गुण्डिचामन्दिरम्
गुण्डिचामन्दिरं जगन्नाथस्य बलभद्रस्य सुभद्रादेव्याः च जन्मस्थानम् इति कथ्यते |
रथयात्रायाः सप्तदिनानि अत्र देवाः तिष्ठन्ति | श्रीगुण्डिचामन्दिरे यस्मिन् सिंहासने देवाः त्रयः उपविष्टाः सन्ति,तान् आडपमण्डपः इति कथ्यते ।अस्य अर्थः भवति भव्यमण्डपः। महावेदी याज्ञवेदी वा इत्यपि कथ्यते । त्रयः रथाः यदा गुन्दिचामन्दिरे विराजन्ते तदा तत्र देवानां पहण्डिविजे भवति, नाम तेषां मन्दिरस्य अन्तः प्रवेशः भवति। . गुण्डिचमन्दिरप्रवेशसमये तस्य पुनरागमनसमयपर्यन्तं मन्दिरे यः प्रसादः क्रियते तम् आडप-अवडा इति कथ्यते।
किंवदन्ती
[सम्पादयतु]श्रीगुण्डिचमन्दिरं मन्दिरस्य स्थाने गुण्डिचागृहम् इति मन्यते । आख्यानानां पौराणिककथानां च अनुसारेण द्वारिकाधिशः श्रीकृष्णः जाराशवरस्य शराघातेन जीवनं त्यक्तवान् । अन्तिमे वान्धवाः पाण्डवाः श्रीकृष्णस्य शरीरं दाहं कर्तुं प्रयतन्ते स्म परन्तु असफलाः अभवन्, यतः अग्नेः दाहिकाशक्तिः श्रीकृष्णस्य पुर्णब्रह्मयुक्तस्य शरीरस्य विघटनं कर्तुं समर्था नासीत् । भविष्यद्वाणी अभवत् यत् श्रीकृष्णस्य नाभिकमलस्य दहनं न अभवत्, भवन्तः तत् महोदधौ विसर्जनं कुर्वन्तु इति । तदेव पाण्डवाः अकुर्वन्।
श्रीकृष्णस्य अर्धदग्धपिन्डम् दारुरूपेण् बाङ्किमुखे प्रादुर्भूतम्। राजा इन्द्रदुम्नः समुद्रे प्लवमानं दारुम् आनयन् श्रीगुण्डिचामन्दिरे स्थापितवान् । भगवान् स्वयं वृद्धत्वेन आगत्य तेन दारुणा मूर्तिं निर्मितवान् । यावत् प्रतिमा पूर्णा न भवति तावत् द्वारं न उद्घाट्यते इति शर्तः आसीत् । परन्तु राजा पञ्चदशदिनानन्तरं द्वारं उद्घाटितवान् । तदा मुर्त्तिनिर्माणकारी तत्र नासीत् । केवलं अर्धं प्रतिमा अवशिष्ठः आसीत् । मन्दिरे अर्धनिर्मितमुर्त्तिः स्थापिता आसीत् ।. तस्मिन् समये महाप्रभुः अवदत् 'राजन् वर्षे एकवारं मां स्वजन्मभूमिं आनयतु इति । अत एव त्रयः देवाः गुण्डिचागृहं प्रति आगत्य पुनः प्रत्यागच्छन्ति।