जिञ्जी (सेञ्जिकोटे)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जिञ्जीदुर्गम्

जिञ्जीक्षेत्रम् तमिळ्नाडुराज्यस्य विल्लुपुरं मण्डले अस्ति । तस्य ग्रामस्य सप्तमातृषु एका स्थानरक्षिका आसीत् इति स्थलपुराणेन ज्ञायते । इतिहासानुसारम् अस्मिन् क्षेत्रे सप्तशतवर्षेभ्यः पूर्वं निर्मितं द्वि.कि.मीटर् विशालं दुर्गम् अस्ति । देहलीबादशाहः औरङ्गजेबः क्रिस्ताब्दे १६१२ तमे वर्षे एतत् क्षेत्रं वशीकृतवान् आसीत् । अनन्तरम् अर्काटनवाबानां वशे स्थितम् एतत् क्षेत्रं क्रिस्ताब्दे १७५० तमे वर्षे फ्रेञ्चजनानां हस्तगतम् अभवत् । अनन्तरं क्रिस्ताब्दे १७६१ तमे वर्षे आङ्ग्लानाम् वशे आगतम् ।

अस्मिन् प्रदेशे एतत् दुर्गं कृष्णगिरि-चन्द्रगिरि-राजगिरिपर्वतानां सम्पर्कं कल्पयति । एतेषु राजगिरिदुर्गम् अतीवोन्नतम् अस्ति । ८०० पादपरिमितोन्नतम् अजेय्यं च आसीत् । अत्रत्यकल्याणमहलभवनस्य रचना इण्डो-इस्लामिक् शैल्या कृता अस्ति । सेनावसतिः अश्वशाला च विशेषाकर्षणीयौ । अनैकुलं नामकः जलाशयः शिलाभिः रचितः अस्ति । धान्यसङ्ग्रहालयः व्यायामशाला च आक्र्षणीयौ स्तः ।इस्लां प्रार्थनामन्दिरं (मस्जिद्) वेङ्कटसमणमन्दिरं च सुन्दरे स्तः ।

मार्गः[सम्पादयतु]

  • चेन्नैतः १६० कि.मी (विमानस्थानम् ।
  • धूमशकटमार्गे –तिण्डिवनं स्थानकतः ३६ कि.मी. पाण्डीचेरीतः ६५ कि.मी । काञ्चिपुरतः १२० कि.मी ।
  • भूमार्गः तिण्डिवनतः तिरुवण्णामलैराजमार्गे जिञ्जीनिस्थानम्
"https://sa.wikipedia.org/w/index.php?title=जिञ्जी_(सेञ्जिकोटे)&oldid=370420" इत्यस्माद् प्रतिप्राप्तम्