जग्गूवकुलभूषणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
जग्गूवकुलभूषणः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः अद्भुतांशुकं, प्रतिज्ञाकौटिल्यं, मञ्जुलमजीरम्, अप्रतिमप्रतिमम्

जग्गू-वकुलभूषणो दक्षिणभारतस्य यादवाचलनामके स्थाने १९०२ ख्रीष्टाब्दे जन्म लेभे । कविरयं पञ्चदशरूपकाणि व्यरचयत् । कविनानेन प्रतिज्ञाशान्तनवम्, अनङ्गदाप्रहसनं, मणिहरणं, यौवराज्यं, बलिविजयनाटकम् अमूल्यमाल्यञ्चेति प्रणीतानि नाटकानि।

अद्भुतांशुकम्[सम्पादयतु]

अद्भुतांशुकस्य रचना १९३१ ख्रीष्टाब्दे सञ्जाता । दिग्विजयानन्तरं युधिष्ठिरस्य राजसूययज्ञो भीमस्य अनागमनकारणाद् अवरुद्धोऽस्ति । भीमो दुर्योधन-दुःशासन-शकुनि-कर्ण-सहितान् विविधान् वीरान् बन्दीविधाय युधिष्ठिरसमक्षं समानीतवान् । युधिष्ठिरस्तान् सर्वान् बन्धनरहिताँश्चकार।

कृष्ण-बलरामौ अपि यज्ञभूमिं समागतौ । सर्वेऽपि जना लज्जावनतमुखं दुर्योधनं पश्यन्ति स्म । भृशं पीडितमानसो दुर्योधनः शकुनिं नाम मातुलम् अब्रवीत् -

पाण्डवानां वशीकृत्य सर्वं सम्पदमद्भुताम्।

मद्वशे दासभावं च तेषां कल्पय मातुलः।।[१]

प्रत्युत्पन्नमतिः शकुनिर्दूतक्रीडया युधिष्ठिरं पराजित्य पाण्डवानां सर्वस्वापहरणस्य प्रणं चक्रे । निर्धारितसमये तयोर्योजना कार्यान्विता । नाटकेऽस्मिन् रङ्गपीठमागम्यमानस्य पुरुषस्य वर्णनं किरतनियानाटकानुरूपं वर्तते । प्रथमाङ्के युधिष्ठिरः कृष्णं वर्णयति -

योगिध्येयो नवघनरुचिः पुण्डरीकायताक्षो

रक्षा-दीक्षावहननिरतः पीतवस्त्राञ्चिताङ्गः।

लक्ष्मीक्रीडामरकतगिरिर्भक्तकल्पद्रुमोऽयं

श्रीकृष्णो मे हरति नयने कोऽस्ति धन्यो मदन्यः।।[२]

रूपके संवादाः नाट्योचिताः प्रतीयन्ते । हास्यकरी प्रवृत्तिरपि परमोत्कर्षशालिनी । यथा -

भीमः - ‘क्व डीयते शकुनिः । गृहाण तं पञ्जरे स्थापयामः।

अर्जुनः - ‘एनं महाराजदुर्योधनस्य मातुलं ब्रवीमि, न तु पतगम्।'

अद्भुतांशुके छायातत्त्वस्य विनिवेशः सफलो वर्तते । भीमस्य रूपधारणं, कृष्णस्य च दुर्वाससः शिष्यभावः च छायातत्त्वं संवर्धयतः। नायकानां चरित्र-चित्रणे कविः सफलोऽस्ति । रङ्गपीठे रथयात्रायाः दृश्यमपि मोहकतरं वर्तते । सूक्ति-सम्भारस्त्वतीवरोचकोऽस्ति। यथा -

१. आशा-पोषिता खलु स्त्रीबुद्धिः।

२. उभयतः पाशः।

३. अट्टालिकादधः पतितस्योपरि लगुडाघातः।

प्रतिज्ञाकौटिल्यम्[सम्पादयतु]

प्रतिज्ञाकौटिल्यस्य प्रथमाभिनयो जातः भगवतः सम्पत्कुमारस्य हीर-किरीटोत्सवदर्शनार्थं विविध-प्रदेशागतविदुषां प्रीत्यर्थम्। अमात्यवक्रनासः, अमात्यराक्षसं ब्रवीति यद् वृद्धो राजा सर्वार्थसिद्धिमौर्य राजसिंहासनारूढं विधाय वानप्रस्थाश्रमे प्रविविक्षुरस्ति । राक्षसो नन्दप्रिय आसीत्।

मञ्जुल-मञ्जीरम्[सम्पादयतु]

मञ्जुलमञ्जीरं नाम रामचरितात्मकं नाटकम् अष्टस्वङ्केषु संविभक्तम्। कवेः पितृव्यस्य वेङ्कटाचार्यस्य मतानुसारं प्राचीनानि रामचरितात्मकानि नाटकानि पद्यानाम् अधिकतया वर्णन-बाहुल्यकारणाच्च चम्पूकाव्यानुकारीणि वर्तन्ते । किन्त्वेतद्दोषपरिमुक्तमस्ति मञ्जुलमञ्जीरम् ।

प्रसन्नकाश्यपम्[सम्पादयतु]

प्रसन्नकाश्यपे त्रयोऽङ्काः सन्ति । रूपकेऽस्मिन् पुत्रस्य राज्याभिषेकानन्तरं काननमागतां दुष्यन्तद्वितीयां शकुन्तलां विलोक्य प्रमुदितस्य काश्यपस्य आनन्दस्य वर्णनं विद्यते । यथाह सूत्रधारः -

सदारस्सकुमारश्च कण्वाश्रमदिदृक्षया।

आयाति स्यन्दनेनासौ दुष्यन्तः कौतुकी वनम्॥

राजा दुष्यन्तः शकुन्तलया भरतेनात्मजेन च सह कण्वाश्रमं प्रविशति । तत्र एते मृगशावकेन क्रीडन्तम् अनसूयातनयं विलोकयन्ति । शकुन्तला तस्मै ददाति ।

द्वितीयाङ्के शकुन्तला प्राक्तनसहचरीभिः गतम्या च सार्द्धं स्थित्वा स्वकीयं निखिलमपि वृत्तं निगदति । तृतीयाङ्के राजा शकुन्तला च कण्वं साक्षात्कुरुतः । मेनकापि तत्रायाता। सकलापि कथा कल्पितास्ति । नेदं विशुद्धं नाटकम् । नात्र कार्यावस्थाः न च फलागमः। संवादानां रमणीयता विलक्षणैवास्ति । रूपकमाद्योपान्तं मनोरञ्जनसामग्री-निर्भरं वर्तते ।

अप्रतिमप्रतिमम्[सम्पादयतु]

अङ्कद्वयनिबद्धेऽप्रतिमप्रतिमे धृतराष्ट्रद्वारा स्वकीयपुत्राणां हत्यायाः प्रतिशोधार्थं भीममूर्तेः विभञ्जनं वर्णितम् ।

महाभारतीययुद्धस्य समाप्तौ कृष्णो धृतराष्ट्रादनर्थशङ्कया पर्याकुलोऽस्ति । स भीमं धृतराष्ट्रसान्निध्याद् दूरमेव स्थातुं निर्दिशति । युधिष्ठिरप्रभृतयः सर्वेऽपि पाण्डवाः कृष्णं पुरस्कृत्य धृतराष्ट्रस्य अभिनन्दनार्थं प्रतस्थिरे । कृष्णो भीमं पारिजातमालार्थं द्वारकां प्रेषयामास । अभिनन्दन-समारोहे हृदयनिहित कपटो धृतराष्ट्रो भीमम् आलिङ्गितुमियेष । कृष्णेन लौहमयी भीमप्रतिमा तस्मै समर्पिता। स तां मूर्तिमालिलिङ्ग बभञ्ज च।

प्रस्तुतरूपके भीमस्य यन्त्रचलित-प्रतिमायाः प्रकरणं छायानाट्यानुसारं वर्तते ।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

महाराणा प्रताप

संस्कृतम्

उद्धरणम्[सम्पादयतु]

  1. २. १०
  2. १. ११
"https://sa.wikipedia.org/w/index.php?title=जग्गूवकुलभूषणः&oldid=436309" इत्यस्माद् पुनः प्राप्तिः