ततः स विस्मयाविष्टो...
दिखावट
श्लोकः
[सम्पादयतु]अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः ।
- प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ १४ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्दशः(१४) श्लोकः ।
पदच्छेदः
[सम्पादयतु]ततः स विस्मयाविष्टः हृष्टरोमा धनञ्जयः प्रणम्य शिरसा देवं कृताञ्जलिः अभाषत ॥ १४ ॥
अन्वयः
[सम्पादयतु]ततः हृष्टरोमा सः धनञ्जयः विस्मयाविष्टः शिरसा देवं प्रणम्य कृताञ्जलिः अभाषत ।
शब्दार्थः
[सम्पादयतु]- ततः = अनन्तरम्
- हृष्टरोमा = सरोमाञ्चः
- सः धनञ्जयः = सः अर्जुनः
- विस्मयाविष्टः = आश्चर्योपेतः
- शिरसा = शीर्षेण
- देवम् = विष्णुम्
- प्रणम्य = नमस्कृत्य
- कृताञ्जलिः = बद्धाञ्जलिः
- अभाषत = अवदत् ।
अर्थः
[सम्पादयतु]अनन्तरं सरोमहर्षः सः अर्जुनः विस्मितः शिरसा विष्णुं नमस्कृत्य कृताञ्जलिः अवदत् ।