जे बि एस् हाल्डेन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
J.B.S. Haldane
J.B.S. Haldane
जननम् (१८९२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०५)५ १८९२
Oxford, England
मरणम् १ १९६४(१९६४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०१) (आयुः ७२)
Bhubaneswar, India
वासस्थानम् UK
United States
India
देशीयता British (until 1961)
Indian
कार्यक्षेत्राणि Biologist
संस्थाः University of Cambridge
University of California, Berkeley
University College London
Indian Statistical Institute, Calcutta
मातृसंस्थाः University of Oxford
संशोधनमार्गदर्शी Frederick Gowland Hopkins*
शोधच्छात्राः John Maynard Smith
विषयेषु प्रसिद्धः Population genetics
Enzymology
प्रमुखाः प्रशस्तयः Darwin Medal (1952)
Linnean Society of London's Darwin–Wallace Medal in 1958.
विशेषम्
*Cambridge did not have PhD degrees when Haldane was there,[उद्धरणं वाञ्छितम्] but he worked directly under Hopkins who was the equivalent of a doctoral mentor.[उद्धरणं वाञ्छितम्]


(कालः ०५. ११. १८९२ तः ०१. १२. १९६४)

एषः जे. बि. एस्. हाल्डेन् (J. B. S. Haldane) अत्यन्तं प्रतिभावान् जीवविज्ञानी । अयं न केवलं जीवविज्ञानी अपि तु अन्येषु बहुषु क्षेत्रेषु प्रतिभावान् आसीत् । गणीतं, भौतविज्ञानं, वैद्यविज्ञानं, तत्त्वज्ञानं, विज्ञानसाहित्यम् इत्यादिषु बहुषु क्षेत्रेषु सः जे. बि. एस्. हाल्डेन् कार्यं कृतवान् आसीत् । सः जे. बि. एस्. हाल्डेन् १८९२ तमे वर्षे नवेम्बर्-मासस्य ५ दिनाङ्के इङ्ग्लेण्ड्-देशस्य आक्स्फर्ड्-शैरि इति प्रदेशे जन्म प्राप्नोत् । ईटन् तथा आक्स्फर्ड् मध्ये अध्ययनम् अकरोत् । अस्य जे. बि. एस्. हाल्डेनस्य पिता जान् स्काट् हाल्डेन् अपि प्रख्यातः शरीरविज्ञानी आसीत् । एषः जे. बि. एस्. हाल्डेन् केम्ब्रिड्ज्, क्यालिफोर्निया, लण्डन् विश्वविद्यालयेषु अध्ययनं समाप्य किञ्चित् कालं यावत् कम्युनिष्टसिद्धान्तस्य अनुयायी आसीत् । अनन्तरं १९५७ तमे वर्षे ब्रिटन्-देशस्य नियमानां विरोधं कुर्वन् प्रतिभटनम् अपि अकरोत् । ततः तं देशं परित्यज्य भारतं गत्वा तत्रत्यं पौरत्वं प्राप्नोत् । अनन्तरं भारतदेशस्य ओडिशाराज्यस्य भुवनेश्वरे आनुवंशिकविज्ञानस्य तथा बयोमेट्रि-विभागस्य प्रयोगशालायाः प्रमुखरूपेण कार्यम् अकरोत् ।


एषः जे. बि. एस्. हाल्डेन् व्यक्तिस्वातन्त्र्यवादी अपि । सः भारतीयविज्ञानस्य अभिवृद्ध्यर्थं महान्तं श्रमम् अकरोत् । एषः जे. बि. एस्. हाल्डेन् जीवविकाससिद्धान्तस्य अन्वयं गणितक्षेत्रे अपि अकरोत् । कस्यांश्चित् जनजातौ वंशवाहिनां भेदेन कति विधानां जनाः जायन्ते ? ते परस्परं कथं विभिन्नाः भवन्ति । तानि लक्षणानि अग्रे अपि तस्यां जनजातौ कियता प्रमाणेन शिष्यते ? इत्यादीन् विषयान् सम्यक् परिशील्य प्रादर्शयत् । अयं जे. बि. एस्. हाल्डेन् जनकजीविषु विद्यमानानां जीविसमूहानां व्यवहारेण जनिष्यमाणः शिशुः कीदृशः भवति ? सः मातापित्रोः कान् गुणान् प्राप्नोति ? तस्य लिङ्गनिर्धारकं वर्णासूत्रं किम् ? इत्यादिकम् अपि विवृतवान् अस्ति । सः धनुर्वातस्य चिकित्सायाः सरलः क्रमः, आम्लजनकस्य आधिक्यं यत्र भवति तस्मिन् परिसरे क्रियमाणायाः चिकित्सायाः, शस्त्रचिकित्सायाः, हृदय-श्वासकोश–यन्त्राणां च तत्त्वम् अपि सूत्ररूपेण निरूपितवान् अस्ति । एषः जे. बि. एस्. हाल्डेन् स्वशरीरम् एव प्रयोगवस्तुनः रूपेण बहुधा उपयुज्यते स्म । शरीरस्य उपरि निपीडनस्य (Pressure) परिणामं ज्ञातुं समुद्रतले बहुकालम् उपविष्टवान् आसीत् । "सैटोक्रोम्” नामकस्य किण्वस्य संशोधनम् अस्य जे. बि. एस्. हाल्डेनस्य जीवनस्य प्रमुखं संशोधनम् इति वक्तुं शक्यते । अतिसूक्ष्माणां, मूल्यवताम् उपकरणानाम् अभावे अपि एकाग्रचित्तदर्शनेन, सरलैः गणनाक्रमैः महत्त्वपूर्णं वैज्ञानिकं साधनं कर्तुं शक्यते इति प्रादर्शयत् अयं जे. बि. एस्. हाल्डेन् । एषः १९६४ तमे वर्षे डिसेम्बर्-मासस्य प्रथमदिनाङ्के भारते एव मरणं प्राप्नोत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

There are photographs of Haldane at

The biography on the Marxist Writers page has a photograph of Haldane when younger.

"https://sa.wikipedia.org/w/index.php?title=जे_बि_एस्_हाल्डेन्&oldid=480358" इत्यस्माद् प्रतिप्राप्तम्