जम्बूवृक्षः
अयं जम्बूवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं च वृक्षः सर्वेषु अपि प्रदेशेषु वर्धते । अस्मिन् वृक्षे ६ विधाः सन्ति । महाफलः, नदीजम्बू, क्षुद्रफलः, ह्रस्वफलः, गोलाकारफलः, श्वाजम्बू चेति । अस्य वृक्षस्य फलानि, पर्णानि, बीजानि च औषधत्वेन उपयुज्यन्ते । अयं जम्बूवृक्षः संस्कृते “फलेन्द्रः” इत्येव प्रसिद्धः अस्ति । अस्य “रोहिणीनक्षत्रवृक्षः” इति अपरं नाम अपि अस्ति ।
इतरभाषासु अस्य जम्बूवृक्षस्य नामानि
[सम्पादयतु]अयं जम्बूवृक्षः आङ्ग्लभाषयाJambul इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Syzygium Jambolana इति । हिन्दीभाषया अयं वृक्षः “जामून्” इति, तेलुगुभाषया“नेरेड्’ इति, तमिळ्भाषायां “शम्बु” इति, मलयाळभाषया“रामजम्बूक्” इति, कन्नडभाषया“नेरळे” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य जम्बूवृक्षस्य प्रयोजनानि
[सम्पादयतु]अस्य जम्बूफलस्य प्रधानः रसः मधुरः । तदनुरसत्वेन आम्लः कषायः च भवति । इदं जम्बुफलं रूक्षं चापि । “महाफल” नामकानि फलानि आम्ल – मधुर – रुचियुक्तानि । शीतवीर्यानि च । १. जम्बू कफं वातं चापि निवारयति । २. मधुमेहेन पीडिताः अस्य बीजस्य वा पर्णस्य वा कषायं निर्माय दिने द्विवारं ५ – १५ ग्राम् मितं यावत् मधुना सह पिबेयुः । ३. अस्य उपयोगेन शरीरस्य ज्वलनं, कण्ठवेदना, शरीरस्य शुष्कता, क्रिमिरोगः, अतिसारः, श्वासावरोधः इत्यादयः अपगच्छन्ति । ४. कफकारणतः वा पित्तकारणतः वा अतिसारः जायमानः अस्ति चेत् अस्य उपयोगः हितकरः भवति । ५. इदं जम्बूफलं रक्तदोषम् अपि शमयति । ६. “महाफल” नामकानि फलानि मलस्तम्भनं कुर्वन्ति । उदरबाधां चापि शमयन्ति । ७. इदं मूत्रं न्यूनीकरोति ।