गामाविश्य च भूतानि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १३ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

गाम् आविश्य च भूतानि धारयामि अहम् ओजसा पुष्णामि च औषधीः सर्वाः सोमः भूत्वा रसात्मकः ॥ १३ ॥

अन्वयः[सम्पादयतु]

अहं गाम् आविश्य च ओजसा भूतानि धारयामि, रसात्मकः सोमः भूत्वा सर्वाः औषधीः च पुष्णामि।

शब्दार्थः[सम्पादयतु]

गाम् = भूमिम्
आविश्य = प्रविश्य
ओजसा = बलेन
भूतानि = चराचराणि
धारयामि =वहामि
रसात्मकः = रसस्वभावः
सोमः = चन्द्रः
औषधीः = फलपाकान्तानि सस्यानि
पुष्णामि = पोषयामि ।

अर्थः[सम्पादयतु]

अहं धूलिराशितुल्याम् इमां पृथिवीं सर्वदा दृढीकुर्वन् स्वबलेन भूतानि धारयामि । अन्यथा सिकताराशिवत् इयं पृथिवी विच्छिद्येत । एवम् अहमेव रसरूपः चन्द्रः सन् पृथिव्याम् अस्यां जायमानानि सर्वाण्यपि व्रीहिमाषमुद्गादीनि संवर्धयामि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गामाविश्य_च_भूतानि...&oldid=418539" इत्यस्माद् प्रतिप्राप्तम्