ज्ञानविज्ञानतृप्तात्मा...
श्लोकः
[सम्पादयतु]- ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।
- युक्तइत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८ ॥
अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ज्ञानविज्ञानतृप्तात्मा कूटस्थः विजितेन्द्रियः युक्तः इति उच्यते योगी समलोष्टाश्मकाञ्चनः ॥
अन्वयः
[सम्पादयतु]ज्ञानविज्ञानतृप्तात्मा कूटस्थः समलोष्टाश्मकाञ्चनः विजितेन्द्रियः युक्तः योगी इति उच्यते ।
शब्दार्थः
[सम्पादयतु]- ज्ञानविज्ञानतृप्तात्मा = ज्ञानानुभवसन्तुष्टचित्तः
- कूटस्थः = निर्विकारः
- समलोष्टाश्मकाञ्चनः = मृत्पाषाणसुवर्णेषु समानबुद्धिः
- विजितेन्द्रियः = वशीकृतेन्द्रियः
- युक्तः = समाहितचित्तः
- योगी इति = योगी इति
- उच्यते = अभिधीयते ।
अर्थः
[सम्पादयतु]गुरुणा उपदिष्टस्य ज्ञानेन प्रत्यक्षानुभवेन च यस्य चित्तं प्रसन्नं वर्तते यश्च निर्विकारः यश्च इन्द्रियाणां वशीकर्ता वर्तते, यस्य च मृत्पिण्डे पाषणे सुवर्णे च समानताबुद्धिः सञ्जाता, तादृशः समाधौ मग्नः योगी इति कथ्यते । (ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानम् । विज्ञानं शास्त्रतो ज्ञातानां तथा एव स्वानुभवविषयीकरणम् ।)
शाङ्करभाष्यम्
[सम्पादयतु]ज्ञानेति। ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्रोक्तपदार्थानां परिज्ञानं, विज्ञानं तु शास्रतो ज्ञातानां तथैव स्वानुभवकरणं ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तःिसंजातालंप्रत्यय आत्मान्तकरणं यस्य स ज्ञानविज्ञानतृप्तात्मा कूटस्थोऽप्रकम्प्यो भवतीत्यर्थः। विजितेन्द्रियश्च। य ईदृशो युक्तः समाहित इति स उच्यते कथ्यते।स योगी समलोष्टाश्मकाञ्चनो लोष्टाश्मकाञ्चनानि समानि यस्य स समलोष्टाश्मकाञ्चनः ।।8।।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- http://sa.wikisource.org/wiki/भगवद्गीता
- Mahabharata 6.23–6.40 (sacred-texts.com)
- GRETIL etext of MBh 6 Archived २०१०-११-१० at the Wayback Machine (text begins at 06,023)
- 1890 translation by William Quan Judge
- 1900 translation by Sir Edwin Arnold
- The Gita According to Gandhi by Mahadev Desai of Mahatma Gandhi's 1929 Gujrati translation and commentary
- 1942 translation by Swami Sivananda
- 1971 translation by A. C. Bhaktivedanta Swami Prabhupada entitled Bhagavad Gita As It Is with Sanskrit text and English commentary.
- 1983 translation by A. C. Bhaktivedanta Swami Prabhupada entitled Bhagavad Gita As It Is with Sanskrit text and English commentary.
- 1988 translation Archived २००८-०८-२८ at the Wayback Machine by Ramananda Prasad
- 1992 translation and commentary Archived २००८-०७-०५ at the Wayback Machine by Swami Chinmayananda
- 1993 translation by Jagannatha Prakasa (John of AllFaith)
- 2001 translation by Sanderson Beck
- Six commentaries Archived २००८-०५-२२ at the Wayback Machine: by Adi Sankara, Ramanuja, Sridhara Swami, Madhusudana Sarasvati, Visvanatha Chakravarti and Baladeva Vidyabhusana (all in sanskrit)
- Essays on Gita Archived २०११-१२-१० at the Wayback Machine by Sri Aurobindo
- Gita Supersite Original text, with several accompanying translations or commentaries in Sanskrit, English, or Hindi
- Srimad Bhagavad Gita
- Bhagavad-Gita Trust translation in multiple languages with audio and translation of commentary from the four authorized Vaishnava sampradayas
- Multiple English Translations Archived २०११-१०-०९ at the Wayback Machine
- Maharishi Mahesh Yogi on the Bhagavad-Gita, A New Translation and Commentary, Chapters 1–6 Archived २००८-१०-१५ at the Wayback Machine
- Recitation of verses in Sanskrit (MP3 format)
- Bhagavad Gita (As It Is) Complete Archived २०११-१२-१३ at the Wayback Machine produced by The International Society for Krishna Consciousness
- Bhagavad Gita in 6 Languages Archived २००८-०५-०९ at the Wayback Machine