तत्रैकाग्रं मनः कृत्वा...
श्लोकः
[सम्पादयतु]- तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
- उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥
अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः
[सम्पादयतु]तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्य आसने युञ्ज्यात् योगम् आत्मविशुद्धये ॥
अन्वयः
[सम्पादयतु]यतचित्तेन्द्रियक्रियः शुचौ देशे स्थिरं नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् आत्मनः आसनं प्रतिष्ठाप्य तत्र आसने उपविश्य मनः एकाग्रं कृत्वा आत्मविशुद्धये योगं युञ्ज्यात् ।
शब्दार्थः
[सम्पादयतु]- यतचित्तेन्द्रियक्रियः = नियतेन्द्रियव्यापारः
- शुचौ = परिशुद्धे
- देशे = स्थाने
- स्थिरम् = अचलम्
- नात्युच्छ्रितम् = नात्युन्नतम्
- नातिनीचम् = नातिनिम्नम्
- चैलाजिनकुशोत्तरम् = वस्त्रकृष्णाजिनदर्भोत्तरम्
- आत्मनः = स्वस्य
- आसनम् = पीठम्
- प्रतिष्ठाप्य = संस्थाप्य
- तत्र = तस्मिन्
- आसने = पीठे
- उपविश्य = उपविश्य
- मनः = चित्तम्
- एकाग्रम् = संलग्नम्
- कृत्वा = विधाय
- आत्मविशुद्धये = अन्तःकरणनैर्मल्याय
- योगम् = समाधिम्
- युञ्ज्यात् = युञ्जीत ।
अर्थः
[सम्पादयतु]शुद्धे स्थाने अधोभागे तादृशम् आसनं भवेत् यत् न अत्युन्नतं नापि अतिनीचम् । तस्मिंश्च आसने कुशान् अजिनं मृदुवस्त्रं च क्रमेण प्रसार्य, तत्र उपविश्य अवधानेन मनःप्रभृतीनां सर्वेषाम् इन्द्रियाणां क्रियां नियन्त्र्य चित्तशुद्धये समाधिं कुर्यात् ।
शाङ्करभाष्यम्
[सम्पादयतु]प्रतिष्ठाप्य किम्-तत्र तस्मिन्नासन उपविश्य योगं युञ्ज्यात्। कथं, सर्वविषयेभ्य उपसंहृत्यैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तं चेन्द्रियाणि च चितेन्द्रियाणितेषां क्रियाः संयता यस्य स यतचित्तेन्द्रियक्रियः। स किमर्थं योगं युञ्ज्यादित्याह आत्मविशुद्धयेऽन्तःकरणस्य विशुध्द्यर्थमित्येतत् ।।12।।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- http://sa.wikisource.org/wiki/भगवद्गीता
- Mahabharata 6.23–6.40 (sacred-texts.com)
- GRETIL etext of MBh 6 Archived २०१०-११-१० at the Wayback Machine (text begins at 06,023)
- 1890 translation by William Quan Judge
- 1900 translation by Sir Edwin Arnold
- The Gita According to Gandhi by Mahadev Desai of Mahatma Gandhi's 1929 Gujrati translation and commentary
- 1942 translation by Swami Sivananda
- 1971 translation by A. C. Bhaktivedanta Swami Prabhupada entitled Bhagavad Gita As It Is with Sanskrit text and English commentary.
- 1983 translation by A. C. Bhaktivedanta Swami Prabhupada entitled Bhagavad Gita As It Is with Sanskrit text and English commentary.
- 1988 translation Archived २००८-०८-२८ at the Wayback Machine by Ramananda Prasad
- 1992 translation and commentary Archived २००८-०७-०५ at the Wayback Machine by Swami Chinmayananda
- 1993 translation by Jagannatha Prakasa (John of AllFaith)
- 2001 translation by Sanderson Beck
- Six commentaries Archived २००८-०५-२२ at the Wayback Machine: by Adi Sankara, Ramanuja, Sridhara Swami, Madhusudana Sarasvati, Visvanatha Chakravarti and Baladeva Vidyabhusana (all in sanskrit)
- Essays on Gita Archived २०११-१२-१० at the Wayback Machine by Sri Aurobindo
- Gita Supersite Original text, with several accompanying translations or commentaries in Sanskrit, English, or Hindi
- Srimad Bhagavad Gita
- Bhagavad-Gita Trust translation in multiple languages with audio and translation of commentary from the four authorized Vaishnava sampradayas
- Multiple English Translations Archived २०११-१०-०९ at the Wayback Machine
- Maharishi Mahesh Yogi on the Bhagavad-Gita, A New Translation and Commentary, Chapters 1–6 Archived २००८-१०-१५ at the Wayback Machine
- Recitation of verses in Sanskrit (MP3 format)
- Bhagavad Gita (As It Is) Complete Archived २०११-१२-१३ at the Wayback Machine produced by The International Society for Krishna Consciousness
- Bhagavad Gita in 6 Languages Archived २००८-०५-०९ at the Wayback Machine