तत्त्वज्ञानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

दर्शनशास्त्रम्[सम्पादयतु]

दृश् धातुना भावार्थे करणार्थे वा ल्युट्(अन)-प्रत्ययेन दर्शनशब्दः व्युत्पद्यते । भावार्थे अस्य अर्थः अवलोकनक्रिया भवति, करणार्थे अवलोकनक्रियायाः साधनम् । उभयार्थे अस्य शब्दस्य सार्थकत्वं वर्तते । शास्त्रशब्दस्य अपि शंसनक्रियायाः (छेदनम्, अनुशासनम्, अतिरिक्तव्यावर्तनम्) साधकम् इति व्युत्पन्नः अर्थः । अनयोः शब्दयोः दर्शनमेव शास्त्रमिति अर्थे कर्मधारयः समासः भवति । दर्शनस्य विचारणीयतत्त्व-प्राधान्य-भेदात् सम्प्रदायभेदः भवति । प्रत्येकं दर्शनस्य अध्ययनं त्रिभिः दृष्टिभिः कर्तुं शक्यते -

  • तत्त्वमीमांसा - तत्त्वानां, जगतः, सृष्टेः च उत्पत्तिः स्थितिः व्यवहारः लयश्च विमृश्यते ।
  • ज्ञानमीमांसा - ज्ञानस्य स्वरूपं, साधनं, प्रामाण्यं प्रक्रिया च अस्यां विमृश्यते ।
  • आचारमीमांसा - ईश्वरमतं, सुखदुःखे, मोक्षस्य स्वरूपं साधनं च, नीतिशिक्षा (क्वचित्) च अनया दृष्ट्या विमृश्यते ।

भारतीयेषु दर्शनेषु अधोलिखितानां दर्शनानां प्राधान्यम् अस्ति । अन्येऽपि अनेकानि दर्शनानि सन्ति ।

चार्वाक, बौद्ध, जैन, न्याय, सांख्य, योग, वैशेषिक, पूर्व-मीमांसा, उत्तर-मीमांसा/वेदान्त, व्याकरणदर्शनम्

"https://sa.wikipedia.org/w/index.php?title=तत्त्वज्ञानम्&oldid=402473" इत्यस्माद् पुनः प्राप्तिः