ठाणे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
ठाणे Thane
—  city and district headquarters  —
ठाणे Thane
Location of ठाणे Thane
in ठाणे
निर्देशाङ्काः

१९°१०′२१″उत्तरदिक् ७२°५७′२५″पूर्वदिक् / 19.172431°उत्तरदिक् 72.957019°पूर्वदिक् / १९.१७२४३१; ७२.९५७०१९

देशः भारतम्
राज्यम् Maharashtra
मण्डलम् Thane
Mayor Ashok Vaity
Municipal Commissioner R. Rajeev
सांसदक्षेत्रम् Thane
विधानसभा Thane
जनसङ्ख्या

• सान्द्रता

२४,८६,९४१ (2011)

16,918 /किमी2 (43,817 /वर्ग मील)

समयवलयः IST (UTC+05:30)
विस्तीर्णम् 147 वर्ग किलोमीटर (57 वर्ग मील)
जालस्थानम् www.thane.nic.in

ठाणा महाराष्ट्र्राज्ये मुम्बयीनगरस्य समीपे विद्यमानं नगरम् । ठाणामण्डलस्य केन्द्रस्थानमपि। ’ठाणा’ नगरं महाराष्ट्रराज्ये मुम्बयी नगरस्य समीपे विद्यमानम् नगरम् । ठाणेमण्डलस्य केन्द्रस्थानमपि ।

उपवनसरोवरम्

इतिहासः[सम्पादयतु]

ठाणानगरस्य इतिहासः पञ्चकालखण्डेषु विभाजयितुं शक्यः । १. वेदकालात् क्रि.श . १३०० पर्यन्तम् [पुरातनकालात् अपरान्त(शिलाहार)-बिम्बासाम्राज्यपर्यन्तम् ।] २. क्रि.श.१३०० तः क्रि.श १७३७ पर्यन्तम् ( मुसल्मानानां तथा पोर्चगीसजनानां राज्यभारस्य कालः) ३. क्रि.श १७३७ तः क्रि.श १८०० पर्यन्तम् (मराठा तथा पोर्चगीसजनानां कालः ) ४. क्रि.श. १६०० तः क्रि.श १९४७ : ब्रिटिष (आंग्ल) राज्यभारस्य कालः । ५. १९४७ तः अद्यपर्यन्तम् (स्वतन्त्रभारतम्) कोङ्कणप्रदेशे राज्यभारं कुर्वतां शिलाहारराजानां राजधानी “स्थानम्” अथवा “स्थाणकम्” एव ‘ठाणा’ इति सञ्जातम् इति अभिप्रायः अस्ति । मध्ययुगस्य शिलाशासननि, कांस्यपात्राणि ठाणाप्रदेशे उपलब्धानि सन्ति । ठाणाप्रदेशस्य पुरातनं नाम “अपरान्तम्” इति । ग्रीकचक्रवर्ती अलेग्झाण्डर् भारतस्य उपरि आक्रमणार्थं यदा आगतवान् तदा तेन साकम् अनेके तत्वशास्त्रज्ञाः इतिहासज्ञाः, भूगोलशास्त्रज्ञाः भारतस्य सन्दर्शनं कृतवन्तः । ग्रीक् तत्वशास्त्रज्ञः टालेमि, स्वलेखनेषु(क्रि.श. २३५ तः २५०पर्यन्तम्) चेर्सोनेसस् नामकम् स्थलम् उल्लिखितवान् अस्ति । सः एव प्रदेशः अद्यतनठाणासमीपस्थः समुद्रतीरप्रदेशः इति संशोधनद्वारा ज्ञातम् अस्ति । क्रि.श नवमे शतके (श्रीस्थानकम् इति प्रसिध्दम्) ठाणा शिलहारसाम्राज्यस्य राजधानी आसीत् । तेषां राज्यभारः क्रि.श ८१० तः १२६० पर्यन्तम् । ठाणानगरे अद्यापि स्थितं ‘घोड्बन्दर’ नामकं स्थानं पुरा अश्ववाणिज्यार्थम् प्रसिध्दमासीत् । अस्मिन् काले ‘तान्सि’ नाम्ना यत् वस्त्रं प्रसिद्धम् अस्ति तत् अस्मात् प्रदेशात् विदेशं प्रति गच्छति स्म । शैवाः शिलाहारराजानां काले कौपीनेश्वरदेवालयं निर्मितवन्तः । शिलाहारणां सर्वधर्मसमभावकारणतः प्रोत्साहं प्राप्तवन्तः अन्यमतीयाः नाम पारसिकाः, क्रैस्ताः, महम्मदीयाः यहूदीयाः अत्र निवसन्ति स्म । शिलहाराः नगरं विभिन्नवलयेषु विभज्य तान् वलयान् ‘पाडा’ इति आहूतवन्तः । तान् अद्य नौपाडा, पाटलीपाडा, अग्रिपाडा इति ठाणाप्रदेशे वयं पश्यामः । २२ तमशतकस्य आदिमभागे नूतनं नगरं निर्मातुं राजा बिम्बदेवः स्व ६६ उपशाखाभिः सह अत्र आगत्य अत्र वासम् आरब्धवान् । ख्यातः इटलीयात्रिकः मार्कोपोलो क्रि.श १२९० तमे वर्षे ठाणानगरं सन्दर्शितवान आसीत् ।‘महानगर’ मिति उल्लिखितम् एतन्नगरम्, तस्य यात्रिकस्य उल्लेखानुसारं, सदागमनकर्तृभिः नौभिः, चर्म-कार्पासयोः निर्यातेन, अश्वानाम् आयातेन तेषां वाणिज्येन च एतत् बहुषः सुसज्जितं नौकास्थामासीत् इति ज्ञायते । १४८० वर्षे गुजरातस्य सुल्तान् महमूद्दबेगारः स्वस्य ‘सुभा’राज्यस्य राजधानीरूपेण ठाणानगरं चितवान् । १५३० तः १७३९ पर्यन्तं तन्नाम द्विशतवर्षाधिकवर्षाणि यावत् ठाणा पोर्चगीसजनानां वशे आसीत् । तस्मिन् काले ‘कलबे द ठाणा’ इति नाम आसीत् अस्य । अत्रत्य सेन्ट् जान् द ब्याप्टिष्ट क्रिस्तालयः १६६३ तमे वर्षे स्थापितः । १७३० तमे वर्षे ठाणादुगस्य निर्माणम् आरब्धम् । मराठासेनापतिः चिमाजि अप्पा १७३७ तमे वर्षे वसयीप्रदेशस्य आक्रमणं कर्तुं योजनां कृतवान् । १७२७ मार्चमासस्य २८ दिनाङ्के ठाणादुर्गं मराठानां वशमभूत् । १७४४ तमे वर्षे आंग्लाः ठाणानगरं तथा दुर्गं च स्वाधीनं कृतवन्तः । १७६० तमे वर्षे कौपीनेश्वरदेवालयस्य पुनरुज्जीवनं कृतम् । पेश्वेजनानां प्रासादसदृशसौधेषु १७७८ तमे वर्षे न्यायालयः स्थपितः । पारसीकजनानाम् अग्निदेवालयः १७८० तमे वर्ष स्थापितः । १८६३ तमवर्षस्य मार्चमासस्य दशमदिनाङ्के ठाणापुरसभा अस्तित्वे आगता । ठाणाप्रदेशस्य प्रथमवृत्तपत्रिका, १८६६ तमे वर्षे आरब्धा । तस्मिन् काले “अरुणोदयः” “सर्वोदयः” , “वकीलांचा साथी “ “न्यायलहरी” “मनोहरः” “ज्ञानप्रदीपः” “ज्ञानदीपिका” इत्यादिपत्रिकानां प्रसारणं भवति स्म । १८८० तमे वर्षे ११,९६० रूप्यकाणां व्ययेन ठाणानगरस्य पानजलार्थं पोख्रणसरोवरस्य अभिवृद्धिः कारिता । योजनायाः अस्य प्रारम्भोत्सवे मुम्बयीप्रेसिडेन्सिराज्यपालः सर् फर्ग्युसन् जेस्म महोदयः आहूतः आसीत् । १८८१ तमे वर्षे ऐदम्प्राथम्येन कृतस्य प्रथमजनगणनानुसारं ठाणानगरस्य जनसंख्या १४,४५६ आसीत् । ठाणा आंग्लस्कूल्’ नामिका प्रथम-आंग्लमाध्यमशाला १८११ तमे वर्षे आरब्धा । नासिकमण्डलस्य आंग्लाधिकारिणं जाक्सन्महोदयम् गोलिकाप्रहारेण मारितवन्तः इति आरोपकारणतः क्रान्तिकारिणः अनन्तलक्ष्मणकान्हेरे, गोपालकृष्णाजिकर्वे, तथा विनायकनारायणदेशपाण्डे इत्येतेषां त्रयाणां ठाणाकेन्द्रीयकारागृहे उद्बन्धनद्वारा मरणदण्डनं कृतम् । भारतस्य प्रथमं धूमशकटयानं मुम्बयीनगरस्य वी.टी.तः (इदानीं छत्रपतिशिवाजिटर्मिनल् ) ठाणापर्यन्तं १८५३ तमे वर्षे प्राचलत् । तदा शिवाजिटर्मिनल् अतिरिच्य एतदेव एकैकं शकटनिस्थानकं आसीत् ।

अद्यतनठाणानगरम्[सम्पादयतु]

भारतस्य स्वातन्त्र्यानन्तरम् अभिवृद्धिं प्राप्तवत् ठाणानगरं षष्ठे, सप्तमे च दशके औद्योगिकं केन्द्रमभवत् । तदनुसारं वाणिज्य- सम्पर्क-वास्तुनिर्माणक्षेत्रे प्रक्रिया प्रारब्धा इत्यतः अष्टमे दशके एतस्य वेगेन वर्धनम् अभवत् । मुम्बयीनगरस्य तुलनया अभिवृद्धिदृष्ट्या निस्तेजितस्थित्यां विद्यमानं ठाणानगरम् अद्य स्वच्छतादृष्ट्या मुम्बयीनगरम् अतिशेते । आधुनिकठाणा नगरसभा १८८२ तमे वर्षे आरब्धा । नगरसभायाः अभिवृध्दियोजनायाः फलरुपेण २००० तमे वर्षे भारतसर्वकारस्य ‘स्वच्छन्गरी’ प्रशस्तिः ठाणानगरेण प्राप्ता । ठाणानगरम् अद्यापि (२००७) त्वरिताअभिवर्धनकारणात् जनस्म्मर्दसप्तस्यां,तथा सञ्चारसमस्याम् अनुभवति । ठाणानगरे अनादिकालात् समुद्रसञ्चारस्य प्राधान्यत्वात् स्थानीयस्य तथा अन्ताराष्ट्रियवाणिज्यस्य अभिवृध्दिः शक्या अभवत् । ठाणानगरस्य सुसम्पन्ना सांस्कृतिकपरम्परा, पौराणिकाधारावती सती, ऐतिहासिकमहत्वस्य अनेकघटनानां केन्द्रस्थाने अस्ति । अद्य ठाणादुर्गं तावत् केन्द्रीय कारागारमभूत् । अत्र ‘रङ्गायतनम्’ इति नाट्यगृहं वर्तते । मराठीभाषायाः प्रसिद्धनाटककारस्य रामगणेशगडकरीवर्यस्य स्मरणार्थं निर्मिते अस्मिन् भवने सदा सांस्कृतिककार्यक्रमाः प्रचाल्यन्ते ।

संस्कृतिः[सम्पादयतु]

७६% मराठीभाषिकाः अत्र सन्ति । अतः ते एव अत्र बहुसङ्ख्याकाः । तथापि मराठ्येतरभाषिकाणां संस्कृतिः अपि अत्र स्फुटतया दृश्यते । मुम्बयीनगरस्य लघुषु महार्घेषु गृहेषु उषित्वा जामिताम् अनुभूय मुम्बयीजनाः ठाणानगरम् आश्रितवन्तः । गोकुलष्टमीदिने ‘दही हण्डी’ कार्यक्रमः प्रसिध्दः ।

विशेषदर्शनीयस्थलानि[सम्पादयतु]

ठाणाकेन्द्रीय कारागारं, ब्यप्टिस्ट् क्रिस्तालयः ,कौपीनेश्वरमन्दिरम्, तलावपाळी, उपवनसरोवरम्, चन्दनवाडेः ब्रह्मदेवालयः च । ‘तटाकानां नगरम्’ ‘(सरोवराणां नगरम् ’) इति ठाणा प्रसिद्धम् अस्ति । तत्र जलविहारसौलभ्यमपि विद्यते ।

"https://sa.wikipedia.org/w/index.php?title=ठाणे&oldid=390232" इत्यस्माद् पुनः प्राप्तिः