झुञ्झुनुमण्डलम्
दिखावट
(झुंझुनूमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
झुञ्झुनुमण्डलम् | |
---|---|
मण्डलम् | |
राजस्थानराज्ये झुञ्झुनुमण्डलम् | |
Country | भारतम् |
States and territories of India | राजस्थान |
Area | |
• Total | ५,९२६ km२ |
Population (२००१) | |
• Total | २१,३९,६५८ |
Website | http://jhunjhunu.nic.in |
झुञ्झुनुमण्डलं (हिन्दी: झुंझुनू जिला, आङ्ग्ल: Jhunjhunu district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रमस्ति झुञ्झुनुनामकं नगरम् ।
भौगोलिकम्
[सम्पादयतु]झुञ्झुनुमण्डलस्य विस्तारः ५९२६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे, उत्तरे च चुरूमण्डलं, दक्षिणे सीकरमण्डलम् अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं झुञ्झुनुमण्डलस्य जनसङ्ख्या २१३९६५८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.८१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५० अस्ति । अत्र साक्षरता ७४.७२ % अस्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- राणी सती मन्दिरम्
- बादलगढ किला
- जोरावरगढ किला
- खेत्री महल्
- धोसी पर्वतः
- खेतन हवेली
बाह्यानुबन्धाः
[सम्पादयतु]- Jhunjhunu information Archived २०१९-०८-१७ at the Wayback Machine
- Official website