गीतातात्पर्यम्
गीतातात्पर्यम् मध्वाचार्येण लिखितमेकम् विशिष्टः ग्रन्थः वर्तते ।
- “गीतातात्पर्यभाष्याभ्यांमाभ्यां विश्वं प्रकाश्यते” ।
- गोगणैरप्रतीकारैरर्केन्दुभ्यांमिवाधिकम् ॥
इति सुमध्वविजयं गीतामधिकृत्य आचार्यकृत भाष्यं नारायणपण्डिताचार्याः अवर्णयन् ।
श्रीमदाचार्यग्रन्थवैशिष्ट्यम्
[सम्पादयतु]द्वैतसिद्धान्तप्रतिष्ठापनाचार्यस्य भगवतः आनन्दतीर्थमुनेः अपूर्वं वैशिष्ट्यमिदं तत्प्रणीतग्रन्थपरिचयवतां विदुषां लक्ष्यतामवश्यमेवार्जयति यदयं प्रतनेन केनापि दार्शनिकेन अक्षुण्णवेदान्तवर्त्मचारी महादार्शनिकः स्वसिद्धान्तस्थापनाय प्रवर्तितानां प्रस्थानत्रयव्याप्यानावाम् अपरासां च कृतिनां रचते असाधारणं कौशलं प्रकाशयदिति । प्रस्थानत्रयस्य भाष्यं विधायषि भाष्यलक्षणाभिज्ञः पूर्णप्रज्ञः न तावता पर्यतुष्यत् । पर्यमंस्व च जिज्ञासुसन्देह सन्देहसमोन्मूलनाय परभाष्यापादितविपर्ययपराकरणाय च ब्रह्मसूत्रादिसारसर्वं स्वोद्धरणपराः कृतयोऽप्यावश्यकाः इति । निरमासीच्च अत एव सूत्रभाष्यम् ‘अणुभाष्यम्’ इतिहासप्रस्थानपरं ‘महाभारततात्पर्य्यनिर्णयम्’ ‘पुराणप्रस्थानतत्त्वप्रकाशनपरम्’ ‘भागवततात्पर्य्यनिर्णयम्’ तथैव गीताभाष्यम्, अनुगीतार्थसारसंग्राहकम् ‘गीतातात्पर्यनिर्णयम्’ एवमन्यां च ग्रन्थान् रचितवान् ।
‘गीतातात्पर्यस्य वैशिष्ट्यम्’
[सम्पादयतु]यथा चानुव्याख्याने- ब्रह्मसूत्ररचनेन गतार्धतामाशङ्कस्य “स्वयं कृतापि तद्वव्यारण्या क्रियते स्पष्टतार्थतः” इति अनुव्याख्यानस्य प्रणयनस्य सार्थक्यं प्रत्यपीपदत तथाऽत्रापि “गीतातात्पर्यमुच्यते” इति प्रतिज्ञचैव गीताभाष्यरचनानन्तरमपि गीतातात्पर्यप्रणयनस्य आवश्यकतां स्वयमेवावोचद्भगवानाचार्यः । यथाऽहं श्रीजयमुनिः ‘स्वयमेव गीताभाष्यस्य कृतत्वात् किं पुनरारम्भेणेप्यतः तात्पर्यमित्युक्तम् । व्याख्यातत्वेऽपि गीतायास्तदर्थस्य शिष्याणां बुद्धयारोहार्थं शब्दानुकरणाद्यन्तरेण पुनस्तात्पर्यमेवोच्यते इति भावः। सुस्पष्टमिदमेतैर्वाक्यैर्यत् गीताभाष्ये एव सङ्क्षेपतः सूचितस्य, तत्र, तत्र निक्षिप्य रचितस्य वा, क्वचिच्च भाष्ये अनुक्तस्यैव गीतातत्पर्यस्य स्फुटीकरणं अपव्याख्यान निरासेनं स्वोक्तार्थस्य दृढीकरणं च गीतातात्पर्यै क्रियते इति । उद्देश्यश्चायं भागवतस्तात्पर्यकृतः सर्वथा सफला इति तु सुवक्तव्यमेव अतिरोहित विमतीनां विमर्शनशीलानां प्राज्ञानाम् । अथापि कतिपथानां तादृशानां निदर्शनानां अत्र प्रदर्शनं सर्वथा नानौचित्यमावहतीति प्रत्ययेन तेषां निरूपणे किञ्चिदिव प्रवर्तते । गीताभाष्यस्यादौ ‘महाभारतान्तर्गतत्वात् भगवद्गीतायाः तस्याऽपि तत्सेत्स्यते’ इत्याशयेन महाभारतप्रामाण्यं साधयितुकामेन भगवता महाभारतसंहिता तावत् ‘सर्ववेदार्थबृंहिता तदनुक्तकेवलेश्वरज्ञानदृष्टार्थयुक्ता च’ इति समुपावर्णि अनन्तरं च गीतेयं ‘सर्वभारतार्धसङ्ग्रहात्मिका यदुक्तं-भारतपारिजातमधुभृता’ च ।
- “इत एव पुराणगौरगौ समहाभारतपारिजातके ।
- सति जातवति व्यजायत प्रवरं सूत्रगणामृतं स्वयम्” ॥
इति गीतायाः सर्वशास्त्रसारत्वं समासूचि । गीतातात्पर्ये चारम्भे गीतामवतारयितुकामेन आवार्येन ‘स्वविहितवृत्या भक्त्या भगवदाराधनमेव परमो धर्मस्तद्वितुद्धः सर्वोऽप्यधर्मः भगवदधीनत्वात् सर्वस्येति बोधयति भगवन्नारायणः’ इति गीताप्रतिपाद्यः सर्वशास्त्रसारः समग्राहि । गीताप्रतिपाद्यत्वेन अत्र सङ्गृहीताश्च ‘सर्वधर्मेणैव- भगवदाराधनस्यैव कर्तव्यत्वं तदन्यस्य त्याज्यत्वं, विष्णुभक्तेः सर्वसाधनोत्तमत्वं, ज्ञानिनोऽपि मोक्षस्य भगवदधीनत्वं, सर्वस्मात् भगवतो भेदः, सर्वस्य तदधीनत्वं, भगवतः सर्वगुणपरिपूर्णत्वं, सर्वशास्त्राणां भगवत्परत्वं इत्यादयः प्रमेयः गीतायां निरुप्यन्ते’ इति एतत् विपुलतया तत्र प्रमेयप्रदिपादकगीताश्लोकोदाहरणे न अत्यन्तसमिचीनतया प्रादर्शि । एवमादावेव गीतातात्पर्यस्य गीताभाष्योक्तस्पष्टीकरणपरत्वं समासूचयदाचार्यवर्यः । गीतायाः बह्वर्थगर्भितत्वप्रदर्शनमपि तात्पर्यकर्तुरभिप्रेतम् । ‘नासतो विद्यते भावः’ इति श्लोकव्याख्यानमत्रैकं निदर्शनं । गीताभाष्ये हि अस्वच्छन्दस्य प्रकृति परत्वं, स्वच्छन्दस्य ब्रह्मपरत्वं, ‘असतः अभावः’ इति पदच्छेदं च स्वीकृत्य न केवलमात्मा नित्यः किन्तु प्रकृतिः ब्रह्म च नित्यमिति आत्मनो नित्यत्वसाधने दृष्टान्तप्रदर्शनपरतया श्लोको व्याख्यातः । गीतातात्पर्ये तु सदसदच्छन्दयोः सत्कर्मासत्कर्मपरत्वं भावाभावशब्दयोः च सुखदुःखपरत्वं सप्रमाणं प्रदर्श्य, भगवद्वोषिहननरूपस्वधर्मस्य सत्कर्मत्वात् सत्कर्मणः सकारात् दुःखस्य असत्कर्मणश्च सकारात् सुखस्य चा भावात् बन्धुहननरूपात् युद्धात् परलोके दुःखशङ्कायाः युद्धत्यागो न कर्तव्यः इति मनोज्ञा व्याख्या दर्शिता । अपूर्वस्यात्यन्तस्वरस्य आचार्यस्य निरूपणमाचार्यस्य अन्यद्वैशिष्ट्यम् । ‘योगे त्विमां श्रुणु’ इति प्रतिज्ञातज्ञानोपायनिरूपणार्धं प्रस्तुतं ‘त्रैगुण्यविषया वेदानिस्त्रैगुण्यो भवार्जुन’ इति लोकं ‘त्रैगुण्याख्यं विषयापयन्त्यपगमयन्तीति- त्रैगुण्यविषया वेदाः । तानाश्चित्य निस्त्रैगुण्यो भव’ । इति व्याचरव्याचार्यः । आचार्यस्येयं क्लिष्टकल्पना तस्य व्याख्यानाकौशलमेव संसूचयति इति केचित् किन्तु-
- आश्रित्य वेदांस्तु पुमान् त्रैगुण्यविषहारिणः ।
- विस्त्रैगुण्यो भवेन्नित्यं वासुदेवैकसंश्रयः ॥
इति स्मृतिं स्वव्याख्याने प्रमाणयतः आचार्यस्येयं कल्पना क्लिष्टेति केवलं प्रमाणपरिचयदरिद्राणां प्रतिभायात् । अपि च इममेव श्लोकं गीताभाष्ये ‘वेदानां परोक्षार्चत्वात् त्रिगुणसम्बन्धि स्वर्गदि प्रतीताधौ इव भाति । परोक्षवादी वेदोऽयं इति द्युक्तम् । अतः प्रतीतिकैऽधै भ्रान्तिं मा कुरु इत्यर्धः’ ।
इति व्याख्यातुराचार्यस्य अक्लिष्टे व्याख्यानेऽपि शक्तिर्न कुण्ठिता । इति यदुक्तं
- “अक्लिष्टशब्दन्वयमेष सम्भवत्सूत्रार्धमुच्चैर्वचनं तदाऽऽददे ।
- मानीकृताम्राययुतस्मृति क्षणादेष्यत्कघाताण्डवसूत्रधारकम् ॥” तदुचितमेवेति ।
ग्रन्थरचनासमये मध्वाचार्यः षोडषवर्षीयः आसीत् इति। ब्रह्मसूत्रभाष्यम् रचितः मध्वाचार्यः अनुव्याख्यानस्य राचनापेक्षां निवेदितवान् आसीत् सा एव अपेक्षा अत्रापि अनुवर्तते। सूत्रभाष्यस्य अर्थस्पष्टीकरणाय अनुव्याख्यानं यथा रचितवान् तथा गीताभाष्यस्य अर्थस्पष्टीकरणाय गीतातात्पर्यं रचितवान् इति। आरम्भे सः गीतातात्पर्यस्य विषये एवं लिखति, “स्वविहितवृत्या भक्त्या भगवदाराधनमेव परमो धर्मः, तद्विरुद्धः सर्वोऽप्यधर्मः, भगवदधीनत्वात् सर्वस्य” इति बोधयति भगवान् नारायणः।“ समनन्तरं क्षत्रियेभ्यः युध्दं स्वधर्मः भवति। स्वधर्मम् आचरन् भगवदारधनम् एव सर्वेषां कर्तव्यं भवति। विष्णुभक्तिः एव श्रेष्ठसाधनं भवति। परोक्षापरोक्षज्ञान्योः मोक्षः भगवदधीनं भवति। निषिद्धकर्म त्याज्यः। सर्वेभ्यः भगवदाराधनरूपं स्वधर्मः भवति। एते विषयाः अस्मिन् ग्रन्थे विशिष्टतया निरूपिताः सन्ति। गीताभाष्यं तथा गीतातात्पर्यग्रन्थेभ्यः श्रीजयतीर्थः क्रमशः प्रमेयदीपिका तथा न्यायदीपिका इति व्याख्याने वर्तेते। मध्वाचार्यस्य शिष्यः श्रीपद्मनाभतीर्थः गीताभाष्यं तथा गीतातात्पर्येभ्यः प्रकाशिका इति टिकां रचितवान्। गीताभाष्य-गीतातात्पर्य-सम्मिलितः गीताविवृत्तिः इति राघवेन्द्रस्वामिनः ग्रन्थः गीतासुधाबुभुत्सूनां अत्युपयुक्तः भवति