चतुरङ्गक्रीडा
चतुरङ्गक्रीडा(Chess) एका बहुप्रसिद्धा पारम्परिकक्रीडा वर्तते ।

चतुरङ्गक्रीडा द्वन्द्वक्रीडा वर्तते । एषा क्रीडा शारिपट्टे (Chess board) क्रीडन्ति । अस्मिन् शारिपट्टे ६४ समचतुरस्राः वर्तन्ते । एतादृशाः समचतुरस्राः एकस्मिन् पङ्क्तौ अष्ट योजितं वर्तते । आहत्य अष्टपङ्क्तयः वर्तन्ते । अत्र प्रत्येकस्य क्रीडकस्य सविधे १६ पदातयः भवन्ति । तेषां नामानि अधः निर्धिष्टवत् सन्ति,
पदातीनां नाम | पदातीनां संख्या |
---|---|
राजा | १ |
सेनापति | १ |
रथः | २ |
अश्वः | २ |
हस्तिः | २ |
पदातिः | ८ |
चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति, तदानीं स्पर्धी विजेता भवति तथा च क्रीडायाः समाप्तिः भवति । चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति तादृशस्थितिम् आङ्ग्लभाषायां चेक्मेट् (Checkmate) इत्युच्यते ।
चतुरङ्गक्रीडायां रुचिः जगति प्रायः सर्वेषां वर्तते । अस्य क्रीडायाः स्पर्धा विभिन्नस्तरेषु भवति । तेषां नामानि एवं भवति,
- विश्वचतुरङ्गविजेता
- विश्वमहिला्चतुरङ्गविजेत्री
- विश्वबालकानां चतुरङ्गविजेता
- विश्वज्येष्ठानां चतुरङ्गविजेता
- विश्वदूरस्थचतुरङ्गविजेता
- विश्वसङ्गणकचतुरङ्गविजेता
चतुरङ्गक्रीडायाः मान्यता विश्वओलम्पिक् समितिः एवं विश्वचदुरङ्गसंस्थायाः वर्तते । चतुरङ्गक्रीडायां विभिन्नप्रकाराः वर्तन्ते ।
इतिहासः[सम्पादयतु]
अस्याः क्रीडायाः प्रारम्भः गुप्तसाम्राज्यस्य काले अभवत् । तदानीमेव तस्य नाम चतुरङ्गम् इति आसीत् । तस्मिन् काले पदातीनां नामानि अश्वः,रथः,हस्तिः आसन् । कालान्तरे नैट्(knight),बिशप्(bishop),रूक्(rook) इति नामानि व्यवहारे आगतानि । ६०० तमे वर्षे पारस्यदेशे एषा क्रीडा आसीत् इत्यस्मिन् विषये साक्षाधाराः लभ्यन्ते । तस्मिन् काले चत्रङ्ग् इति चतुरङ्गक्रीडायाः नाम आसीत् । चत्रङ्ग् इति नामोल्लेखः पर्शिया अथवा इरान्-देशस्य त्रिषु प्रणयमाहाकाव्येषु श्रूयते । ६३३ तमात् वर्षादारभ्य ६४४ तमस्य वर्षस्य काले पारस्य देशः इस्लाम्-धर्मस्य शासनाधीने आसीत् । तस्मिन् काले चत्रङ्ग् इत्यस्य शत्रञ्ज् इति नामान्तरम् अभवत् । स्पेन्-देशे शत्रञ्ज् इत्यस्य अखेद्रेज़्(ajedrez) इति उच्चारणम् । पोर्चुगीस् भाषायां सद्रेज़्(xadrez) इति उच्चारणम् । ग्रीक् भाषायां ज़द्रिकियान्(zatrikion) इति उच्चारणम् । परन्तु इतरस्मिन् युरोप् प्रदेशे आङ्ग्लपदं चेक् इत्यस्मात् चेस् इति उच्चारणं व्यवहारे आगतम् । १३ शतके ताळपत्रे अस्याः क्रीडायाः विषये उल्लेखः लभ्यते । अस्य क्रीडायाः आरम्भः चीनादेशस्य ज़्याङ्कि क्रीडातः इत्यपि श्रूयते ।
प्रथमविश्वविजेता विल्हेम् स्टैनेट्स् १८८६ तमे वर्षे अभवत् । वर्तमानकाले चतुरङ्गविश्वविजेता म्याग्नस् कार्ल्सनः वर्तते । १९९७ तमे वर्षे प्रथमवारं विश्वचतुरङ्गविजेताक्रीडा डीप् ब्लू इति सङ्गणकस्य साहाय्येन सङ्गणकद्वारा क्रीडायाः स्पर्धा आरब्धा ।
चित्रमुद्रिका[सम्पादयतु]
-
क्रीडाशैली
-
रथस्य गमनशैली
-
सैनिकस्य गमनशैली
चित्रवीथिका[सम्पादयतु]
-
चतुरङ्गघटी
-
चदुरङ्गक्रीडायाः स्थानसंख्या
-
आधुनिककाले चतुरङ्गस्य चिह्नानि
-
वीथ्यां बालकयोः चतुरङ्गक्रीडा