जालौरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जालौरमण्डलम्
मण्डलम्
राजस्थानराज्ये जालौरमण्डलम्
राजस्थानराज्ये जालौरमण्डलम्
Country भारतम्
States and territories of India राजस्थान
Area
 • Total १०,६४० km
Population
 (२००१)
 • Total १८,३०,१५१
Website http://jalore.nic.in

जालौरमण्डलं (हिन्दी: जालौर जिला, आङ्ग्ल: Jalore district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति जालौरनामकं नगरम् ।

भौगोलिकम्[सम्पादयतु]

जालौरमण्डलस्य विस्तारः १०६४० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य उत्तरे बाडमेरमण्डलं, पालीमण्डलं च, दक्षिणे सिरोहीमण्डलं, गुजरातराज्यं च अस्ति । अस्मिन् मण्डले ४५९.८ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अत्र सुक्री इत्येका एव नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं जालौरमण्डलस्य जनसङ्ख्या १८३०१५१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ५५.५८ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  • अहौर
  • जालौर
  • भीनमाल
  • रानीवाडा
  • साञ्चोर

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • कैलाशधाम
  • हनुमानमन्दिरम्
  • सुन्धा मटा
  • भद्रार्जुन किला

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जालौरमण्डलम्&oldid=481565" इत्यस्माद् प्रतिप्राप्तम्