क्लेशोऽधिकतरस्तेषाम्...
पठन सेटिंग्स
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
- अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य पञ्चमः(५) श्लोकः ।
पदच्छेदः
[सम्पादयतु]क्लेशः अधिकतरः तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिः दुःखं देहवद्भिः अवाप्यते ॥ ५ ॥
अन्वयः
[सम्पादयतु]अव्यक्तासक्तचेतसां तेषां क्लेशः अधिकतरः । देहवद्भिः हि अव्यक्ता गतिः दुःखम् अवाप्यते ।
शब्दार्थः
[सम्पादयतु]- अव्यक्तासक्तचेतसाम् = अव्यक्तनिविष्टचित्तानाम्
- क्लेशः = दुःखम्
- अधिकतरः = नितराम् अधिकम्
- हि = यस्मात्
- देहवद्भिः = शरीरधारिभिः
- अव्यक्ता = निर्विशेषम्
- गतिः = स्थानम्
- दुःखम् = क्लेशेन
- अवाप्यते = लभ्यते ।
अर्थः
[सम्पादयतु]निर्विशेषे ब्रह्मणि येषां मनः प्रवृत्तम् तेषाम् अत्यन्तं क्लेशः सम्भवति । येषां देहे ममता वर्तते तेषाम् इदं निर्विशेषं ब्रह्म सर्वथा न प्राप्यते ।