गङ्गादासप्रतापविलासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
गङ्गादासप्रतापविलासः  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः गङ्गाधरः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

गङ्गदासप्रतापविलासस्य नामैतिहासिकस्य नवाङ्कस्य नाटकस्य रचयिता गङ्गाधरो मूलतः कर्णाटकवास्तव्यो विजयनगरनृपतेः प्रतापदेवराज्यस्य सभातो गुर्जरानागम्य कञ्चित् कालं मुहम्मदद्वितीयस्य राजसभामलञ्चकार। पश्चाच्च जूनागढराजेन गङ्गदासेन सभाजितः। संभाव्यते यदसावेव मण्डलीकं नाम महाकाव्यमरचयद् यत्र जूनागढस्यान्तिमः हिन्दूनरेशो वर्णितः। गङ्गदासस्य विजयम् १४४६ ई० वर्षीयमधिकृत्य १४५० ई० वर्षेऽस्य रचना कृता स्यादिति प्रतीयते । चम्पानगरस्य महाकालीमण्डपेऽस्य प्रथमोऽभिनयः प्रयोजितः । कर्णावतीनगरस्य राज्ञः (मुहम्मद (१४४३-१४५१ ई०)) राजसभाप्रीत्यर्थमेतस्य नाटकस्याभिनयः आयोजितः।

कथावस्तु[सम्पादयतु]

अस्मिन्नाटके कर्णावती-राज्ञा मुहम्मदद्वितीयेन सह चम्पानगरराज्यस्य गङ्गदासस्य प्रतापदेव्या समहिषीकस्य पावागढदुर्गमधिकृत्ययुद्धं वर्णितम् । मुहम्मदो गङ्गदासं तस्य कन्यामयाचत । याञ्चामपमानं मत्वासौ युद्धाय कृतसंकल्पो निष्ठुरमुत्तरं प्रेषितवान् । पुरोधसो विजयाय महाकालीमपूजयन् । राजा कालीमस्तौत् । स तया दत्तं प्रसादरूपं हारं प्राप्तवान् । महानवमीपूजनावसरे राजा विदूषकेण सह सभामण्डपे संगीतकेन प्रसादितः। अथ तावदेव बहुरूपो नाट्यकारः समागत्य राजानमात्मपरिचयमवदत् -

“कर्णाटकेभ्योऽस्मि । राजा मल्लिकार्जुनो विजयनगरे शास्ति । स च स्वपितुः रिपुद्वयं दाक्षिणात्यं राजानं गजपतिमोड्राधीशं चाजयत् । एकदासौ परिषदं गतो गङ्गाधरस्य कवेर्विषये क्वासौ गत इति पृष्टवान् । पारिषदास्तं न्यवेदयन् – अत्र सम्मानं लब्ध्वासौ दिग्विजयकामः गुर्जरेषु राजसविधे षण्मासानुषित्वा सम्प्रति पावाचलनृपतिं गङ्गदासमाश्रयति । तेज गंगदास-चरितं नाटकायतम् । तदेव नाटकमभिनेतुमहमत्रोपस्थितः'' इति । गङ्गदासस्य यौवराज्यादारभ्य कथा प्रसरति। युवराजो राजकुमारीमश्वमा ह्यापहरति। एकत्र विश्राम्यन्नसो प्रेयसीमाह -

त्वदेकमनसो मुग्धे न मे स्फुरति किञ्चन।

चिदानन्द-कला-तत्त्वभाविनो योगिनो यथा।।[१]

इति नाट्यकारेण रटितं पाठे रटन् विनोदशुको महिषीम् उत्कयति स्म। राजान्यामिच्छतीति ।

“यो मामनामन्त्र्य किमपि न करोति सोऽप्यार्यपुत्र कर्णाटनाट्यकारेण बहुरूपं कृत्वा चित्तस्थितयुवतिरूपाभिनयं दृष्ट्वा तामेव चिन्तयति।''

इति निभृतं श्रुत्वा राजा तां प्रसादयामास। अथ रणचङ्गेन नाम वीरेण सुरत्तानस्य सेनाधिपे नरोजे हते, मुनीरस्य सेनाया अश्वारोहिणां पञ्चसहरुयां क्षयं गमितायां वीरमभूपो नानभूपश्च गङ्गदासाय पत्रे प्रेषयतः - मुहम्मदाय स्वकन्यां दत्त्वाधीनो भवेति । तौ च प्रागेव तस्मै कन्यां दत्तवन्तौ । गङ्गदासः पत्रमुत्तरयति स्म -

म्लेच्छाय कन्यां ददतो स्वस्य जीवनहेतवे ।

नान-वीरमयोः कस्य सम्पर्को नोपजायते।।[२]

इति वाचयित्वा सरत्तानः नानवीरमयोरपमानं स्वशिरसि दत्तं पादं मन्वानः सेनया पावाचलदुर्गमाक्रामति । पराभवपयेऽपि वीरमो गङ्गदासं सन्दिशति स्म -

मञ्चाभिमानं सकलं यथान्ये पृथिवीभुजः।

दत्त्वा निजसुतां मह्यं राज्यं कुरु निरामयम्।।[३]

इति श्रुत्वा गङ्गदासः तं प्रत्याह - समिति मम कृपाणो देवकन्यां ददाति।।[४] अथ नानभूपं सहायमुपलभ्य दुर्गे कृताक्रमणं सुरतानो विवृद्ध मनोबलः । पुनराह - रे गङ्गदास ते दुर्ग पातयाम्यद्य सर्वतः।[५] गङ्गदासः प्रत्युवाच - यत् कर्तुं शक्यते तत् कर्तव्यमिति । अन्ततो गङ्गदासो विजयी बभूव । तदा मुहम्मदस्यापकीर्तिर्वणिता। यथा -

एषा काक-वराह-माहिष-समा भृङ्गावली-सोदरा

निर्मेधाम्बर-सन्निभा निज-मया न्यक्कुर्वती कज्जलम्।

मूर्ताभावस्यातामसीव खनिनलानां रत्नानां किं

संग्राम-प्रविभग्न-महमद-सुरत्तानापकीर्तिः स्थिता।।

इदं नाटकं गुर्जरदेशस्य राजनीतिक-सांस्कृतिक-परिचयं पुरस्करोति । तदा तुरुष्कादयः प्रभूतां प्रतन्वाना आसन् । रङ्गे पात्रपरिचयो निवेदकमुखेन नेपथ्याद् दीयते । यथा आगच्छन्तं सचिवं हरिदासं निवेदकः सूचयति -

स्फायत्प्रोज्ज्वल-कञ्चुकावृततनुर्मध्यस्य शोणांशुक-

श्चञ्चन्मस्तकवेष्टितेन्दुकलिका-संकाश-चीनाम्बरः।

कक्षे लेखनिकां दधत् तदितरे हैमं मषोभाजनं

पाणौ पुण्यमतीनृपालसचिवः प्रत्येति संतोषवान्।।[६]

यथा वा पुरोहितागमः -

प्रातः स्नानपवित्र-गात्र-विलसत्प्रक्षालन-प्रोल्लसद्

धोत्र-स्फारित-यज्ञसूत्ररचनो दर्भ-प्रगल्भाङ्गुलिः।

गोपीचन्दन - चर्चितालिक - जितादित्यप्रभामण्डलः

कर्णान्दोलित-कुण्डलः समयते राज्ञः पुरोधा इह।।[७]

यथा च नाट्यकारप्रवेशः प्रस्तूयते -

मुक्ता-कुण्डल-मण्डितः श्रवणयोः कण्ठे च मुक्तावली-

युक्तः कङ्कणभूषितः करयुगे पद्भ्यां दधत तोडरौ।

पुष्पापूरित-पूर्ण-केश-निचयः कस्तूरिका-पत्रक-

स्ताम्बूल-स्फुरिताधरो नरपतिः प्रत्येति भूपालवत्।।[८]

कविः क्वचित् पारसीकशब्दगर्भां पुरातनीं हिन्दीमपि प्रयुञ्जानो दृश्यते । यथा -

अष्कौ दालम देखतां किमु लढोच्छोह्मिं खुदल्लम्मका

बन्दा तीर कमाण लेकरि कराँ हिन्दू दिवाना इहाँ।

आया जाय कहाई ताल पगडों पालों गलाँ पगड़ी

विस्ताकी करता खुदालम अंगे डर्ता नहीं अम्हकुं।। [९]

बन्दा तेरा निसन्दा हउँ खउस धरों क्यों करो खोद गन्दा

जो मुझ् खें मार तिस्खें रउ तह सुणुरे कालिका की दुहाई।

क्यूं खुन्दालम्मु भूला नहि नहि सुणता बात वज्जीर केरी

काहाँ भेज्या हमुन्खें हय हय किउँरे जंगला माहिं पेठा ।।[१०]

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. २.१६
  2. ५.२
  3. ८.१२
  4. ८.१३
  5. ८.१६
  6. १.३२
  7. १.३५
  8. २.३१
  9. ६.१५
  10. ८.४