जैमिनिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जैमिनि इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

भगवान् महर्षिर्जैमिनिर्जनिं लब्ध्वा परमकारुणिको श्रुत्यर्थतात्पर्यनिर्णये विभ्रान्तपिपासूनामाकाङ्क्षातृष्णाशान्तये कौत्सकुलमलञ्चकार। महाभागोऽयं भगवत्कृष्णद्वैपायनपाराशर्यव्यासशिष्यः आसीत्। तदुद्धृतं नीलकण्ठशास्त्रिणा ‘Jaimini and Badarayana’ इत्याख्ये निबन्धे− ‘सोऽयं प्राजापत्यो विधिः ताम् इमां प्रजापतिः बृहस्पतये प्रोवाच, बृहस्पतिर्नारदाय, नारदो विश्वकसेनाय, विश्वकसेनो व्यासाय पाराशर्याय, व्यासः पाराशर्यो जैमिनये, जैमिनिः पौष्पिण्ड्याय पाराशर्यायणाय...’[१] इति। व्यासः स्वशिष्याय जैमिनये सामवेदं प्रददौ इति श्रीमद्भागवताद्विज्ञायते−


‘पराशरात्सत्यवत्यामंशांशकलया विभुः।

अवतीर्णो महाभागो वेदञ्चक्रे चतुर्विधम्॥

तेषां स चतुरः शिष्यान् उपाहूय महामतिः।

एकैकां संहितां ब्रह्मन् एकैकस्मै ददौ विभुः॥

साम्नां जैमिनये प्राह ततः छन्दोगसंहिताम्॥’ (श्रीमद्भागवतम्- २.६.४९,५५) इति।


महर्षिरयं जनमेजयायोजितसर्पसत्रस्योद्गाता आसीदिति भारताज्ज्ञायते−

‘उद्गाता ब्राह्मणो वृद्धो विद्वान् कौत्सोऽथ जैमिनिः’ (महाभारतम्- १.५३.६) इति।

देशः[सम्पादयतु]

महर्षिर्जैमिनिः कुत्रत्यः आसीदित्यस्मिन् विषये स्फुटं तथ्यं किमपि नोपलभ्यते।

कालः[सम्पादयतु]

भारतीयविदुषां समयनिर्धारणतिकष्टसाध्यं, यतस्तैः स्वविषये किमपि न लिखितम्। अस्यां स्थितौ अन्यकृतैरुल्लेखैः अनुमानेन च प्राचां दार्शनिकानां समयो व्यवस्थापनीयो भवति। अस्मादेव हेतोः जैमिनेः समयविषयेऽपि मतभेदा विद्यन्ते−

१) कालिदासः रघुवंशे जैमिनिमुल्लिलेख− ‘महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा’ (रघुवंशम्- १८.३३) इति। अतःचतुर्थपञ्चमशतकीयात् कालिदासात् प्राचीनो जैमिनिरिति सिद्ध्यति।

२) जैमिनसूत्रभाष्यं विरचयता शबरेण पाणिनिकात्यायनौ स्मृतौ− ‘सद्वादित्वाच्च पाणिनेर्वचनं प्रमाणम्, असद्वादित्वान्न कात्यायनस्य’ (शाबरभाष्यम्- १०.८.१) इति। पी. वी. काणेमहोदयः पाणिनेः क्रिस्तपूर्वषष्ठशतकोत्पन्नत्वं मनुते, ततः अपि प्राक्तनो जैमिनिरिति सिध्यति।

३) आश्वलायनगृह्यसूत्रे जैमिनेरुल्लेखो वर्तते− ‘प्राचीनावीतिसुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्यभारतमहाभारत-धर्माचार्या इति’ (आश्वलायनगृह्यसूत्रम्- ३.४.५) इति। आश्वलायनश्च पाणिनेरपि प्राचीनः। यतोहि आश्वलायनशब्दव्युत्पादनाय अश्वलशब्दात्फक्प्रत्ययविधानाय पाणिनिना नडादिगणे अश्वलशब्दस्य ग्रहणं कृतम्।

४) किञ्च पाणिनेर्गुरुः आसीदुपवर्षः इति प्रसिद्धिः। सोऽपि जैमिन्यपेक्षया अर्वाचीनः। यतोहि शबरेण मीमांसासूत्रभाष्ये वृत्तिकारः भगवान् इत्याद्युपाधिना उपवर्षः सम्बोध्यते− ‘अथ गौरित्यत्र कः शब्दः? गकारौकारविसर्जनीया इति भगवानुपवर्षः’ (शाबरभाष्यम्- १.१.५) इति। एवञ्च उपवर्षादपि जैमिनिः प्राचीनः।

एवं समीक्षया जैमिनिः ख्रीष्टपूर्वदशमशतकात् पूर्वमेव आसीत् न परतः इति सिद्ध्यति। गजाननमहोदयस्तु ५००० ई. पू. समये जैमिनिरासीदित्यभिप्रैति।

कृतिः[सम्पादयतु]

भगवता जैमिनिना द्वादशाध्यायात्मिका शताधिकाधिकरणोपेता सप्तविंशतिशतसूत्रात्मिका द्वादशलक्षणी निरमायि। ‘अत उपपन्नं जैमिनिवचनमाकृतिः शब्दार्थः’ (शाबरभाष्यम्- १.१.५) इति शबरवचनेन जैमिनेः सूत्रकर्तृकत्वं निर्विवादसिद्धम्। तत्र प्रथमेऽध्याये विध्यादेः प्रामाण्यं निरूपितं, द्वितीये तद्विधेयकर्मभेदः प्रपञ्चितः, तृतीये विहितानां शेषशेषिभावः, चतुर्थे क्रतुप्रयुक्तानुष्ठेयानां पुरुषार्थप्रयुक्तानुष्ठेयानां च पदार्थानां परिमाणं चिन्तितं, पञ्चमे अनुष्ठानक्रमचिन्ता, षष्ठे विहितकर्मफलभोक्तृत्वरूपाधिकरणनिरूपणं, सप्तमे प्रत्यक्षवचनातिदेशशेषनामलिङ्गातिदेशविचारः, अष्टमे स्पष्टास्पष्टप्रबललिङ्गा-तिदेशापवादविचारः, नवमे ऊहविचारारम्भसामोहमन्त्रोहतत्प्रसङ्गविचारः, दशमे बाधहेतुद्वारलोपविस्तारबाधकारणकार्यैकत्व-समुच्चयग्रहादिविचारः, एकादशे तन्त्रादिचिन्ता, द्वादशे प्रसङ्गतन्त्रिनिर्णयसमुच्चयविकल्पविचारः। जैमिनीयश्रौतसूत्रम्, जैमिनीयगृह्यसूत्रम् इत्यपि जैमिनेः कृतिरिति विद्वांसो वदन्ति। ज्यौतिषशास्त्रज्ञोऽयं ‘जैमिनीयसूत्रम्’ इति ग्रन्थं विरचयाञ्चक्रे इति सम्प्रदायः। अयञ्च ग्रन्थः काशीहिन्दुविश्वविद्यालयस्य भूतपूर्वज्यौतिषाध्यापकेन रामयत्न-ओझामहोदयेन चौखम्बाप्रकाशनतः प्रकाशितः।

अयञ्च गजेन मारितः इति पञ्चतन्त्रोपाख्यानाद्विज्ञायते− ‘मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम्’ इति।

उद्धरणम्[सम्पादयतु]

  1. Prof. R. A. Nilakantha Sastri, Jaimini and Badarayana, p. 173, I.A. Vol. L. 1921.

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जैमिनिः&oldid=431479" इत्यस्माद् पुनः प्राप्तिः