ज्ञेयं यत्तत्प्रवक्ष्यामि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः[सम्पादयतु]

ज्ञेयं यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते अनादिमत् परं ब्रह्म न सत् तत् न असत् उच्यते ॥ १२ ॥

अन्वयः[सम्पादयतु]

यत् ज्ञेयं तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते । अनादिमत् परं ब्रह्म न सत् । तत् न असत् उच्यते ।

शब्दार्थः[सम्पादयतु]

ज्ञेयम् = ज्ञातव्यम्
प्रवक्ष्यामि = विस्तरशः कथयामि
ज्ञात्वा = अवबुध्य
अमृतम् = मोक्षम्
अश्नुते = अनुभवति
अनादिमत् = आदिरहितम्
परम् = उत्तमम्
न सत् = न सत् भवति
तत् = ब्रह्म
न असत् = असत् अपि न भवति ।

अर्थः[सम्पादयतु]

यत् ज्ञातव्यं तत् विस्तरशः कथयामि यत् ज्ञात्वा मोक्षम् अनुभवति । परं ब्रह्म आदिरहितम् । तदिदं ब्रह्म विधिमुखेन प्रमाणविषयो न भवति, निषेधमुखेनापि न प्रमाणविषयो भवति ।


सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]