तत्त्वविवेकः
Jump to navigation
Jump to search
तत्त्वविवेकस्य रचयिता मध्वाचार्यः भवति। अस्मिन् ग्रन्थे तत्त्वविवेचना कृता अस्ति।
ग्रन्थसारः[सम्पादयतु]
प्रमेयः स्वतन्त्रपरतन्त्रभेदेन द्विधा। निर्दोषयुक्तः, अनन्तगुणपूर्णः महाविष्णुः एकः एव स्वतन्त्रः भवति। अन्ये सर्वेऽपि अस्य अधीने भवन्ति। ते सर्वेऽपि परतन्त्राः भवन्ति। परतन्त्रप्रमेयः भावाभावभेदेन द्विधा। अभावः पूर्वभावः, अपराभावः, सदाभावः इति त्रिधा विभक्तः अस्ति। भावः चेतनाचेतनभेदेन द्विधा भवति। चेतनः नित्यमुक्तः तथा संसारीति द्विधा। संसारीचेतनः मुक्तामुक्तभेदेन द्विधा। अमुक्ताः – उत्तमाः, मध्यमाः तथा अधमाः इति। अचेतनः नित्यानित्यभेदेन द्विधा। देशः, कालः, वेदः, पञ्चभूतानि, दशेन्द्रियाणि, प्राणः, सत्वरजस्तमाः, पञ्चतन्मात्राणि, महत्तत्वम्, अहङ्कारतत्त्वम्, बुद्धितत्त्वानां सूक्ष्मरूपाणि नित्यानि भवन्ति। तेषां विकाराणि अनित्यानि भवन्ति।
- श्री जयतीर्थस्य अस्य ग्रन्थाय व्याख्यानम् अस्ति।
- श्री व्यासराजस्य मञ्जरी टीका अस्ति।
- श्री श्रीनिवासतीर्थस्य व्याख्यानम् उपलभ्यते।