चन्द्रप्रकाश द्विवेदी
चन्द्रप्रकाश द्विवेदी | |
---|---|
चन्द्रप्रकाशमहोदयस्य एकस्मिन् कार्यक्रमे उपस्थितिः | |
जन्म |
१९६० अन्धेरी-पत्तनं, मुम्बई-महानगरं, महाराष्ट्रराज्यम् |
जन्मनाम | चन्द्र प्रकाश |
निवासः | मुम्बई |
राष्ट्रियता | भारतीयः |
इतरनामानि | चन्द्रप्रकाश चाणक्य |
लिङ्गम् | पुरुषः |
शिक्षणम् | वैद्यकः (MBBS) |
शैक्षिकयोग्यता | विद्यावारिधिः |
वृत्तिः |
वैद्यः, चलच्चित्रनिदेशकः, चलच्चित्रलेखकः, अभिनेता |
सक्रियवर्षाणि | १९८४ तः |
प्रख्यातिः | चाणक्यः |
मुख्यकार्यम् | चाणक्यधारावाहिकस्य निर्माणम् |
मूलनिवासस्थानम् | राजस्थानराज्यम् |
धर्मः | हिन्दुः |
पतिः/पत्नी | मन्दिरा द्विवेदी |
अपत्यानि | नयनिका द्विवेदी |
प्रशस्तयः |
|
चन्द्रप्रकाश द्विवेदी ( ( शृणु) /ˈxəndrəprəkɑːʃ dɪvɛdiː/) (हिन्दी: चन्द्रप्रकाश द्विवेदी, आङ्ग्ल: Chandraprakash Dwivedi) इत्ययं प्रख्यातः कथानक-लेखकः, निदेशकः, अभिनेता, इतिहासविद् च वर्तते । भारतीयदूरदर्शने तस्य चाणक्य इत्याख्यं धारावाहिकम् अति प्रसिद्धम् अस्ति । तस्मिन् धारावाहिके सः मुख्यनायकस्य चाणक्यस्य अभिनयम् अकरोत् । चाणक्यः (C. ३७० – C. २८३ BCE) उत्कृष्टः शिक्षकः, दार्शनिकः, देशभक्तः च आसीत् । सः कौटिल्यः अथवा विष्णु गुप्त इति नाम्ना अपि प्रसिद्धः आसीत् । चाणक्यस्य देशभक्त्याः विचारान् वर्तमानभारतस्य सम्मुखम् उपस्थापयितुं चन्द्रप्रकाश द्विवेदी चाणक्यसम्बद्धानि अनेकानि पुस्तकानि अपठत् । ततः सः चाणक्याख्यं धारावाहिकम् अरचयत् । तस्य धारावाहिकस्य निर्माणं, लेखनं, निदेशनं, मुख्यपात्राभिनयं च सः एव अकरोत् ।
१९९६ तमस्य वर्षस्य मृत्युञ्जय-आख्यस्य धारावाहिकस्य निदेनशम् अपि चन्द्रप्रकाशः अकरोत् । मृत्युञ्जयधारावाहिकं कर्णस्य जीवनाधारितं धारावाहिकम् आसीत् । तस्य धारावाहिकस्य बहवः अभिनेतारः स्वाभियनयार्थं पुरस्कारं प्रापन् । श्रीचन्द्रप्रकाशः स्वयम् अपि Screen Videocon Best Director इति पदकं प्रापत् ।
चन्द्रप्रकाशेन भारतीयचलच्चित्रेषु अपि महद्योगदानं प्रदत्तम् । २००३ तमे वर्षे पिञ्जर-आख्यं चलच्चित्रं सः निर्मात् [१] । २०१२ तमस्य वर्षस्य प्रख्यातं धारावाहिकम् "उपनिषद् गङ्गा" अपि चन्द्रपकाशस्य निदेशनस्य फलम् आसीत् । Indian Telly Jury Award for Best Background music for a TV Program (fiction), Indian Telly Jury Award for Best Dialogue Writer (drama series & soap) इत्येते पदके "उपनिषद् गङ्गा"-धारावाहिकं प्रापत् [२] ।
श्रीचन्द्रप्रकाशस्य अनेकानि कार्याणि जनानां सम्मुखं सन्ति । परन्तु विभिन्नैः कारणैः वशीभूतानि अनेकानि कार्याणि जनानां सम्मुखं नागतानि, इतोऽपि तस्य तानि कार्याणि अपूर्णानि एव । एतस्मिन् विषये श्रीचन्द्रप्रकाशः अवदत्, "भारतीयचलच्चत्रक्षेत्रे मम स्मरणं 'किं कृतवान्' इत्यस्य अपेक्षया 'किं न कृतवान्' इत्यस्य कृते अधिकं भविष्यति" इति । अत्र मृत्युञ्जय-आख्यं धारावाहिकं, 'लेजण्ड् ऑफ् कुणाल' इत्येतत् चलच्चित्रम्, 'एक और महाभारत'-धारावाहिकं च तस्य अपूर्णप्रकल्पस्य स्मरणं कारयति [३] ।
जन्म, शिक्षणञ्च
[सम्पादयतु]१९६० तमे वर्षे भारतस्य पश्चिमभागे स्थितस्य महाराष्ट्रराज्यस्य मुम्बई-महानगरस्य उपनगरत्वेन प्रसिद्धे अन्धेरी-पत्तने चन्द्रप्रकाशस्य जन्म अभवत् । तस्य पिता अन्धेरी-स्थिते विद्यालये संस्कृताध्यापकत्वेन कार्यं करोति स्म । सामान्यशिक्षकत्वात् श्रीचन्द्रपकाशस्य पितुः आर्थिकस्थितिः मध्यमा आसीत् । परन्तु संस्कृतस्य गूढज्ञानस्य बलेन चतुसॄषु दिक्षु तस्य ख्यातिः आसीत् । मूलभारतीयसंस्कृतेः रक्षकः सः संयुक्तपरिवारे निवसति स्म । एवं श्रीचन्द्रप्रकाशस्य संस्काराः बाल्यादेव भारतीसंस्कृतियुक्ताः अभूवन् । पितृत्वस्य परिवारेण सह, पितामहेन सह उपहास्यं, मातामह्याः कथाः इत्यादिषु तस्य बाल्यं व्यतीतम् [४] ।
शालायां श्रीचन्द्रप्रकाशस्य गणना उत्तमेषु छात्रेषु भवति स्म । अतः तस्य मित्राणि अपि अधिकानि आसन् । सर्वेऽपि मित्राणि तस्य समीपे स्थातुं स्पर्धां कुर्वन्ति स्म । कक्षायां श्रीचन्द्रप्रकाशः योग्यविद्यार्थी आसीत्, अतः शिक्षकाः अपि तस्मात् प्रभाविताः आसन् । एकदा संस्कृतस्य शिक्षकः परीक्षायाः उत्तरप्रत्राणि छात्रेभ्यः प्रतियच्छति स्म । तदा शिक्षकः एकम् उत्तरपत्रं प्रदर्श्य अवदत्, "कक्षायाम् एकः विद्यार्थी अस्ति, यः संस्कृतं सम्यक् जानाति । एतत् उत्तरपत्रं तस्य अस्ति । कस्य अस्ति एतत् पत्रम् ? इति । शिक्षकस्य वचनं श्रुत्वा धैर्येण श्रीचन्द्रप्रकाशः हस्तम् उन्नीय अवदत्, "महोदय ! तत् उत्तरपत्रं मम अस्ति" इति । शिक्षकः तम् अपृच्छत्, "त्वं एतावत् संस्कृतं कथं जानासि ?" इति । श्रीचन्द्रप्रकाशः प्रत्युदतरत्, "मम पिता संस्कृतस्य शिक्षकः अस्ति । ममापि संस्कृतविषये गहना रुचिः वर्तते" इति [५] ।
शालायाः अध्ययनं समाप्य श्रीचन्द्रप्रकाशेन चिकित्साविषयस्य (MBBS) अध्ययनं प्रारब्धम् । पञ्चवर्षेषु चिकित्साविषयम् अधीत्य सः चिकित्सकत्वेन कार्यं कुर्वन् आसीत्, परन्तु सहसा तेन स्वाजीविका परित्यक्ता । यतो हि भारतीयसाहित्ये तस्य गहना रुचिः समुद्भूता [६] । अतः सः रङ्गमञ्चक्षेत्रे कार्यं प्रारभत ।
साक्षात्कारसमये स्वबाल्यकालं स्मृत्वा श्रीचन्द्रप्रकाशः स्वजीवनस्य प्रेरणास्रोतव्यक्तीनाम् उल्लेखम् अकरोत् । सः अकथयत्, "मम जीवने तिसॄणां व्यक्तीनां प्रभावः अधिकः आसीत् [७] । प्रप्रथमः मम पिता, यः संस्कृतशिक्षकः आसीत् । मम गृहे पितुः संस्कृतस्य पुस्तकानि अहं सर्वदा पश्यामि स्म । सामान्यजनैः यादृशानां पुस्तकानां नाम अपि न श्रुतं स्यात्, तादृशानि पुस्तकानि अहं बाल्यकाले पठामि स्म । यथा – बृहदारण्यकोपनिषद्, कठोपनिषद्, लघुसिद्धान्तकौमुदी इत्यादीनि पुस्तकानि मया बाल्यकाले किञ्चित् पठितानि । मम जीवने येषां प्रभावः आसीत्, तेषु द्वितीयः आसीत् देवनाथ सिंह । देवनाथमहोदयः मम इतिहासविषयस्य शिक्षकः आसीत् । सः इतिहासविद् तु आसीदेव, परन्तु उत्तमः साहित्यकारः अपि आसीत् । सः इतिहासस्य घटनानां निरूपणं विद्यार्थिनां सम्मुखं यदा करोति स्म, तदा साहित्यिकच्छटया ऐतिहासिकघटनानां वर्णनं करोति स्म । तेन कृतेन वर्णनेन इतिहासस्य घटनाः मम सम्मुखं नरीनृत्यन्ते इति भावः भवति स्म । एवं मम इतिहासं, साहित्यं च प्रति प्रेम समुद्भूतम् । ततः मम रुचिः साहित्यक्षेत्रे अपि अवर्धत । तृतीया व्यक्तिः, यया मम जीवनं प्रभावितं सः मम हिन्दीशिक्षकः आई बी सिंह । सः हिन्दीभाषायाः शब्दान् अतिमाधुर्येण, असामान्यरीत्या च प्रयुञ्जते स्म । अहम् अद्यापि स्मरामि तस्य वचनानि । यथा – 'और उन्होंने क्रान्ति के बीज बोए...' । एतैः शब्दैः ज्ञानं भवति स्म यत्, शब्दमाध्यमेन कापि व्यक्तिः क्रान्तेः बीजानि वपितुं शक्नोति इति । एतेषां सर्वेषां प्रभावः बाल्यकालाद् मयि आसीत् । अतः अहं चिकित्साविषयस्य (MBBS) ज्ञानं प्राप्य अपि कलां प्रति आकृष्टः अस्मि" इति ।
श्रीचन्द्रप्रकाशस्य योगदानम्
[सम्पादयतु]रङ्गमञ्चक्षेत्रे कार्यं यदा श्रीचन्द्रप्रकाशेन प्रारब्धं, तदा प्रारम्भिक्याम् अवस्थायां तेन बहुसङ्घर्षः कृतः । परन्तु तस्य अविरतपरिश्रमस्य फलस्वरूपतः सः लेखनक्षेत्रे, निदेशनक्षेत्रे च स्वप्रतिष्ठां स्थापयितुं समर्थः अभवत् । १९८६ तमस्य वर्षस्य अप्रैल-मासस्य सप्तमे (७/४/१९८६) दिनाङ्के श्रीचन्द्रप्रकाशेन दूरदर्शनमाध्यमस्य कर्मचारिणः सम्मुखं चाणक्य-धारावाहिकस्य प्रसारणं कर्तुं प्रस्तावः कृतः । तत् धारावाहिकम् अतिप्रसिद्धम् अभवत् । ततः १९९० तमे वर्षे सः 'Zee TV' नामकस्य दूरदर्शनजालस्य अध्यक्षः अभवत् ।
१९९१ तमस्य वर्षस्य सितम्बर-मासस्य अष्टमे (८/९/१९९१) दिनाङ्के दूरदर्शनमाध्यमेन चाणक्य-धारावाहिकस्य प्रसारणम् आरब्धम् । तत् प्रसारणं १९९२ तमस्य वर्षस्य अगस्त-मासस्य नवमे (९/८/१९९२) दिनाङ्के पूर्णम् अभवत् । तस्य धारावाहिकस्य निर्माणकार्यं श्रीचन्द्रप्रकाशेन सार्धैकवर्षे समापितम् आसीत् । तस्मिन् धारावाहिके सः मुख्यभूमिकायाः अर्थात् चाणक्यत्वेन अभिनयम् अकरोत् [८] ।
चाणक्यधारावहिकस्य केचन प्रशंसकाः श्रीचन्द्रप्रकाशं "चन्द्र प्रकाश चाणक्य" एव वदन्ति [८] । तस्य धारावाहिकस्य ख्यातिः चिरकालीना वर्तते ।
उपनिषद् गङ्गा-धारावाहिकम्
[सम्पादयतु]२०१२ तमस्य वर्षस्य मार्च-मासस्य एकादशे (११/३/२०१२) दिनाङ्के उपनिषद् गङ्गा-आख्यस्य धारावाहिकस्य प्रसारणं दूरदर्शनमाध्यमेन आरब्धम् । यतो हि तस्य धारावाहिकस्य आरम्भकाले एव सुनिश्चितम् आसीत् यत्, उपनिषद् गङ्गा-धारावाहिकं केवलं द्विपञ्चाशत् (५२) प्रकरणात्मकं धारावाहिकं भविष्यति इति । अतः तस्य धारावाहिकस्य प्रसारणं २०१३ तमस्य वर्षस्य मार्च-मासस्य एकोनत्रिंशत्तमे (२९/३/२०१३) दिनाङ्के पूर्णम् अभवत् [९] । २००६ तमस्य वर्षस्य अन्तिममासेषु तस्य धारावाहिकस्य निर्माणकार्यम् आरब्धम् आसीत् । श्रीचन्द्रप्रकाशेन सह चिन्मय मिशन्-संस्थायाः कार्यकर्तारः, अन्ये सहकर्मिणः च आसन्, यैः मिलित्वा उपनिषद् गङ्गा-धारावाहिकस्य संवादाः सज्जीकृताः । प्रारम्भिके काले तैः चिन्तितम् आसीत् यत्, सर्वेषां द्विपञ्चाशत्प्रकरणानां संवादान् लिखित्वा अन्ते सर्वेषां निर्माणं करिष्यामः इति । परन्तु ततः निर्णये परिवर्तनं जातं प्रारम्भे द्वादशप्रकरणानि यावत् संवादाः लिखिताः, अभिनीताश्च । ततः अन्येषां प्रकरणानां लेखनम्, अभिनयं च अभवत् । एवं चतुर्षु वर्षेषु उपनिषद् गङ्गा-धारावाहिकस्य कार्यं पूर्णम् अभवत् [९] ।
उपनिषद् गङ्गा-धारावाहिकस्य मुख्यसूत्रधारः अभिमन्यु सिंह वर्तते । श्रीचन्द्रप्रकाशेन तस्य चयनावसरे ज्ञातं यत्, अभिमन्युः संस्कृतसाहित्येन अनुस्नातकः वर्तते इति । यतो हि संस्कृतसम्बद्धे तस्मिन् धारावाहेके हिन्दीभाषया सह संस्कृतस्यापि अधिकः उपयोगः भविष्यति इति श्रीचन्द्रप्रकाशः जानाति स्म । अतः सः अभिमन्योः चयनं मुख्यसूत्रधारत्वेन अकरोत् । अभिन्योः अत्युत्कर्षेण अभिनयेन सह संस्कृतस्य संयोगः एव अभिमन्योः चयनस्य कारणम् अभवत् [९] ।
२०११ तमस्य वर्षस्य जनवरी-मासस्य अष्टादशे (१८/१/२०११) दिनाङ्के महोल्ला अस्सि इत्याख्यस्य चलच्चित्रस्य शूटिङ्ग-कार्यम् आरभत श्रीचन्द्रप्रकाशः । ततः २०११ तमस्य वर्षस्य मार्च-मासस्य पञ्चदशे (५/३/२०११) दिनाङ्के तस्य चलच्चित्रस्य शूटिङ्ग-कार्यं पूर्णम् अभवत् । एवं महोल्ला अस्सि इत्याख्यस्य चलच्चित्रस्य निर्माणकार्यं केवलं द्विचत्वारिंशद्दिनेषु (४२) पूर्णम् अभवत् [९] । निर्माणानन्तरं नाट्यगृहेषु तस्य चलच्चित्रस्य मञ्चनं २०१३ तमस्य वर्षस्य जनवरी-मासे निर्धारितम् आसीत् । परन्तु अनेकैः कारणैः वशीभूते सति तस्य चलच्चित्रस्य मञ्चनम् एतावता नाभवत् । परन्तु शीघ्रं हि दर्शकाः तत् चलच्चित्रं नाट्यगृहेषु द्रष्टुं प्रभविष्यन्ति इति अनुमीयते [९] ।
पिञ्जर-चलच्चित्रम्
[सम्पादयतु]पिञ्जर-आख्यं चलच्चित्रं हिन्दीभाषायाम्, उर्दुभाषायां, पञ्जाबी-भाषायां च प्रकाशितम् आसीत् । १८८ निमेषात्मके तस्मिन् चलच्चित्रे हिन्दुधर्मचारिण्याः एकस्याः महिलायाः अनुभवाः उल्लिखिताः । तया महिलया ते अनुभवाः १९४७ तमस्य वर्षस्य भारत-पाकिस्थानविभाजनकाले अनुभूताः आसन् । पिञ्जर-चलच्चित्रस्य कथा पञ्जाबी-भाषायां प्रकाशितात् पिञ्जर-आख्यात् पुस्तकात् श्रीचन्द्रप्रकाशेन स्वीकृता । तस्य पुस्तकस्य लेखिका अमृता प्रितम आसीत् । २००४ तमस्य वर्षस्य Filmfare Best Art Direction Award इत्याख्यं पदकं तेन चलच्चित्रेण प्राप्तम् । तथा च मनोज बाजपेयी यः चलच्चित्रस्य मुख्यनायकः आसीत्, तेनापि राष्ट्रियपुरस्कारम् इति सम्मानः प्राप्तः ।
अभिनयविषये श्रीचन्द्रप्रकाशः
[सम्पादयतु]श्रीचन्द्रप्रकाशेन अनेकानि कार्णाणि कृतानि सन्ति । परन्तु तेषु चाणक्य-धारावाहिकस्य निर्माणं, निदेशनम्, अभिनयं च अतिप्रसिद्धम् अभवत् । प्रत्येकस्मिन् वर्षे जनाः श्रीचन्द्रप्रकाशं निवेदयन्ति यत्, भवान् अभिनयं करोतु इति । परन्तु श्रीचन्द्रप्रकाशस्य कथनम् अस्ति यत्, चाणक्यस्य विचारैः प्रभावितः अहं तस्य ऊर्जायाः सञ्चरणं मम शरीरे अनुभवामि स्म । अतः अहं तस्मिन् धारावाहिके चाणक्यस्य अभिनयं कर्तुं समर्थः अभवम् । इतः परं यदि तादृशः अवसरः आगमिष्यति, तर्हि अहं निश्चयेन अभिनयं करिष्यामि । परन्तु अहं चाणक्यधारावाहिके यत् अभिनयम् अकरवम्, तस्मात् अधिकं रचनात्मकं कार्यं भविष्यति चेदेव अहम् अभिनयं करिष्यामि इति [९] ।
श्रीचन्द्रप्रकाशेन प्राप्तानि पुरस्काराणि
[सम्पादयतु]१. Screen Videocon Best Director
२. Asian Cinema Foundation honoured Dwivedi with its Cultural Catalyst
रचनाः
[सम्पादयतु]१. चाणक्य-धारावाहिकम् (१९९१-१९९२, ४७ प्रकरणानि)
२. मृत्युञ्जय
३. एक और महाभारत (१९९७)
४. पिञ्जर (२००३)
५. उपनिषद् गङ्गा (२०१२, ५२ प्रकरणानि)
६. महोल्ला अस्सि (२०१४)
७. झेड् प्लस् (२०१४)
८. लेजेण्ड ऑफ् कुनाल (२०१४ निर्माणाधीनम्)
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]http://www.rediff.com/movies/2003/oct/22chandra.htm
http://www.tribuneindia.com/2003/20031012/spectrum/tv.htm
http://www.ibtl.in/news/vande-matru-sanskriti/1726/upanishad-ganga-:-a-series-exploring-vedic-culture[नष्टसम्पर्कः]
http://www.imdb.com/name/nm1363374/bio?ref_=nm_ov_bio_sm
उद्धरणम्
[सम्पादयतु]- ↑ "Dwivedi: Big screen foray". आह्रियत ०६/०१/२०१५.
- ↑ "उपनिषद् गङ्गा-चित्रम् कुर्वन्". impawards.com. impawards.com. आह्रियत ०८/०१/२०१५.
- ↑ "चलच्चित्रस्य प्रचारार्थं साक्षात्कारं कुर्वन्". Dr. Anita Hada Sangwan. Dr. Anita Hada Sangwan. आह्रियत ०८/०१/२०१५.
- ↑ "अङ्गतजीवनम्". Ajay Brahmatmaj. Ajay Brahmatmaj. आह्रियत ११/०१/२०१५.
- ↑ "अङ्गतजीवनम्". Ajay Brahmatmaj. Ajay Brahmatmaj. आह्रियत ११/०१/२०१५.
- ↑ "साक्षात्कारं कुर्वन्". rediff.com. rediff.com. आह्रियत ०८/०१/२०१५.
- ↑ "अङ्गतजीवनम्". Ajay Brahmatmaj. Ajay Brahmatmaj. आह्रियत ११/०१/२०१५.
- ↑ ८.० ८.१ "चलच्चित्रस्य प्रचारार्थं साक्षात्कारं कुर्वन्". Dr. Anita Hada Sangwan. Dr. Anita Hada Sangwan. आह्रियत ०९/०१/२०१५.
- ↑ ९.० ९.१ ९.२ ९.३ ९.४ ९.५ "उपनिषद् गङ्गा-प्रचारार्थं साक्षात्कारं कुर्वन्". Dr. Anita Hada Sangwan. Dr. Anita Hada Sangwan. आह्रियत ०९/०१/२०१५.