गिजुभाई बधेका
गिरजाशङ्करः ગિજુભાઈ બધેકા | |
---|---|
सश्मश्रुः माता (મુછાળી માઁ) | |
जन्म |
५/११/१८८५ वळा-ग्रामः, गुजरातराज्यस्य सौराष्ट्रविभागः |
मृत्युः |
२३/६/१९३९ मुम्बई-महानगरं, महाराष्ट्रराज्यम् |
अन्यानि नामानि |
गिरजाशङ्करः, सश्मश्रुः माता (મુછાળી માઁ), विनोदी, बालानां रक्षकः (બાળકોનાં બેલી) [१] |
वृत्तिः | लेखक, Children's writer |
कृते प्रसिद्धः | बालशिक्षणस्य क्रान्तिकारी |
भार्या(ः) | हरिबेन |
अपत्यानि | नरेन्द्र |
जालस्थानम् | https://www.gijubhaibadheka.in/ |
गिजुभाई बधेका ( ( शृणु) /ˈɡɪdʒʊbhɑː bəðɛkɑː/) (गुजराती: ગિજુભાઈ બધેકા, आङ्ग्ल: Gijubhai Badheka) गुजरातराज्यस्य सर्वोत्कृष्टेषु शिक्षकेषु अन्यतमः । बालशिक्षणस्य क्षेत्रे अद्वितीयकार्यत्वात् आभारतं सः स्मर्यते । बालानां सश्मश्रुः माता (મુછાળી માઁ) इति सः प्रसिद्धः [२] । यतो हि माता यथा स्वपुत्रस्य हितं चिन्तयन्ती आजीवनं समर्पयति, तथैव सः बालानां भविष्यस्य रक्षणार्थं, योग्यविकासस्य मार्गान्वेषणे च स्वस्य सम्पूर्णं जीवनं समार्पयत् । अप्रशिक्षितानां शिक्षकाणाम् अत्याचारैः भारतीयभविष्यस्य विकासः अवरुद्धः आसीत् । तस्य अवरोधस्य समाधानं कृत्वा स्वनवीनविचारैः तेन बालशिक्षणक्रान्तिः कृता ।
स्वस्य शिक्षणेन सः जनान् अबोधयत् -
“ | भारतस्य भविष्यं बालाः सन्ति । तेषां योग्यरीत्या मानसिकविकासः, शारीरिकविकासः, आध्यात्मिकविकासः च पितरोः, शिक्षकाणां, समाजस्य च दायित्वम् अस्ति । अन्ततो गत्वा बालकानां भविष्यम् एव अस्माकं सर्वेषां भविष्यम् अस्ति । अतः पूर्णशक्त्या बालविकासस्य दायित्वं सर्वैः ऊह्यम् एव । | ” |
जन्म, परिवारश्च
[सम्पादयतु]गुजरातराज्यस्य सौराष्ट्रविभागस्य छेला-नद्याः तीरे विकसितस्य वळा-ग्रामस्य भट्टोपा-वीथिकायां बधेका-परिवारः निवसति स्म । बधेका-परिवारस्य मुख्यव्यक्तिः भगवान् बधेका स्वपत्न्या काशीबाई इत्यनया सह सांसारिकजीवनं सुखेन यापयति स्म । १८८५ तमस्य वर्षस्य 'नवम्बर'-मासस्य पञ्चदशे (५/११/१८८५) दिनाङ्के पुत्ररत्नस्य जन्मना तयोः सुखिपरिवारे आनन्दवर्षा अभवत् । तौ पुत्ररत्नं प्राप्य सन्तुष्टौ आस्ताम् । तौ दम्पती स्वभावेन सरलः, मधुरभाषी, धार्मिकः च आस्ताम् । अतः तयोः दम्पत्योः पुत्रे अपि सरलतायाः, माधुर्यस्य, धार्मिकतायाः च पारिवारिकसंस्काराः आसन् । तौ दम्पती प्रेम्णा स्वपुत्रं ‘गिरजो’ इति निर्दिशतः स्म । परन्तु तस्य वास्तविकनाम गिरजाशङ्करः आसीत् [३] । सः ब्राह्मणपुत्रः गिजु एव बालकानां ‘सश्मश्रुः माता’ (મૂછાળી માઁ) इति प्रसिद्धः गिजुभाई बधेका ।
बाल्यं, प्राथमिकशिक्षणञ्च
[सम्पादयतु]गिरजाशङ्करः यदा पञ्चवर्षीयः अभवत्, तदा तस्य विद्यारम्भः अभवत् । सः स्वग्रामस्य धूडी-विद्यालये पठति स्म । परन्तु तस्मिन् काले शिक्षणम् अतिभयावहम् आसीत् । शिक्षकाः विद्यार्थिनः ताडयन्ति स्म । गृहकार्यस्य आधिक्यं, शिक्षायाः आधिक्यं, मार्गदर्शनस्य अभावः, क्रीडायाः अभावः इत्यादीनि विद्यार्थिनां शिक्षणस्य अभिन्नाङ्गानि आसन् । विद्यार्थिनः भयेन विद्यालयं न गताः इत्यस्य उदाहरणानि प्रचुरमात्रायाम् आसन्, परन्तु शिक्षणव्यवस्थायां न किमपि परिवर्तनम् अभवत् । विद्यालये क्रीडायाः अभावात् गिरजाशङ्करः, तस्य मित्राणि च अवकाशदिनेषु ग्रामस्य वीथिकासु क्रीडिन्ति स्म ।
भट्टोपा-वीथिकायां ‘गिरजाशङ्करः’ इत्यस्य मित्रमण्डलं सर्वदा तस्य प्रतीक्षायां भवति स्म । ‘गिरजाशङ्करः’ यदा गृहात् बहिः गच्छति स्म, तदा सर्वाणि मित्राणि मिलित्वा विभिन्नाः क्रीडाः क्रीडन्ति स्म । वळा-ग्रामं परितः वनम् आसीत् । बालकाः वनं प्रति न गच्छेयुः इति ग्रामे भूतानां, प्रेतानां च कथाः प्रचलिताः आसन् । गिरजाशङ्करः अश्रृणोत्, “ग्रामस्य समीपं पीलुडी-नामकं स्थलम् अस्ति । तत्र मातुलस्य भूतः अस्ति” इति । गिरजाशङ्करः अपरस्मिन् दिने मित्रैः सह तत् स्थलं क्रीडितुम् अगच्छत् । तत् वटवृक्षैः आच्छादितं रमणीयं स्थलम् आसीत् । अतः गिरजाशङ्करः तस्य मित्राणि च आनन्देन क्रीडां प्रारभन्त । क्रीडन्तः बालकाः सायङ्कालपर्यन्तं तत्र अक्रीडन् । अतः गृहं प्रतिगमने विलम्बः अभवत् । गृहजनाः ग्रामस्य वीथिकासु बालकानां अन्वेषणम् आरभन्त । सर्वे चिन्तिताः सन्तः इतस्ततः भ्रमन्तः आसन् । तस्मिन् एव काले दूरात् बालकानां दलम् उल्लासेन, आनन्देन सह ग्रामं प्रत्यागच्छति स्म । सर्वे बालकान् अपृच्छन्, “यूयं कुत्र आस्त” ? इति । “वयं तु क्रीडितुं पीलुडी-स्थलं गताः आस्म” इति गिरजाशङ्करः अवदत् । सर्वे आश्चर्यचकिताः सन्तः बालकान् पश्यन्तः आसन् । कोऽपि किमपि अन्यं प्रश्नं पृच्छेत् तस्मात् पूर्वम् एव गिरजाशङ्करः दृढस्वरेण अवदत्, “तत्र मातुलस्य भूतः नास्ति । तत् तु क्रीडितुम् अतिरमणीयस्थलम् अस्ति” इति । गिरजाशङ्करस्य निर्भीकोत्तरेण ग्रामवासिनः अपि किंवक्तव्यमूढाः अभवन् । सर्वैः अङ्गीकृतं यत्, “गिरजाशङ्करे साहसं, निर्भयता, नेतृत्वशक्तिः इत्यादयः उत्तमगुणाः सन्ति” इति । ततः सर्वे बालकाः पौनःपुन्येन पीलुडी-स्थलं क्रीडितुं गच्छन्ति स्म ।
माध्यमिकशिक्षणम्
[सम्पादयतु]धूडी-विद्यालये यदा गिरजाशङ्करस्य अध्ययनं पूर्णम् अभवत्, तदा सः माध्यमिकशिक्षणार्थं स्वमातुलस्य गृहम् अगच्छत् । गिरजाशङ्करः भावनगरे स्थिते स्वमातुलस्य गृहे निवस्य अध्ययनं प्रारभत । तस्य मातुलः हरगोविन्दः नगरस्य प्रतिष्ठितः सज्जनः व्यक्तिः आसीत् । जनेषु तं प्रति बहुमानम् आसीत् । अतः तस्य पुत्रौ चीटिकाम् अस्वीकृत्य बस्-यानेन आवागमनम् कुर्वन्तौ आस्ताम् । ग्रामवासी गिरजाशङ्करः तु नगरस्य पद्धत्या अनभिज्ञः आसीत् । मातुलपुत्रौ यथा यानेन आवागमनं कुर्वन्ति स्म, तथैव सः अपि प्रारभत । एकदा मातुलः बालकानां कृत्यविषये अजानत् । सः स्वबालकान् आहूय प्रेम्णा अबोधयत्, “यूयं येन यानेन आवागमनं कुर्वन्तः स्थ, तत् यानम् अस्माकं नास्ति । तेन यानेन प्रवासं कर्तुं चीटिकायाः आवश्यकता भवति । यदि यूयं चीटिकाम् अस्वीकृत्य एव यानेन प्रवासं कुरुथ, तर्हि यूयं सामाजिकम् अपराधं कुर्वन्तः स्थ । नैतिकरीत्या अपि एतत् कार्यम् अयोग्यं वर्तते । अतः कदापि यूयम् एवं मा कुरुत । भविष्यत्काले यदि कदापि यानेन प्रवासस्य इच्छा भवति, तर्हि मां सूचयत । अहं चीटिकाम् आनीय तुभ्यं दास्यामि” इति । “यस्मिन् वस्तुनि अस्माकम् अधिकारः नास्ति, तस्य उपभोगः न कर्तव्यः” इति मातुलस्य कथनसारस्य गिरजाशङ्करः आजीवनं पालनम् अकरोत् ।
माध्यमिकशिक्षणकाले किशोरावस्थायां प्राप्तः गिरजाशङ्करः अध्ययनस्य महत्त्वं जानाति स्म । सः अध्ययनाग्रही गृहकार्यं कृत्वैव शालां गच्छति स्म । शिक्षकः यत् अपाठयत्, तस्य मननं सः सर्वदा करोति स्म । यदि कश्चन सहपाठी पाठविषये समस्याम् अनुभवति स्म, तर्हि गिरजाशङ्करः तस्य समस्यानां समाधानाय प्रयासं करोति स्म । गिजुभाई इत्यस्य मित्रं, सहाध्यायी, प्रख्यातसाहित्यिकः रामनारायणः स्वजीवन्याम् अलिखत्, “गिजुभाई इत्यस्मिन् विद्यमानाः प्ररिश्रम-परोपकार-साहसानां गुणाः मया विद्यार्थिकाले एव अनुभूताः आसन् । तस्य एकैव विचारधारा आसीत् यत्, मनुष्यः परिश्रमेण सत्कार्येण च महत् लक्ष्यमपि प्राप्तुं शक्नोति” इति ।
वैवाहिकजीवनम्
[सम्पादयतु]१९०२ तमे वर्षे गिजुभाई मेट्रिक् इत्यस्य अध्ययनं कर्तुं भावनगरस्य शामळदास-महाविद्यालये प्रवेशं प्राप्नोत् । तस्मिन् एव वर्षे तस्य विवाहः हरिबेन-नामिकया कन्यया सह अभवत् । परन्तु तयोः विवाहः अधिकसमयं यावत् नाचलत् । हरिबेन इत्यस्याः मृत्युः अभवत् । ततः गिजुभाई इत्यस्य मातुः अपि निधनम् अभवत् । अतः अनुजानां शिक्षण-पोषणादीनां भारः गिजुभाई इत्यस्योपरि आपतितः । ततः बीलखा-पत्तनस्य जडीबेन-नामिकया कन्यया सह तस्य पुनर्विवाहः अभवत् । गृहस्य दायित्वं तु अपाभवत्, परन्तु आर्थिकस्थितिः तु कृपणा एव आसीत् । अतः गिजुभाई अध्ययनं मध्ये त्यक्त्वा मुम्बई-महानगरस्य व्यापारिकसंस्थायां कार्यं प्रारभत । कानिचन वर्षाणि तत्र कार्यं कृत्वा अधिकं वेतनं प्राप्तुम् अफ्रिका-देशगमनस्य निश्चयम् अकरोत् । अतः सः १९०७ तमे वर्षे अफ्रिका-देशम् अगच्छत् ।
अफ्रिका-देशे गिजुभाई
[सम्पादयतु]१९०७-१९१० वर्षत्रयं सः अफ्रिका-देशे वाक्कीलस्य कार्यालये कार्यम् अकरोत् । अफ्रिका-देशे सः स्टीवन्सन्-नामकस्य सॉलिसिटर् तथा वाक्कीलस्य कार्यालये कार्यं करोति स्म । कार्यालये गिजुभाई नवीनः आसीत्, अतः सः पौनःपुन्येन स्टीवन्सन् इत्यस्य साहाय्यम् अपेक्षते स्म । परन्तु स्टीवन्सन् तं सर्वदा एकवाक्यमेव कथयति स्म यत्, “स्वबुद्ध्या कुरुष्व” इति । आरम्भे तु गिजुभाई बधेका क्रोधम् अन्वभवत् । किन्तु ततः सः तत् वाक्यं स्वजीवनस्य ध्येयमन्त्रत्वेन अङ्ग्यकरोत् । यत्किमपि भवति स्म, तस्मिन् समये सः स्वयमेव निराकरणं प्राप्तुं प्रयासं करोति स्म । अफ्रिका-देशे यापितानि त्रीणि वर्षाणि तस्य शिक्षकजीवनस्य आधारशिला अभवत् ।
अफ्रिका-देशे यदा गिजुभाई निवसति स्म, तदा नैकाः भारतीयाः, वैदेशिकाः तस्य मित्राणि अभूवन् । यानि वैदेशिकानि मित्राणि आसन्, तानि गिजुभाई संस्कृतं पाठयति स्म । तस्मिन् काले गिजुभाई इत्यनेन स्वयम् अनुभूतं यत्, “मयि पाठनस्य उत्तमगुणाः सन्ति” इति । शिक्षके स्वतन्त्रनिर्णयशक्तिः, सहनशीलता, निर्भयता, प्रेम, सद्भावः, धैर्यं, रचनात्मकता इत्यादिगुणाः आवश्यकाः । एते सर्वे गुणाः गिजुभाई इत्यस्मिन् आसन् ।
गिजुभाई यदि ऐषिष्यत्, तर्हि अफ्रिका-देशे एव आजीवनं यापयिष्यत् । परन्तु स्वमातृभूमेः सेवायै तत्परः गिजुभाई १९१० तमे वर्षे भारतं प्रत्यागच्छत् । भारतम् आगत्य गिजुभाई अफ्रिका-देशस्य स्वानुभवान् पुस्तकमाध्यमेन समाजस्य सम्मुखम् उपास्थापयत् । सः ‘आफ्रिकानी सफरे’ (આફ્રીકાની સફરે), ‘आफ्रिका साम्भर्युं’ (આફ્રીકા સાંભર્યું) इत्याख्ये पुस्तके अलिखत् ।
मुम्बई-महानगरे अध्ययनम्
[सम्पादयतु]१९१० तमे वर्षे अफ्रिका-देशात् भारतं पुनरागते यद्यपि आजीविकायाः प्रश्नः तु गिजुभाई इत्यस्य सम्मुखम् आसीत् एव, तथापि सः स्वमातुलेन सह चर्चां कृत्वा वाक्कीलस्य अध्ययनं मुम्बई-महानगरे आरभत । मुम्बई-महानगरस्य मगनबाग-विस्तारे लघुगृहे सपरिवारं निवस्य अध्ययनेन सह गृहस्थदायित्वान् अपि सः वहति स्म । अर्थोपार्जनार्थं सः एकस्यां शालायां पाठयति स्म ।
महादेवभाई देसाई, रामनारायण पाठक, कलागुरुः रविशङ्कर रावल इत्यादयः शिक्षणप्रेमिणः पौनःपुन्येन तस्य मुम्बई-महानगरे स्थितं लघुगृहं गच्छन्ति स्म । अनेकवारं महादेवस्य अट्टहास्येन, शेषस्य काव्यगानेन, कलागुरोः रविशङ्करस्य कथाप्रसङ्ग्रैः च गिजुभाई इत्यस्य लघुगृहं गुञ्जति स्म । पञ्चविंशतिवर्षीयः गिजुभाई स्वमित्रैः सह भविष्यकालस्य स्वप्नम् अपि पश्यति स्म । यतो हि तस्मिन् काले ‘लालबालपाल’ इत्येते क्रान्तिकारिणः यूनाम् आदर्शाः आसन् । ‘स्वराज मेरा जन्मसिद्ध अधिकार है’ इत्येनेन जयघोषेण लोकमान्य टिळक अपि यूनां हृदि निवसति स्म । गिजुभाई, महादेवभाई च चिन्तयतः आस्ताम्, “अस्माभिः स्वमातृभूम्यै किमपि करणीयं, स्वमातृभूमेः स्वतन्त्रतायै योगदानं कर्तव्यमेव च” इति । तयोः चिन्तनं मित्रमण्डले चर्चायाः विषयः अभवत् । नरहरि परीख, हरभाई त्रिवेदी अपि तस्यां चर्चायां भागम् अवहेताम् । मित्रमण्डलस्य अन्तिमनिर्णयः आसीत् यत्, “वयं तु शिक्षणजगते कृतसङ्कल्पाः । वयं आगामिसन्ततिं (future generation) राष्ट्रसेवायाः संस्कारैः पोषयामः । तेषु स्वाधीनता, धैर्यं, चारित्र्यं, परिश्रमम् इत्यादीनां गुणानां सिञ्चनं करिष्यामः, येन यदि स्वाधीनतां प्राप्नुमः, तर्हि ते स्वाधीनतां चिरकालं यावत् अखण्डयितुं सज्जाः, समर्थाः च भवेयुः” इति । (एषः सङ्कल्पः एव शिक्षणप्रथां परिवर्तयितुं गिजुभाई इत्यस्य प्रेरकः अभवत् ।)
वाक्कीलत्वेन गिजुभाई
[सम्पादयतु]एतावता एकवर्षस्य कालः व्यतीतः गिजुभाई डिस्ट्रिक्ट् प्लीडर् इति पदं प्राप्नोत् । अध्ययने समाप्ते सति गिजुभाई मुम्बई-महानगरात् वल्लभीपुरम् अगच्छत् । गिजुभाई वल्लभीपुरतः सुरेन्द्रनगरमण्डलस्थं वढवाण-पत्तनं गत्वा १९११ तमे वर्षे वाक्कीलत्वेन वृत्त्युपार्जनं प्रारभत । स्वस्य कर्मठतायाः, दृढनिर्णयशक्त्याः कारणेन शीघ्रं हि गिजुभाई वाक्कीलत्वेन प्रतिष्ठां प्रापत् । वाक्कीलस्य कार्यं कुर्वन् सः शिक्षकत्वेन अपि स्वदायित्वं वहति स्म । सः वाक्कीलस्य अध्ययनं कुर्वतः छात्रान् विना शुल्कं पाठयति स्म । तेन प्रेरितानि तस्य मित्राणि अपि छात्रान् विना शुल्कं पाठयन्ति स्म । एषः अनुभवः गिजुभाई इत्यस्य शालास्थापनस्य आधारः आसीत् ।
गिजुभाई प्रामाणिकेभ्यः अभियोगेभ्यः एव कार्यं करोति स्म । मिथ्याभियोगाय, लम्पटरक्षणाभियोगाय, चौररक्षणाभियोगाय गिजुभाई कार्यं न करोति स्म । परन्तु तस्य पुरतः वारं वारम् एतादृशाः अभियोगाः आगच्छन्ति स्म । एकदा एकः व्यापारी अभियोगस्य चर्चां कर्तुं गिजुभाई इत्यस्य कार्यालयम् अगच्छत् । परन्तु अभियोगः नीतिविरुद्धः अस्ति इति यदा गिजुभाई अजानत्, तदा सः व्यापारिणा दत्तं पुस्तकं कार्यालयात् बहिः अक्षिपत् । गिजुभाई क्रोधेन अवदत्, “एतादृशेभ्यः अभियोगेभ्यः कार्यं कर्तुम् अहं वाक्कीलः नाभवम् । मम सम्मुखात् गच्छ” इति ।
यदा एषा घटना घटिता, तदा गिजुभाई इत्यस्य हृदयम् अत्युग्रम् आसीत् । तस्य मनसि वाक्कीलस्य व्यवसायं प्रति घृणायाः भावः औद्भवत् । ततः वारद्वयं तादृशे घटने घटिते । मुम्बई-महानगरे आगामिसन्ततीनां चारित्र्यनिर्माणस्य यत् स्वप्नं गिजुभाई इत्यनेन स्वमित्रैः सह दृष्टम् आसीत्, तत् कदापि पूर्णं न भविष्यति इति तस्य सम्मुखम् आसीत् । तस्य मित्रं महादेवभाई देसाई महात्मने स्वजीवनं समार्पयत् । अन्यमित्राणि स्वजीवनस्य लक्ष्यं प्रति अग्रे धावन्ति स्म । गिजुभाई अपि स्ववर्तमानस्थितेः विषये बहुधा चिन्तयति स्म । तानि दिनानि गिजुभाई इत्यस्य कृते अतिकष्टकराणि आसन् ।
पुत्रजन्म, जीवनपरिवर्तनञ्च
[सम्पादयतु]१९१३ तमस्य वर्षस्य 'फरवरी'-मासस्य सप्तविंशतितमे (२७/२/१९१३) दिनाङ्के गिजुभाई इत्यस्य गृहे पुत्रस्य जन्म अभवत् । पुत्रस्य जन्म गिजुभाई इत्यस्य जीवनपरिवर्तनस्य कारणम् अभवत् । तस्मिन् वर्षे गिजुभाई इत्यस्य वयः सप्तविंशतिः आसीत् । प्रतिदिनं पुत्रस्य नरेन्द्रस्य वयवर्धनेन सह गिजुभाई इत्यस्य चिन्ताः अपि वर्धन्ते स्म । यतो हि सः जानाति स्म यत्, “सद्यः कालीना शिक्षणप्रणालिः तु बालानां कल्पनानां, बाल्यजीवनस्य कोमलतायाः च हननं कुर्वती अस्ति । सर्वासु शालासु अज्ञानान्धकारस्य वातावरणम् अस्ति” इति । एतादृशाः विचाराः प्रतिदिनं तस्य मानसपटले उद्भवन्ति स्म । सः मार्गान्वेषकत्वेन नित्यं नरेन्द्रस्य भिविष्यस्य परिक्लपनां करोति स्म ।
एतादृशाः विचाराः तस्य मनसि उद्भवेयुः इति सामान्यम् आसीत् । यतो हि पुरा स्वमित्रैः सह स्थित्वा तेन सङ्कल्पः कृतः आसीत् यत्, “अस्माभिः स्वमातृभूम्यै किमपि करणीयं, स्वमातृभूमेः स्वतन्त्रतायै योगदानं कर्तव्यमेव च । वयं तु शिक्षणजगते कृतसङ्कल्पाः । वयं आगामिसन्ततिं (next generation) राष्ट्रसेवायाः संस्कारैः पोषयामः । स्वाधीनता, धैर्यं, चारित्र्यं, परिश्रमः त्यागः इत्यादीनां गुणानां तेषु सिञ्चनं करिष्यामः, येन राष्ट्रस्वातन्त्र्यानन्तरं ते स्वाधीनतां चिरकालं यावत् रक्षितुं सज्जाः, समर्थाः च भवेयुः” इति ।
गिजुभाई इत्यस्य मनः कार्ये सल्लग्नमेव न भवति स्म । नरेन्द्रस्य भविष्यस्य चिन्ताः तस्य मुखोपरि प्रत्यक्षाः आसन् । अतः निकटवर्तिनः जनाः तं चिन्तायाः कारणम् अपृच्छन् । गिजुभाई नरेन्द्रस्य भविष्यविषये सर्वान् कथयति स्म । परन्तु भिन्नाः जनाः भिन्नमतानि यच्छन्ति स्म । शनैः शनैः सर्वे गिजुभाई इत्यस्य उपहासं प्रारभन्त । बहवः तस्मै परामर्शं यच्छन्ति स्म यत्, “तव एकस्य गृहे एव पुत्रजन्म नाभवत्, अपि तु सर्वेषां गृहे पुत्रजन्म भवति । सर्वे यदि त्वत्सदृशं कार्यं त्यक्त्वा पुत्रस्य भविष्यविषये चिन्तयेयुः, तर्हि वृत्त्युपार्जनं कथं कुर्युः ? एतादृशं चिन्तनं त्यक्त्वा वृत्त्युपार्जनस्य उपरि ध्यानं यच्छस्व” इति । परन्तु गिजुभाई प्रत्युत्तरं यच्छति स्म यत्, “मत्सदृशं यूयम् अपि स्वपुत्रस्य भविष्यविषये चिन्तनं प्रारभध्वम् । अन्यथा तेषां भविष्यम् अन्धकारमयं भविष्यति, यत् भवताम् अपि भविष्यम् अस्ति” इति ।
एकदा गोपालदास दरबार इत्यनेन सह गिजुभाई स्वपुत्रस्य भविष्यविषये चर्चां कुर्वन् आसीत् । तदा गोपालदासः अवदत्, “भोः मित्र ! तव चिन्तायाः विषये मम पार्श्वे एकः उपायः अस्ति । त्वं वसो-ग्रामे स्थितं बालविद्यालयं गत्वा तत्र मोतीभाई अमीन इत्यस्य सम्पर्कं कुरु । सः निश्चयेन तव मार्गदर्शनं करिष्यति” इति ।
गिजुभाई वसो-ग्रामम् अगच्छत् । बालविद्यालयं दृष्ट्वा सः आनन्दम् अन्वभवत् । मोतीभाई अमीन इत्ययं गिजुभाई इत्यस्मै मॉन्टेसरी इत्यस्याः साहित्यम् अयच्छत् । यथा यथा गिजुभाई मॉन्टेसरी इत्यस्याः साहित्यं पठन् आसीत्, तथा तथा तस्य मनसि विद्यमानः नरेन्द्रस्य भविष्यविषयकः भयः अपाभवन् आसीत् । पठनेन सह यद् कार्यान्वययोग्यम् आसीत्, तत् गिजुभाई कार्यान्वयम् अकरोत् । पुत्रस्य जीवने मॉन्टेसरी-पद्धत्याः अनुकूलं प्रभावं दृष्ट्वा गिजुभाई अन्यान् अपि एतस्याः पद्धत्याः विषये कथयति स्म । सः स्ववाक्कीलमित्राणि कथयति स्म यत्, “इटली-देशे एका मॉन्टेसरी-नामिका शिक्षिका अस्ति । सा बालकानां वयानुसारम् अभ्यासक्रमस्य रचनां कृतवती अस्ति । तस्याः अभ्यासक्रमानुसारं ये बालकाः पठन्ति, तेषां शारीरिक-मानसिक-आध्यात्मिकविकासः, कार्यशैल्याः विकासः च प्राकृतिकरीत्या, शीघ्रतया च भवति” इति ।
गिजुभाई इत्यस्य अभियोगस्य कार्यं चलदासीत् । परन्तु वाक्कीलाय वेतनं दातुं जनाः स्वपुत्रस्य शिक्षणस्य, भोजनस्य, भविष्यस्य च चिन्तनं न कुर्वन्ति इति विचारः तस्य मनसि वारं वारम् उद्भवति स्म । वाक्क्लीत्वेन सः अधिकं कार्यं कर्तुं नेच्छति स्म । परन्तु तस्य मनसि आजीविकायाः विषये द्वन्द्वः आसीत् । शनैः शनैः तस्य मनसि वाक्कीलस्य कार्यं प्रति घृणा उद्भूता । सः किमपि अन्यत् कार्यं कर्तुम् अवसरम् अन्विष्यति स्म । तस्मिन् एव काले हरगोविन्दः (गिजुभाई इत्यस्य मातुलः) प्रो. नृसिंहप्रसाद इत्यनेन सह मिलित्वा छात्रालयम् अस्थापयत् । छात्रालयस्य नियमानां रचनां कर्तुं हरगोविन्दः स्वभागिनेयम् (गिजुभाई इत्येनम्) अकथयत्, “त्वम् एतस्य छात्रालयस्य नियमनिर्माणस्य दायित्वं स्वीकुरु” इति । छात्रालयस्य कार्यार्थं गिजुभाई वारं वारं सुरेन्द्रनगरात् भावनगरं गच्छति स्म । एकदा नानाभाई (प्रो. नृसिंहप्रसाद) गिजुभाई इत्येनं दक्षिणामूर्तिसंस्थायां (छात्रालयः एतस्याः संस्थायाः भागः आसीत् ।) एव कार्यं कर्तुम् आग्रहेण अवदत् । वाक्कीलस्य कार्येण त्रस्तः गिजुभाई सर्वं त्यक्त्वा १९१६ तमस्य वर्षस्य 'नवम्बर'-मासस्य त्रयोविंशतितमे (२३/११/१९१६) दिनाङ्के दक्षिणामूर्त्याः छात्रालयस्य गृहपतित्वेन (warden) दायित्वम् अङ्ग्यकरोत् । १९१३-१९१६ सः गुजरातराज्यस्य वढवाण-पत्तने उच्चन्यायालयस्य डिस्ट्रिक्ट् प्लीडर्-त्वेन दायित्वम् अवहत् । ततः आजीवनं बालशिक्षणस्य कार्याय समार्पयत् ।
गिजुभाई यदा दक्षिणामूर्तौ छात्रावासे कार्यं कुर्वन् आसीत्, तदा तेनानुभूतं यत्, “छात्रालयेन सह यदि विद्यालयः अपि स्यात्, तर्हि बालकानां विकासः सम्पूर्णरीत्या भूयात्” इति । अतः १९१८ तमस्य वर्षस्य 'जुलाई'-मासस्य प्रथमे (१/७/१९१८) दिनाङ्के सञ्चालकानां सहयोगेन सः कुमारविनयमन्दिरस्य स्थापनाम् अकरोत् । सः तस्य विद्यालयस्य आचार्यत्वेन कार्यं प्रारभत । वर्षचतुष्टयं गिजुभाई कुमारविद्यालयस्य आचार्यत्वेन दायित्वम् अवहत् । परन्तु तेषु चतुर्षु वर्षेषु दक्षिणामूर्तिः शिक्षणस्य कार्यशाला अभवत्, यस्यां गिजुभाई इत्यस्य मार्गदर्शने शिक्षकाः विद्यार्थिनः पाठयन्ति स्म ।
गिजुभाई यदा कुमारविद्यालये पाठयति स्म, तदा तेनानुभूतं यत्, “कुमारावस्थायां प्राप्ते सत्यपि बालकानां योग्यविकासः न जातः अस्ति । यतो हि एतेषां पूर्वशिक्षणं योग्यरीत्या नाभवत्” इति । बहूनां दिनानां मार्गान्वेषणानन्तरं गिजुभाई बालविद्यालयस्य स्थापनायाः निर्णयम् अकरोत् । तस्य चिन्तनम् आसीत् यत्, “कुमारावस्थायाः अपेक्षया बाल्यावस्थायां बालकनां विकासः अधिकवेगेन भवितुम् अर्हति । बाल्यावस्थायाः योग्यशिक्षणम् एव कुमारावस्थायां विकासस्य आधारः भवति । अधुना कुमारछात्राणां पृष्ठे यः परिश्रमः भवति, सः धूलिकायां गोमलस्य लेपनवत् भविष्यति” इति । अतः १९२० तमस्य वर्षस्य 'अगस्त'-मासस्य प्रथमे (१/८/१९२०) दिनाङ्के गिजुभाई बालविद्यालयस्य स्थापनाम् अकरोत् ।
बालशिक्षणे क्रान्तिः
[सम्पादयतु]बालकाः यदा विद्यालयं गच्छन्ति, तदा तेषां मनसि कोऽपि विशेषभावः न भवति । तेषां मनसि शून्यम् एव भवति । अतः गिजुभाई इत्यनेन शून्यात् सर्जनं कर्तव्यम् आसीत् । शून्यात् सर्जनस्य भावः एव गिजुभाई इत्यस्मिन् नवचेतनाम् अपूरयत् । गिजुभाई पूर्वापेक्षया शीघ्रं कार्यं करोति स्म । स्वल्पे एव काले गुजरातराज्यस्य प्रत्येकस्मिन् कोणे दक्षिणामूर्तेः बालशिक्षणस्य चर्चा आरब्धा । विभिन्नानां पाठशालानाम् आचार्याः गिजुभाई इत्येनम् आहूय मार्गदर्शनम् इच्छन्ति स्म । गुजरातराज्यस्य विभिन्नेभ्यः स्थानेभ्यः जनाः दक्षिणामूर्तेः बालविद्यालयं द्रष्टुं गच्छन्ति स्म । गिजुभाई इत्यस्य लक्ष्यम् आसीत् यत्, “बालकानां विकासः भवेत् । तेषां भविष्यस्य सम्भावना पूर्णरीत्या समुद्भवेत्” इति । परन्तु तल्लक्ष्यं प्राप्तुं शिक्षकाणां, पालकानां च मार्गदर्शनम् आवश्यकम् आसीत् । गुजरातराज्यस्य विद्यालयेषु दण्डस्य स्थानं क्रीडाः, शिक्षायाः स्थानं वार्ताः, रटनस्य स्थानं स्पर्धाः च अनयन् । बालकाः विद्यालयं गन्तुं न बिभ्यति स्म । गिजुभाई इत्यस्य परिश्रमः तु सफलः अभवत्, परन्तु योग्यशिक्षकाणाम् अभावत्वात् शिक्षकप्रशिक्षणस्य आवश्यकता उद्भूता । अतः शिक्षकप्रशिक्षणस्य कार्यम् अपि गिजुभाई इत्यस्य उपरि आपतितम् । दक्षिणामूर्तेः कार्यालये गिजुभाई प्रातरारभ्य रात्रिपर्यन्तं कार्यं करोति स्म । शनैः शनैः तेन अनुभूतं यत्, “शून्यात् सर्जनं भवदस्ति । यत्र बालकानां कृते चिन्तयितुं कोऽपि तत्परः नासीत्, तत्र एतावन्तः जनाः बालशिक्षणार्थम् एवावत् चिन्तनं कुर्वन्तः सन्ति” इति । वयस्कान् स्त्रीपुरुषान् पाठयितुं गिजुभाई इत्ययं रात्रिविद्यालयस्य अपि आरम्भम् अकरोत् ।
साहित्यरचना
[सम्पादयतु]गिजुभाई स्वशक्त्यनुसारं शिक्षणजगतः सेवां कुर्वन् आसीत् । परन्तु शिक्षणक्षेत्रे एतावान् अन्धकारः व्याप्तः आसीत् यत्, एकस्य गिजुभाई इत्यस्य अस्तित्वं न गण्यम् आसीत् । अतः गिजुभाई इत्यनेन अन्धकारं परिहर्तुं साहित्यमाध्यमेन स्वविचाराणां व्यासः वर्धितः । सः बालवार्ताः, बालनाटकानि, बालकाव्यानि च अलिखत्, येन बालकाः हास्येन सह अध्ययनं कर्तुं पारयेयुः । शिक्षकाणां मार्गदर्शनार्थं दिवास्वप्नम् इति पुस्तकम् अलिखत् । दिवास्वप्नम् एतावत् प्रसिद्धम् अस्ति यत्, अद्यापि शिक्षकप्रशिक्षणस्य अभ्यासक्रमे अनिवार्यत्वेन दिवास्वप्नस्य समावेशः भवति । तेन अन्यानि उत्कृष्टसाहित्यानि अपि शिक्षणक्षेत्राय समर्पितानि । यथा –
- शिक्षणसम्बद्धाः रचनाः [५] :-
देवनागरी | गुजराती |
---|---|
दिवास्वप्न | દિવાસ્વપ્ન |
वार्तानुं शास्त्र | વાર્તાનું શાસ્ત્ર |
मा-बाप थवुं आकरूं छे | મા-બાપ થવું આકરૂં છે |
स्वतन्त्र बालशिक्षण | સ્વતન્ત્ર બાલશિક્ષણ |
मॉन्टेसरी पद्धति | મૉન્ટેસોરી પદ્ધતિ |
अक्षरज्ञान योजना | અક્ષરજ્ઞાન યોજના |
बाल क्रीडाङ्गणो | બાલ ક્રીડાંગણો |
शिक्षक हो तो | શિક્ષક હો તો |
घरमां बाळके शुं करवुं | ઘરમાં બાળકે શું કરવું |
- बालसम्बद्धाः रचनाः :-
देवनागरी | गुजराती |
---|---|
ईसपनां पात्रो | ઈસપનાં પાત્રો |
किशोर साहित्य (६ भागाः) | કિશોર સાહિત્ય (૬ ભાગ) |
बाल साहित्य माळा (२५ भागाः) | બાલ સાહિત્ય માળા (૨૫ ભાગ) |
बाल साहित्य वाटिका (२८ भागाः) | બાલ સાહિત્ય વાટિકા (૨૮ ભાગ) |
जङ्गल सम्राट टारज़ननी अद्भुत कथाओ (१० भागाः) | જંગલ સમ્રાટ ટારઝનની અદ્ભુત કથાઓ (૧૦ ભાગ) |
बाल साहित्य माळा – २ (८० भागाः) | બાલ સાહિત્ય માળા- ૨ (૮૦ ભાગ) |
- अन्याः रचनाः :-
देवनागरी | गुजराती |
---|---|
बोरसदनी वीराङ्गनाओ | બોરસદની વીરાંગનાઓ |
बारडोलीनी हिजरत | બારડોલીની હિજરત |
चालो वांचीए | ચાલો વાંચીએ |
प्रसङ्गिक मनन | પ્રાસંગિક મનન |
शान्त पळोमां | શાંત પળોમાં |
आफ्रिकानी सफरे | આફ્રિકાની સફરે |
आफ्रिका साम्भर्युं | આફ્રિકા સાંભર્યું |
स्वतन्त्रतान्दोलने योगदानम्
[सम्पादयतु]१९३० तमे वर्षे आभारतं स्वतन्त्रतायाः ईप्सायां लीनम् आसीत् । सर्वत्र आङ्ग्लविरोधीनि आन्दोलनानि भवन्ति स्म । स्वातन्त्र्यसेनानिनः जनसहयोगेन पदयात्राः, सम्मेलनानि, कारागारयात्राः च कुर्वन्तः आसन् । तेषु दक्षिणामूर्तेः सहस्थापकः नरसिंहः अपि आसीत् । नरसिंहभाई महात्मना प्रेरिते लवणान्दोलने योगदानम् अकरोत् । तस्मिन् आन्दोलने योगदानत्वात् नरसिंहः कारागारे आसीत् । गिजुभाई स्वशिक्षणप्रथायाः परिष्कारस्य कार्ये रतः आसीत् । परन्तु नरसिंहभाई इत्यस्य कारावासस्य समाचारं श्रुत्वा सोऽपि स्वतन्त्रतान्दोलने योगदानं कर्तुम् उद्यतः अभवत् ।
महात्मनः नेतृत्वे गिजुभाई लवणसत्याग्रहे योगदानम् अयच्छत् । परन्तु शिक्षणपूजकः सः स्वतन्त्रतान्दोलने अपि शिक्षणस्य कार्यमेव अकरोत् । स्वतन्त्रतान्दोलनाय यौ दम्पती गृहात् बहिः गच्छतः स्म, तौ स्वशिशूनां विषये मुहुर्मुहुः चिन्तनं कुरुतः स्म । केचन बालकानां पोषणाय आन्दोलनाय अगत्वा गृहे एव तिष्ठन्ति स्म । परन्तु गिजुभाई बालकानां रक्षणस्य, आवश्यकतापूर्तेः च दायित्वं स्वीकृत्य तेषु नवोर्जायाः सिञ्चनम् अकरोत् । ततः बारडोली-ग्रामस्य जनाः निर्भीकतया आन्दोलने भागं ओढुं स्वतन्त्राः आसन् ।
आन्दोलनस्य रणक्षेत्रमपि गिजुभाई इत्यस्य कृते शिक्षणस्य विद्यालयः अभवत् । सः प्रतिदिनं प्रातः ग्राम्यबालकान् स्नापयित्वा (नहला कर) क्रीडामाध्यमेन पाठयति स्म । सः नित्यं नवीनगीतानि, वार्ताः, कथाः च श्रावयित्वा बालकानां सर्जनात्मक-कल्पनात्मक-क्रियात्मकशक्तीनां विकासं करोति स्म । तस्य गीतेषु देशभक्तिः, समर्पणं, त्यागस्य च भावः भवति स्म । बालकाः पितरौ विस्मृत्य आदिनं गिजुभाई इत्यनेन सह पठन्ति स्म, क्रीडन्ति स्म, भ्रमन्ति स्म । ग्राम्यबालानां पाठनस्य तम् अनुभवं गिजुभाई ‘बाळ क्रीडाङ्गण’ (બાળ ક્રીડાંગણ) इत्यनेन पुस्तकमाध्यमेन समाजस्य सम्मुखम् उपास्थापयत् ।
गिजुभाई इत्यनेन आङ्ग्लविरुद्धं बालसेना सज्जा कृता आसीत् । सः आन्दोलनस्य भागरूपाणाम् अनेकानां परिषदां रचनाम् अपि अकरोत् । वानरसेना, माञ्जरसेना इत्यादयः परिषदः आसन् । बालकाः आन्दोलने यथा योग्यं योगदानं दद्युः, तथा तेषां मानसिकविकासः भवेत् इति गिजुभाई इत्यस्य उद्देशः आसीत् । हंसाबेन महेता इत्यस्याः अध्यक्षतायां गुजरातराज्यस्य सुरत-महानगरे वानरसेनायाः एका सभा आयोजिता । सभायाम् अधिकबालकानाम् अपेक्षा नासीत् । यतो हि बालकाः सभासु रुचिं न धरन्ते । परन्तु तस्यां सभायां बालकानां विशालसमूहः आसीत् । व्यवस्थापकस्य सर्वं गणितं व्यर्थम् अभवत् । शनैः शनैः सभायाः वातावरणम् उग्रं, कोलाहलपूर्णं च अभवत् । बालकाः किमपि अनिष्टं न कुर्युः इति गिजुभाई वार्ताः आरभत । एकस्याः पृष्ठे द्वितीया, द्वितीयायाः पृष्ठे तृतीया एवम् अविरतवार्ताः गिजुभाई अकथयत् । सभायां यः कोलाहलः आसीत्, सः “वन्दे मातरम्” जयघोषे परिवर्तितः ।
आन्दोलनस्य दिनेषु यदा बोरसदमण्डले गिजुभाई आसीत्, तदा सः ग्राम्यस्त्रीणां पदयात्रायाः उपरि आङ्ग्लानां दण्डप्रहारम् अपश्यत् । निर्दयिनः आङ्ग्लाः स्त्रीणां सम्मानस्य हननं कुर्वन्तः अमानवीयम् आचरणं कुर्वन्ति स्म । एतादृशं हृदयद्रावकं दृश्यं दृष्ट्वा गिजुभाई 'बारडोलीनी हिजरत' इति पुस्तकम् अलिखत् । स्त्रीणां करुणरोदनस्य, अप्रतिमसाहसस्य च वर्णनं तेन तस्मिन् पुस्तके कृतम् अस्ति ।
देशे आन्दोलनस्य वातावरणं दृष्ट्वा गिजुभाई आश्वस्तः आसीत् यत्, शीघ्रं हि भारतगणराज्यं स्वतन्त्रं भविष्यति इति । परन्तु स्वातन्त्र्यानन्तरं यदि जनाः अशिक्षिताः एव भविष्यन्ति, तर्हि अन्ये आगत्य तान् पराधीनतायाः पाशे बन्धयिष्यन्ति (बाँध देंगे) इति भयः अपि तस्य मनसि आसीत् । अतः सः शिक्षणज्ञानयोजनायाः रचनाम् अकरोत् । सः शिक्षणशास्त्रस्य सिद्धान्तान् जनसामान्यान् कथयति स्म । सः एतस्य प्रचारस्य कृते ‘चालो वांचीए’ (ચાલો વાંચીએ) -नामकम् एकं पुस्तकम् अपि अलिखत् । तस्य पुस्तकस्य प्रप्रथमं सफलप्रयोगं सः बीजल-नामकस्य मन्दिरद्वारपालस्य उपरि अकरोत् । ततः सः प्रतिग्रामं गत्वा शिक्षणस्य, अक्षरज्ञानस्य च प्रचारम् आरभत । भावनगरस्य शासनपक्षः गिजुभाई इत्यस्य साहाय्यम् अपि करोति स्म । गिजुभाई इत्यस्य शिक्षणप्रचारेण प्रभावितः बॉम्बे-प्रदेशस्य मुख्यप्रधानः बाळासाहेब खरे गिजुभाई इत्येनं न्यवेदयत् यत्, “भवान् राज्यस्य प्रौढशिक्षणविभागस्य दायित्वं स्वीकरोतु” इति । परन्तु गिजुभाई बालविकासस्य कार्यं त्यक्तुं नेच्छति स्म । अतः विनयेन सह तत्कार्यं नाङ्ग्यकरोत् ।
अन्तिमदिनेषु गिजुभाई
[सम्पादयतु]गिजुभाई इत्यस्य बालशिक्षणस्य विचारः आगुजरातराज्यम् अङ्गीकृतः । अतः गिजुभाई इत्यस्य मार्गदर्शनार्थं सर्वे तं पौनःपुन्येन आह्वयन्ति स्म । बालशिक्षणेन सह गिजुभाई अन्यस्य मार्गदर्शनार्थं यात्राः अपि करोति स्म । शनैः शनैः तस्य शरीरम् अशक्तम् अभवत्, येन सः रुग्णः अभवत् । व्याधिः, उदरपीडा, श्वसनसमस्या इत्यादिभिः रोगैः सः ग्रसितः अभवत् ।
वैद्यः तं विश्रान्तिं स्वीकर्तुम् अवदत् । परन्तु गिजुभाई वैद्यस्य परामर्शम् अवगण्य नित्यं बालशिक्षणस्य कार्यं करोति स्म । एकदा नरसिंहः अवदत्, “अश्वः यदा श्रान्तः भवति, तदा तु तेन निश्चयेन विश्रान्तिः स्वीकरणीया” इति । नरसिंहस्य व्यङ्ग्यम् अवगम्य गिजुभाई प्रत्युदतरत्, “नानाभाई ! ये जनाः दीर्घायुष्यस्य कामनां कुर्वन्ति, तादृशाः मूर्खाः केऽपि न भवन्ति । शतवर्षस्य आयोः कामनां कृत्वा तस्मिन् आयौ दशवर्षस्यापि कार्यं न करणीयम् इति मह्यं न रोचते । अहं तु पञ्चाशत्वर्षस्य आयौ शतवर्षस्य कार्यं कृत्वा गन्तुम् इच्छामि । भोजनं, शयनं, वृत्तिः, मनोरञ्जनं, विश्रामः इत्यादीनि तुच्छकार्याणि कृत्वैव अहं गन्तु नेच्छामि, अपि तु विशेषकार्यं कृत्वा सन्तोषेण प्रस्थानम् इच्छामि” इति ।
१९१६ तमे वर्षे गिजुभाई दक्षिणामूर्तेः यत् आजीवनसभ्यपदं प्रापत्, तत् १९३६ तमे वर्षे पूर्णम् अभवत् । विनयेन समयस्य अवलोकनं कृत्वा गिजुभाई दक्षिणामूर्तेः त्यागम् अकरोत् । संस्थां न त्यक्तुम् सर्वे अनेकवारं तस्मै परामर्शम् अयच्छन्, परन्तु सर्पः यथा जीर्णत्वचं त्यजति, तथैव गिजुभाई दक्षिणामूर्तेः त्यागम् अकरोत् ।
यद्यपि गिजुभाई चलितुम् अपि असमर्थः अभवत्, तथापि सः स्वकार्यं नात्यजत् । यतो हि तस्य जीवनस्य लक्ष्यद्वयम् अवशिष्टम् आसीत् । सः बालविद्यापीठस्य स्थापनां कर्तुम् इच्छति स्म, तथा च बालज्ञानकोशस्य निर्माणं कर्तुम् इच्छति स्म । परन्तु तल्लक्ष्यद्वयं साकारम् अकृत्वैव सः जीवनस्य यात्रां समापयत् ।
मृत्युः
[सम्पादयतु]एकस्मिन् दिने सः कस्यचित् मूर्खसंन्यासिनः कथां श्रुत्वा बालकवत् अरोदत् । ततः एकस्मिन् पत्रे स्वहृदयपीडाम् अलिखत्, “आत्मदर्शनस्य मम ईप्सा अपूर्णा एव अभवत् । अहं स्वहृदयपीडां कं वदानि ?” इति । एतादृशैः गहनचिन्तनैः सह तस्य जीवनस्य अन्तिमश्वासः निकटम् आगच्छति स्म । सः मृत्युरूपस्य मध्यान्तरस्य प्रतीक्षां कुर्वन् एतस्य जन्मनः विषये बहुधा चिन्तयति स्म । पक्षाघातेन पीडितः सः यदा मुम्बई-महानगरस्य हरिकिशनदास-रुग्णालये आसीत् [६], तदा एकस्मिन् दिने सः अन्वभवत् यत्, तस्य अन्तिमः समयः निकटः अस्ति । अतः सः स्वलेखन्या कांश्चन अन्तिमविचारान् एकस्मिन् पत्रे अलिखत्, "जीवनं शास्वतं नास्ति । अहं स्वजीवनस्य अन्तिमश्वासं स्वीकरोमि । मम मृत्यौ सति कोऽपि मा रोदतु" इति । ततः एकं दीर्घं श्वासं स्वीकृत्य सः देहम् अत्यजत् । जीवनस्य प्रत्येकश्वासं बालसेवायै समर्प्य बालकानां "सस्मश्रुः माता" (मूछाळी माँ) १९३९ तमस्य वर्षस्य 'जून'-मासस्य त्रयोविंशतितमे (२३/६/१९३९) दिनाङ्के जगत् अत्यजत् । तस्य कार्याणि अनेकानां बालकानां, शिक्षकाणां जीवनं पर्यवर्तयन् । अद्यापि तस्य नाम्ना जनमनसि श्रद्धायाः, निष्ठायाः, दृढसङ्कपनायाः भावः समुद्भवति । बालकानां हितेच्छवे कोटिशः नमस्काराः ।
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणम्
[सम्पादयतु]- ↑ "उपनामानि". परिचयदानम्. sureshbjani.wordpress.com. आह्रियत १४/०३/२०१५.
- ↑ "सश्मश्रुः माता". परिचयलेखनम्. teachersofindia.org. Archived from the original on 2014-10-18. आह्रियत १४/३/२०१५.
- ↑ "गिरजाशङ्करः". परिचयलेखनम्. gujaratisahityaparishad.com. आह्रियत १४/३/२०१५.
- ↑ "शिक्षणविद् गिजुभाई बधेका". आह्रियत १४/३/२०१५.
- ↑ "शिक्षणसम्बद्धाः रचनाः". sureshbjani.wordpress.com. sureshbjani. आह्रियत १४/३/२०१५.
- ↑ "हरिकिशनदास-रुग्णालये". परिचयलेखनम्. gujaratisahityaparishad.com. आह्रियत १४/३/२०१५.