च्यवनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(च्यवन इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
च्यवनः
च्यवनः
च्यवनः
Information
Family भृगुः (पिता) पुलोमा (माता) शुक्रः (भ्राता)
भार्या(ः)/भर्ता आरुषी
सुकन्या
अपत्यानि औरवः, अप्नावनः,दधीचः, हारीतः

च्यवनः कश्चन प्रसिद्धः ऋषिः। सः भृगुमहर्षेः पुत्रः। महाभारते आदिपर्वणि बहुत्र च्यवनऋषेः उल्लेखः विद्यते। च्यवनऋषिः अश्विनीदेवताभ्यः यज्ञे हविः दापितवान्। च्यवनप्राश्यलेह्यस्य आविष्कर्ता अयं मुनिःइन्द्रेण सह योद्धुं सः मदनामकीं दुःशक्तिमपि उदपादयत्[१][२][३][४]

जन्म[सम्पादयतु]

भृगोः सन्ततिः पुलोमायाः उदरे वर्धते स्म। यदा भृगुः स्नानार्थं गतः आसीत् तदानीं कश्चन राक्षसः तस्याश्रमम् आगतः। तत्र ज्वलन्तं अग्निं दृष्ट्वा स्वपूर्ववृत्तान्तं कथितवान्। पूर्वम् इयं पुलोमा पित्रा मह्यं दत्ता आसीत्। अस्य साक्षी त्वम् असि इति। अग्निः भृगोः शापात् असत्यवचनात् च भीतः। अतः सत्यम् एवम् उक्तवान्। इयं तु भवते दीयते इति निर्णयः कृतः परन्तु विधिना एषा भृगवे दत्ता इत्यवोचत्। राक्षसः पुलोमाम् अपहृत्य धावनम् आरब्धवान्। तदानीं भयेनैव पुलोमायाः गर्भात् शिशुः च्युतः। एवं च्युतस्य शिशोः नाम च्यवनः इत्यभवत्। (रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत्[५])। पतितस्य शिशोः दृष्टिपातेन राक्षसः भस्मीभूतः[६]

तपः विवाहश्च[सम्पादयतु]

च्यवनस्य तपसः विवाहस्य च विषये शतपथब्राह्मणे[७].[८][४] महाभारते[९] च उल्लेखः विद्यते। च्यवनः अरण्ये तपसि निरतः आसीत्। तदानीं शर्यातिराजः मृगयाविनोदार्थम् आगतः। तेन सह तस्य पुत्री सुकन्या अपि आगता आसीत्। तावता च्यवनस्य देहं परितः वल्मीकः प्रवृद्धः आसीत्। तस्य अक्षिणी एव दृश्येते स्म। मनुष्यस्य अक्षिणी इमे इति अजानती सुकन्या भासमानं तत् नेत्रं कण्टकेन विद्धवती। एतेन च्यवनः क्रुद्धः। तेन शर्यातिराजस्य सेनापरिवारस्य मलमूत्रादीनि अवरुद्धानि। स्वस्य पुत्र्याः अकार्यमेव अस्य कारणम् इति ज्ञात्वा सः मुनिसमीपं गत्वा क्षमां याचितवान्। मुनिः अन्धस्य मम शुश्रूषार्थं तव कन्या मया सह अत्रैव भवतु इत्यवोचत्। स्वसेनायाः परिरक्षणार्थं राजा सम्मतिम् असूचयत्। च्यवनः सुकन्याम् ऊढवान्। तयोः प्रमतिः इति पुत्रः सञ्जातः। च्यवनः आरुषीनाम्नीम् ऊढ्वा अर्यनामकम् पुत्रम् प्राप्नोत्[१०]

अश्विनीदेवतयोः मेलनम्[सम्पादयतु]

च्यवनं परिचिन्वती सुकन्या

यदा सुकन्या च्यवनेन सह आश्रमे वसति स्म, तदा अश्विनीदेवते वेशान्तरेण आगते। सुकन्यां दृष्ट्वा अनुरागं प्राकटयन्। च्यवने बद्धमनाः सुकन्या ते तिरस्कृतवती। सुकन्यायाः पतिभक्तिं दृष्ट्वा अश्विनिदेवते तस्यै वरं दातुम् उद्युक्ते। सा पत्युः नवयौवनं च प्रार्थयत। अश्विनीदेवते च्यवनं स्वीकृत्य स्नानार्थं तडागं गते। आगमनसमये त्रयः अपि समानरूपाः आसन्। महापतिव्रता सुकन्या स्वपतिं पर्यचिनोत्। एवं च्यवनः अश्विनीदेवताभ्याम् अनुग्रहीतः[११]

अश्विनीदेवताभ्यां हविर्भागः[सम्पादयतु]

पूर्वम् अश्विनीदेवताभ्यां यज्ञेषु हविर्भागः नासीत्। अश्विनीदेवताभ्यां प्राप्तनवयौवनः च्यवनः स्वश्वशुरस्य शर्यातेः साहाय्येन यज्ञं कृत्वा अश्विनीदेवताभ्याम् अपि हविर्भागम् अददात्। एतेन इन्द्रः क्रुद्धः अभवत्। सः स्वसेवकाभ्यां अश्विनीभ्यां हविर्भागदानं न इच्छति स्म। इन्द्रः वज्रेण च्यवनं साधयितुम् उद्युक्ता। परन्तु तस्य हस्तः स्तब्धः। च्यवनः मदनामानं महान्तं दंष्ट्रायुतं राक्षसम् उत्पाद्य इन्द्रं विरुध्य योद्धम् आदिशत्। यदा मदः इन्द्रं खादितुम् उद्युक्तः तदानीं सह अश्विनीदेवतयोः हविर्भागे अधिकारम् अङ्गीकृत्य च्यवनं शरणङ्गतः[१२]

कुशिकमेलनम्[सम्पादयतु]

कुशिकस्य आस्थाने च्यवनः

कुशिकमहाराजस्य आस्थानं च्यवनः अगमत्। तत्र २१ दिनपर्यन्तं कुशिकराजः तस्य पत्नी च सेवाम् अकुरुताम्। एतेन तुष्टः च्यवनः कुशिकाय वरम् अददात्। स्वर्गसदृशं स्वर्णमन्दिरं निरमात्। तस्य वंशे जातः कश्चन ब्राह्मणः भविष्यति इति अनुग्रहं च अकरोत् इति कथा महाभारते देवीभागवते च वर्तते। च्यवनस्य वरप्रसादादेव अग्रे विश्मामित्रः जातः।

अन्यत्रोल्लेखाः[सम्पादयतु]

सञ्चिका:Chyawanprash spoonful.JPG
च्यवनप्राशः

देवीभागवतानुसारं च्यवनः कदाचित् नर्मदां स्नातुं गतः। तदानीं केनचित् विषसर्पेण दष्टः पातालं नीतः। विष्णोः स्मरणेन स सर्पः निर्विषः अभवत्। पाताले विष्णुभक्तः प्रह्लादः तम् अपश्यत्। पुण्यतीर्थानां विषये च्यवनः प्रह्लादम् अबोधयत्देवीभागवतम् (विकिस्रोतः)। च्यवनस्य आश्रमः बिहारे बक्सार् इत्यत्र, सात्पुरपर्वते पयोष्णीनद्याः तीरे आसीदिति उल्लेखः पद्मादिपुराणेषु दृश्यते। हरियाणाराज्यस्य महेन्द्रघरे आसीत् इत्यपि क्वचिदुल्लेखः अस्ति। अत्रैव महेन्द्रघरे सः च्यवनप्राशनामकं लेह्यम् निरमात् इत्यपि कथा श्रूयते[१३]

उल्लेखाः[सम्पादयतु]

  1. Dowson, John (2004). A classical dictionary of Hindu mythology, and religion, geography, history. Delhi: Asian Educational Services. pp. 73–5. ISBN 978-81-206-1786-5. https://books.google.com/books?id=ejh82j8G_CYC&pg=PA73. 
  2. The Rigveda : the earliest religious poetry of India. Jamison, Stephanie W., Brereton, Joel P., 1948-. New York. pp. 968. ISBN 9780199370184. OCLC 849801119. https://www.worldcat.org/oclc/849801119. 
  3. The Rigveda : the earliest religious poetry of India. Jamison, Stephanie W., Brereton, Joel P., 1948-. New York. pp. 1475. ISBN 9780199370184. OCLC 849801119. https://www.worldcat.org/oclc/849801119. 
  4. ४.० ४.१ Macdonnel, Arthur Anthony; Keith, Arthur Berriedale (1985) [1912]. Vedic Index of Names and Subjects. Vol. 1. Delhi: Motilal Banarsidass. pp. 264–5. ISBN 81-208-1332-4. https://books.google.com/books?id=t6TVLlPvuMAC&pg=PA264. 
  5. महाभारतम्, आदिपर्व (विकिस्रोतः)
  6. O'Flaherty, Wendy Doniger (1988). The Origins of Evil in Hindu Mythology. Delhi: Motilal Banarsidass. p. 304. ISBN 81-208-0386-8. https://books.google.com/books?id=sktbYRG_LO8C&pg=PA304&dq=Bhrgu+Puloma+Cyavana&hl=en&ei=mfp7TNGaNoWivQOSmfhj&sa=X&oi=book_result&ct=result&resnum=6&ved=0CEIQ6AEwBTgK#v=onepage&q=Bhrgu%20Puloma%20Cyavana&f=false. 
  7. Wilson, Horace Hayman (tr.) (1840). The Vishnu Purana. London: John Murray. p. 354fn29. http://www.sacred-texts.com/hin/vp/vp093.htm. 
  8. O'Flaherty, Wendy Doniger (1981). Śiva, the Erotic Ascetic. London: Oxford University Press. pp. 57–61. ISBN 0-19-520250-3. https://books.google.com/books?id=dnfZ_MBErlQC&pg=PA57&dq=Cyavana+rejuvenation&hl=en&ei=Djx7TLuMGZO8cenXqd0F&sa=X&oi=book_result&ct=result&resnum=2&ved=0CDMQ6AEwAQ#v=onepage&q=Cyavana%20rejuvenation&f=false. 
  9. Ganguli, Kisari Mohan (1883–1896). "Ch.CXXV". The Mahabharata: Book 3: Vana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m03/m03125.htm. 
  10. महाभारतम् आदिपर्व (विकिस्रोतः)
  11. महाभारतम् अरण्यपर्व (विकिस्रोतः)
  12. महाभारतम् अनुनासिकपर्व (विकिस्रोतः)
  13. Kapoor, Subodh (ed.) (2002). Indian Encyclopaedia. Biographical, Historical, Religious, Administrative, Ethnological, Commercial And Scientific. Vol.V. New Delhi: Cosmo Publications. p. 1539. ISBN 81-7755-257-0. https://books.google.com/books?id=72BjBPBRb6MC&pg=PA1539&dq=Chyavana+hermitage&hl=en&ei=yigLTdyFJYbqrQffudzDCw&sa=X&oi=book_result&ct=result&resnum=2&ved=0CCoQ6AEwAQ#v=onepage&q=Chyavana%20hermitage&f=false. 
"https://sa.wikipedia.org/w/index.php?title=च्यवनः&oldid=448089" इत्यस्माद् पुनः प्राप्तिः