डारोति क्रोफट् हाज्किन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
डारोति क्रोफट् हाज्किन्
जननम् (१९१०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१२)१२ १९१०
Cairo, Egypt
मरणम् २९ १९९४(१९९४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-२९) (आयुः ८४)
Ilmington, Warwickshire, England, UK
देशीयता United Kingdom
कार्यक्षेत्राणि Biochemistry
संस्थाः University of Oxford
मातृसंस्थाः Somerville College, Oxford
University of Cambridge
संशोधनमार्गदर्शी J. D. Bernal
शोधच्छात्राः Judith Howard, Tom Blundell[१]
अन्ये विशिष्टाः छात्राः Margaret Thatcher
विषयेषु प्रसिद्धः Development of Protein crystallography
Determining the structure of Insulin
प्रमुखाः प्रशस्तयः Nobel Prize in Chemistry (1964)
Copley Medal (1976)
Lomonosov Gold Medal (1982)


Dorothy Hodgkin

(कालः – १९१० तः १९९४)

इयं डारोति क्रोफट् हाज्किन् (Dorothy Crowfoot Hodgkin) प्रख्याता रसायनविज्ञानिनी । एषा डारोति क्रोफट् हाज्किन् १९१० वर्षे ईजिप्त्–देशस्य कैरोनगरे जन्म प्राप्नोत् । सा आक्सफर्ड–विश्वविद्यालये अध्ययनम् अकरोत् । मध्ये वर्षद्वयं यावत् केम्ब्रिड्ज्–विश्वविद्यालये अपि अध्ययनम् अकरोत् । एषा बहूनि महत्त्वभूतानि संशोधनानि कृतवती । विटमिन् बि–१२ अणोः सङ्कीर्णां रचनाम् एषा डारोति क्रोफट् हाज्किन् संशोधितवती । अनेन सह "कोलस्टराल्”, "ऐयोडिन्”, "पेन्सिलिन्”, "इन्सुलिन्” इत्यादीनां रसायनिक-संयुक्तानां विवरणम् अपि अकरोत् । एतानि सम्सोधनानि वैद्यविज्ञानस्य कृते महत्त्वभूतानि उपायनानि अभवन् ।

बि – १२ अणोः रचनायाः कारणतः शरीरं कथं रक्तवर्णस्य रक्तकणानाम् उपयोगं करोति इति ज्ञातम् । तेन ज्ञानेन "पर्निषियस् अनिमिय" इति रोगस्य औषधस्य अन्वेषणम् अपि सुलभम् अभवत् । एषा डारोति क्रोफट् हाज्किन् १९७२ तमे वर्षे आधुनिकानां सङ्गणाकानां साहाय्येन "इन्सुलिन्”–रचनां संशोधितवती । एतया डारोति क्रोफट् हाज्किनया अनुसृतम् "एक्स्-किरण डिफ्राक्षन् तन्त्रं” डि एन् ए - इत्यस्य रचनायाः निर्णये अपि साहाय्यम् अकरोत् । एषा डारोति क्रोफट् हाज्किन् प्रमुखाणां जीवरसायनवस्तूनां रचनाम् एक्स्-किरण डिफ्राक्षन् तन्त्रद्वारा संशोधितवती इति १९६४ तमे वर्षे रसायनविज्ञानस्य विभागे "नोबेल्”–पुरस्कारम् अपि प्राप्नोत् । एषा डारोति क्रोफट् हाज्किन् १९९४ तमे वर्षे मरणं प्राप्नोत् ।

रायल्-सोसैट्या डारोति क्रोफट् हाज्किनायै प्रदत्तं पदकम्

टिप्पणी[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]