीयं कान्तं कल्याणवर्माणम्।।
विदूषकश्च तथालेखान्वितं तच्चित्रं कल्याणवर्मणेऽर्पितवान् । तत्र चासौ कीर्तिमत्याश्चित्रं स्वप्रतिकृतिसविधे निर्मितवान् ।
अथ पाटलिपुत्रे राज्यविप्लवः प्रवृत्तः । सुन्दरवर्मणो हन्ता चण्डसेनः प्रत्यन्तपालान् विजेतुं बहिर्जगाम । अत्रान्तरे कल्याणवर्मा राजधानीमाहूतः । चण्डेसेने विरक्तीकृताः प्रजाः कल्याणवर्माणं प्रत्यनुरक्ता अासन् । स च चण्डसेनं निहत्य राज्ये समभिषिक्तः । अन्ततः कल्याणवर्मा कीर्तिमत्या विरहेण सन्तप्तमेव चिन्तयन् प्रमदवने विदूषकेण सह प्रथमसमागमस्य वृत्तम् अवर्णयत् ।
पातु पद्मसुगन्धि लोलनयनं रोमाञ्चितं गण्डयो-
र्यावद् विद्रुम-पाटलाधरपुटं वक्त्रं मयोन्नामितम्।
वैलक्ष्य-प्रतिषेध-विक्लव-गिरा तन्व्या तया मुग्धया
पश्चात् ताम्ररुचा करेण मम तु प्रच्छादिते लोचने॥५.२६॥
सः नातिदूरे वृक्षान्तरे स्थिता कीतिमती तत्सर्वं श्रुतवती । तस्याः सखी निपुणिका तच्चित्रं तयोः मध्येऽक्षिपत्। चित्रागमनकारणम् अनुसन्धातुं गतोऽसौ कल्याणवर्मा कीर्तिमतीं प्राप्तवान् ।
पुरातनकवीनां प्रभावाधीनपि कवयित्री प्रत्यग्रां कामपि चारुतां तत्र-तत्र वितनोति काव्यनैपुणस्य । यथा च बाल्यवर्णने प्रतिभा खेलति, यौवनं च धावति तथोदाह्रियते -
यौ द्वौ शैशव-मुष्टि-भेद-विशदौ रेखातपत्राङ्कितौ
क्षोणीचंक्रमणे मदङ्गुलिमुखं याभ्यां समालिङ्गितम्।
वन्द्ये यावपि कारितौ गुरुजने मात्रा बलादञ्जलिं
तौ हस्तावुरगेन्द्र-भोग-सदृश-प्रौढ-प्रमाणौ कथम्। २.९
यथा वा रूपकालङ्कार-योजना -
नाभी-वापी-प्रविष्टः स्तनशिखरगतो रोमरेखापदेन
प्रत्युत्पन्नप्रतापः स्फुरदधर-मणि-व्याज-नीराजनेन ।
लब्धो लीलाकटाक्षैर्मनसिज-कलभो वर्तते दुर्निवारो
देव्या लब्धप्रसादः कल-मणि-रशना-डिग्डिमारोहणेन॥ ५.२२