जातीपत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एतत् जातीपत्रम् अपि भारते वर्धमानः कश्चन पत्रविशेषः । एतत् जातीपत्रम् अपि सस्यजन्यः आहारपसार्थः । एतत् जातीपत्रम् आङ्ग्लभाषायां Nutmeg Leaves इति उच्यते । एतत् जातीपत्रम् आहारत्वेन तथा औषधत्वेन अपि उपयुज्यते । आहारत्वेन उपयोगस्य समये मितिम् अतिक्रम्य न उपयोक्तव्यम् । मधुराणां भक्ष्याणां निर्माणे अस्य जातीपत्रस्य उपयोगः क्रियते ।

जातीवृक्षस्य शाखा, पुष्पं, फलं, बीजं चापि

आयुर्वेदस्य अनुसारम् अस्य जातीपत्रस्य स्वभावः[सम्पादयतु]

जातीवृक्षः

एतत् जातीपत्रं कटुरसयुक्तम् । एतत् अत्यन्तम् उष्णवीर्ययुक्तम् अपि । एतत् जातीपत्रं पचनार्थं लघु अपि ।

“जातीपत्री कटूष्णा स्यात् सुरभिः कफनाशिनी ।
वक्त्रदौर्गन्ध्यहृद्वर्णा विषहृत् कायकान्तिका ॥“
१. एतत् जातीपत्रं कफं नाशयति ।
२. एतत् जातीपत्रं मुखस्य दुर्गन्धं निवार्य सुगन्धम् उत्पादयति ।
३. एतत् जातीपत्रं शरीरे लेपयामः चेत् शरीरं कान्तियुक्तं भवति ।
४. एतत् जातीपत्रं विषस्य प्रभावं निवारयति ।
५. जातीफलादिभिः द्रव्यैः सह जातीपत्रम् अपि लेह्यादीनां निर्माणावसरे उपयुज्यते ।
६. एतत् जातीपत्रं कण्ठदोषान् निवारयति । वातं च हरति ।
७. एतत् जातीपत्रम् अतिसारं शमयति । प्रमेहरोगं च निवारयति ।
८. एतत् जातीपत्रं पुरुषेषु वीर्यवर्धकम् । अग्निम् अपि उद्दीपयति ।
९. जातीपत्रं जलेन सह योजयित्वा सम्यक् अवघर्षणं कृत्वा वदने लेपनेन वदने विद्यमानाः कृष्णवर्णीयाः बिन्दवः न्यूनाः भवन्ति, पादस्य स्फोटः अपि न्यूनः भवति ।
१०. शिशूनाम् अतिसारे जातीपत्रस्य रसं निष्कास्य मातुः क्षीरेण सह दातुं शक्यते । तस्य सेवनेन बालाः सम्यक् निद्राम् अपि कुर्वन्ति । सेवितः आहरोऽपि सम्यक् जीर्णः भवति च ।
११. एतत् जातीपत्रं ताम्बूलेन सह अपि योज्यते । तस्य योजनेन ताम्बूलस्य रुचिः वर्धते, ताम्बूलं सुगन्धयुक्तम् अपि भवति । तादृशस्य ताम्बूलस्य सेवनेन सेवितस्य आहारस्य पचनं सम्यक् भवति । कामवृद्धिः अपि भवति ।
"https://sa.wikipedia.org/w/index.php?title=जातीपत्रम्&oldid=388721" इत्यस्माद् प्रतिप्राप्तम्